SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ १८४ समवायाङ्गसूत्रम् ॥५॥ व्याख्यानं यद्यपीदं प्रवरकविवचः पारतंत्र्येण द्दष्टं (ब्ध) सम्भाव्योऽस्मिंस्तथापि क्वचिदपि मनसो मोहतोऽर्थादिभेदः । किन्तु श्रीसङ्घबुद्धेरनुशरणविधेर्भावशुद्धेश्च दोषो, मा मेऽभूदल्पकोऽपि प्रशमपरमना अस्तु देवी श्रुतस्य ।। ॥६॥ निसम्बन्धविहारहारिचरितान् श्री वर्द्धमानाभिधान्, सूरीन् ध्यातवतोऽतितीव्रतपसो ग्रन्थप्रणीतिप्रभोः।। श्रीमत्सूरिजिनेश्वरस्य जयिनो दपीयसां वाग्मिनां, तब्दन्धोरपि बुद्धिसागर इति ख्यातस्य सूरे वि ।। ॥७॥ शिष्येणाभयदेवाख्यसूरिणा विवृति कृता ।। श्रीमतः समवायाख्यतुर्याङ्गस्य समासतः ।। ॥८॥ एकादशसु शतेष्वथ विंशत्यधिकेषु विक्रमसामानाम् । अणहिलपाटकनगरे रचिता समवायटीकेयम्॥ ॥९॥ प्रत्यक्षरं निरूपयास्याः, ग्रन्थमानं विनिश्चितम् । त्रीणि श्लोकसहस्राणि, पादन्यूना च षट्शती ।। | ४ चतुर्थ अङ्गसूत्र-समवायं सटीकं समाप्तः । मुनि दीपरत्नसागरेण संशोधिता सम्पादिता अभयदेवसूरि विरचिता चतुर्थ अङ्गसूत्र समवायस्य टीका परिसमाप्ता। *** Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003338
Book TitleAgam Sutra Satik 04 Samavay AngSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 04, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy