________________
१८३
-
-
समवायः - प्रकीर्णकाः चशब्दः समुच्चये, एवं तित्थगरसंवेइ यत्ति यथा देशेन कुलकरवंशप्रतिपादकत्वात् कुलकरवंश इत्येतदाख्यायते एवं देशतस्तीर्थकरवंशप्रतिपादकत्वात् तीर्थकरवंश इति च आख्यायतेएतदिति, एवंचक्रवर्तिवंशइतिच तत्प्रतिपादकत्वात्दशारवंशइतिच गणधरवंशइतिचगणधरव्यतिरिक्ताः शेषाजिनशिष्या ऋषयस्तद्वंशप्रतिपादकत्वादृषिवंश इतिचत प्रतिपादनं चात्र पर्युषणाकल्पस्य ऋषिवंशपर्यवसानस्य समवसरणप्रक्रमेण भणितत्वादत एव यतिवंशो मनुवंशश्चैतदुच्यते ।
यतिमुनिशब्दयोःऋषिपर्यायत्वात, तथा श्रुतमिति चैतदाख्यायते, परोक्षतया कालिक र्थवबोधनसहत्वादस्य, तथा 'श्रुताङ्गमितिवा' श्रुतस्य-प्रवचनस्य पुरुषरूपस्याङ्ग-अवयव इतिकृत्वा, तथा 'श्रुतसमास इति वा समस्तसूत्रार्थानामिह संक्षेपेणाभिधानात् श्रुतस्कन्ध इति वा' श्रुतसमुदायरूपत्वादस्य समाएवत्ति समवाय इतिवा, समस्तानां जीवानां-जीवादिपदार्थानामभिधेयतयेह समवायनात् मीलनादित्यर्थः।
तथा एकादिसंख्याप्रधानतया पदार्थप्रतिपादनपरत्वादस्य संख्येति व्याख्यायते, तथा समस्तं-परिपूर्णतदेतदङ्गमाख्यातं भगवता, नेह श्रुतस्कन्धद्वयादिखण्डनेनाचारादिवदङ्गतेतिभावः, तथा 'अज्झयणंति'त्ति समस्तमेतदध्ययनमित्याख्यातं नेहोद्देशकादिखण्डनाऽस्ति शस्त्रपरिज्ञा-दिष्विवेति भावः । इतिशब्दः समाप्तौ 'ब्रवीमी तिकिल सुधर्मस्वामी जम्बूस्वामिनं प्रत्याह स्म, ब्रवीमि-प्रतिपादयामि, एतत् श्रीमन्महावीरवर्द्धमानस्वामिनः समीपे यदवधारितमित्यनेन गुरुपारम्प-र्यमर्थस्य प्रतिपादितं भवति । एवं च शिष्यस्य ग्रन्थे गौरवबुद्धिरुपजनिता भवति, आत्मनश्च गुरुषु बहुमानो दर्शित औद्धत्यं च परिहतं । अयमेवार्थ शिष्यस्य सम्पादितो भवति मुमुक्षूणां चायं मार्ग इत्यावेदितमिति समवायाख्यं चतुर्थमङ्गं वृत्तितः समाप्तम् ।।
प्रकिर्णकः समवायः समाप्तः नमः श्रीवीराय प्रवरवरपाय च नमो, नमः श्री वाग्देव्यै वरकविसभाया अपि नमः॥ ॥१॥ नमः श्रीसङ्घाय स्फुटगुणगुरुभ्योऽपि च नमो,
नमः सर्वस्मै च प्रकृतविधिसाहाय्यककृते ॥२॥ यस्य ग्रन्थवरस्य वाक्यजलधेर्लक्षं सहस्राणि च,
चत्वारिंशदहो चतुर्भिरधिका मानं पदानामभूत् ।। तस्योच्चैश्चलकाकृतिं निदधतः कालादिदोषात्तथा, दुर्लेखातू खिलतां गतस्य कुधियः कुर्वन्तु किं मादृशाः स्वं कटेऽतिनिधाय कष्टमधिकं मा मेऽन्यदा जायतां, व्याख्यानेऽस्य तथा विवेक्तुमनसामल्पश्रुतानाममुम् ।। इत्यालोचयता तथापि किमपि प्रोक्तं मया तत्र च,
दुव्यार्खयानविशोधनं विदधतु प्राज्ञाः परार्थोद्यताः - ॥४॥ इह वचसि विरोधो नास्ति सर्वज्ञवाक्यात,
क्वचन तदवभासो यः स मान्द्यान्न बुद्धेः वरगुरुविरहाद्वाऽतीतकाले मुनीशैर्गणधरवचनानां श्रस्तसङ्घातनाद्वा ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org