________________
१६०
समवायाङ्गसूत्रम्-२४१
प्रभा-दीप्तिस्तया सिताः-शुक्ला इत्यभ्युदतोत्सृतप्रभासिताः, तथा विविधा-अनेकप्रकारा मणयःचन्द्रकान्ताद्या रलानि-कर्केतनादीनि तेषां भक्तयो-विच्छित्तिविशेषास्ताभिश्चित्राः-चित्रवन्तः आश्चर्यवन्तोवेति विविधमणिरत्नभक्तिचित्राः, तथावातोद्भूता-वातकम्पिता विजयः-अभ्युदयस्तसंसूचिका वैजयन्तीत्यभिधाना याः पताका अथवा विजया इति वैजयन्तीनां पावकर्णिका उच्यन्तेतप्रधानायावैजयंस्ताश्चतद्वर्जिताः पताकाश्चछत्रातिच्छत्राणिच-उपर्युपरिस्थितातपत्राणि तैः कलिता-युक्ता वातोद्भूतविजयवैजयन्तीपताकाछनातिच्छत्रकलिता इति ।
तुङ्गा-उच्चैस्त्वगुणयुक्ता, अत एव 'गगनतलमणुलिहंतसिहर'त्ति गगनतलं-अम्बरतलमनुलिखद्-अभिलक्ष्यच्छिखरं येषां ते गगनतलानुलिखच्छिखराः, तथाजालान्तरेषु-जालकमध्यभागेषुरलानि येषांतेजालान्तररत्नाः,इह प्रथमाबहुवचनलोपोद्रष्टव्यः,जालकानिचभवनभित्तिषु लोके प्रतीतान्येव तदन्तरेषु च शोभार्थ रत्नानि सम्भवन्त्येवेति, तथा पञ्जरोन्मीलिता इव-पञ्जरबहिष्कृता इव, यथा किल किञ्चिद्वस्तु पञ्जराद्-वंशादिमयप्रच्छादन विशेषाद्वहिकृतमत्यन्तम-विनष्टच्छायत्वाच्छोमते एवं तेऽपीति भावः, तथा मणिकनकानां सम्बन्धिनी स्तूपिकाशिखरं येषां ते मणिकनकस्तूपिकाकाः, तथा विकसितानि यानि शतपत्रपुण्डरीकाणि द्वारादौ प्रतिकृतित्वेन तिलकाश्च-मित्त्यादिषु पुण्ड्राणि रत्नमयाश्च येअर्द्धचन्द्रा द्वाराग्रादिषु तैश्चित्रा येते विकसितशत-पत्रपुण्डरीकतिलकरलार्द्धचन्द्रचित्राः, तथा अन्तर्बहिश्च श्लक्ष्णा मसृणा इत्यर्थः ।
तथा तपनीयं-सुवर्णविशेषस्तन्मय्या वालुकायाः-सिकतायाः प्रस्तट:-प्रतरो येषु ते तपनीयवालुकाप्रस्तटाः, अथवा सण्हशब्दस्य वालुकाविशेषणत्वात् श्लक्ष्णतपनीयवालुकाप्रस्तटा इति व्याख्येयं, तथा सुखस्पर्शा शुभस्पर्शा वा, तता सीक-सशोभं रूपं आकारो येषां अथवा सश्रीकाणि-शोभावन्ति रूपाणि-नरयुग्मादीनिरूपकाणियेषुतेसश्रीकरूपाः, प्रासादनीयादर्शनीयाः अभिरूपाः प्रतिरूपा इति पूर्ववत्।
'केवइए'त्यादि, रत्नप्रभायाः पृथिव्या 'बहुसमरमणिज्जाओ भूमिभागाओ'त्ति वहुसमरमणीयस्य भूमिभागस्य उर्द्ध-उपरि तथा चन्द्रमसः-सूर्यग्रहगणनक्षत्रतारारूपाणि णमित्यलङ्कारे किं ? - 'वीइवइत्त'त्ति व्यतिव्रज्य-व्यतिक्रम्येत्यर्थः, तारारूपाणिचेह तारका एवेति, तथा 'बहूनी'त्यादि, किमित्याहउर्ध्वम्-उपरी दूरमत्यर्थंव्यतिव्रज्य चतुरशीतिविमानलक्षाणिभवन्तीतिसम्बन्धः, 'इतिमक्खाय'त्ति इति-एवंप्रकारा अथवा यतो भवन्ति तत आख्याताः सर्ववेदिनेति, 'तेणं'ति तानि विमानानि णमिति वाक्यालङ्कारे 'अच्चिमालिप्पभ'त्ति अर्चिालि-आदित्यस्तद्वत्प्रभान्तिशोभन्ते यानि तान्यर्चिालिप्रमाणि, तथा भासाना-प्रकाशानां राशि-भासराशिःआदित्यस्तस्य वर्णस्तद्वदाभा-छायावर्णो येषां केषांचित्तानि भासराशिवामानि, तथा 'अश्य'त्ति अरजांसि स्वभाविकरजोरहितत्वात् 'नीरय'त्ति नीरजांसि आगन्तुकरजोविरहात् 'निम्मल'त्ति निर्मलानि कक्खड मलाभावात् वितिमिर त्ति वितिभिराणि आहार्यान्धकाररहितत्वाविशुद्धानिस्वाभाविकतमोविरहात् सकलदोषविरामाद्वा सर्वरलमयानि न दादिदलमयानीत्यर्थः
अच्छान्याकाशस्फटिकवत् श्लक्ष्णानि सूक्ष्मस्कन्धमयत्वात् धृष्टानीवधृष्टानिखरशाणया पाषाणप्रतिमेव मृष्टानि सुकुमारशाणया पाषाणप्रतिमेवेति निष्पङ्का निकलङ्कविकलत्वात् कद्दमविशेषरहितत्वाद्वा निष्कङ्कटा-निष्कवचा निरावरणा निरुपधातेत्यर्थछाया-दीप्तिर्येषां तानि निष्कण्डकच्छायानिसप्रभाणि-प्रभावन्ति समरीचीनि-सकिरणानीत्यर्थः “सोद्योतानि-वस्त्वन्तर
Jain Education International
For Private & Personal Use Only
For P
www.jainelibrary.org