________________
१३२
समवायाङ्गसूत्रम्-२१६
वाच्यत्वं सदसदवाच्यत्वमिति, तत्र को जानाति जीवस्य सत्त्वमित्येको विकल्पः, एवमसत्त्व मित्यादि, तत एते सप्त नवकास्त्रिषष्टि, उत्पत्तेस्त्वाचा एव चत्वारो वाच्याः, इत्येवंसप्तषष्टिरिति तथा 'बत्तीसाए वेणइयवाईणं'ति, एते चैवं-सुरनृपतिज्ञातियतिस्थविराधममातृपितृणां प्रत्येक कायवाङ्मनोदानैचुर्द्धा विनयः कार्य इत्यभ्युपगमवन्तो द्वात्रिंशदिति।
एवं चैतेषांचतुर्णा वादिप्रकाराणांमीलनेत्रीणि त्रिषष्ट्यधिकानि अन्यदृष्टिशतानि भवन्त्यत उच्यते-'तिण्ह'मित्यादि, 'वूहं किच्च'त्ति प्रतिक्षेपं कृत्वा 'स्वसमयो' जैनसिद्धान्तः स्थाप्यते, यत्त एवं सूत्रकृतेन विधीयते अतस्तत्सूत्रार्थयोः स्वरूपमाह --
नाणे त्यादि, नाना-अनेकविधाः बहुभिप्रकारैरित्यर्थः, दिलृवयणनिस्सारं तिस्याद्वादिनन पूर्वपक्षीकृतानां प्रवादिनां स्वपक्षस्थापनाय यानि दृष्टान्तवचनान्युपलक्षणत्वाद्धेतुवचनानि च तदपेक्षया निस्सारं-सारताशून्यं परेषां मतमिति गम्यते, सुष्टु-पुनरप्रतिक्षेणीयत्वेन दर्शयन्ती प्रकटयन्तौ तथाविधश्चासौ सत्पदप्ररूपणाधकेनायुगोद्वाराश्रितत्वेन विस्तारानुगमश्च-अनुगम नीयानेकजीवादितत्त्वानां विस्तरप्रतिपादनं विविधविस्तारानुगमः तया परमसद्भावः-अत्यन्त सत्यता वस्तूनामैदम्पर्यमित्यर्थस्तावेव गुणौ ताभ्यां विशिष्टौ विविधविस्तारानु-गमपरसद्भावगुणविशिष्टौ 'मोक्खपहोयारगत्तिमोक्षपथावतारकौ, सम्यगदर्शनादिषुप्राणिनां प्रवर्तकावित्यर्थः, 'उदार त्ति उदाराः सकलसूत्रार्थदोषरहितत्वेन निखिलतद्गुणसहितत्वेन च, तथाऽज्ञानमेव तमः अन्धकारमात्यन्तिकान्धकारमधवाप्रकृष्टमज्ञानमज्ञानतमं तदेवान्धकारम-ज्ञानतमोऽन्धकारमज्ञानतमोऽन्धकारमज्ञानतमान्धकारं वा तेन ये दुर्गा-दुरधिगमास्ते तथा तेषु तत्त्वमार्गेष्विति गम्यते 'दीवभूय'त्तिप्रकाशकारित्वाद्दीपोपमी 'सोवाणाचेव'त्ति सोपानानीव-उन्नतारोहणमार्गविशेष इव सिद्धिसुगतिगृहोत्तमस्य-सिद्धिलक्षणा सुगति सिद्धिसुगतिरथवा सिद्धिश्च सुगतिश्चसुदेवत्वसुमानुषत्व लक्षणा सिद्धिसुगती तल्लक्षणं यद्गृहाणामुत्तमं गृहोत्तम-वरप्रासादस्तस्य सिद्धिसुगतिगृहोत्तमस्यारोहण इति गम्यते 'निक्खोभनिप्पकंपत्ति निक्षोभौ वादिना क्षोभयितुं चालयितुमशक्यत्वात् निष्प्रकम्पौ स्वरूपतोऽपीषदव्यभिचारलक्षणकम्पाभावात्, कावित्पाह!
_ 'सूत्रार्थी' सूत्रंचार्थश्च-नियुक्तिभाष्यसङ्गहणिवृत्तिचूर्णिपञ्जिकादिरूप इति सूत्राओं, शेर कण्ठ्यं यावत् 'सेत्तं सूयगडे'त्ति, नवरं त्रयस्त्रिंशदुद्देशनकालाः। ॥१॥ 'चउ ४ तिय ३ चउरो ४ दो २ दो २ एक्कारस चेव हुंति एक्कसरा।
सत्तेव मज्झयणा एगसरा बीयसुयखंधे ।। इत्यतो गाथातोऽवसेया इति॥
मू. (२१७) से किंतं ठाणे?, ठाणेणं ससमया ठाविञ्जन्ति परसमया टाविजंति ससमय परसमया ठाविजंति जीवा ठाविनंति अजीवा ठाविनंति जीवाजीवा० लोगा० अलोगा लोगालोगा ठाविनंति, ठाणेणं दव्वगुणखेत्तकालपज्जव पयत्थाणं।
वृ. ‘से किं तं ठाणे' इत्यादि, अथ किं तत् स्थानं?, तिष्ठन्त्यस्मिन् प्रतिपाद्यतया जीवादा इति स्थानं, तथा चाह 'ठाणेण मित्यादि, स्थानेन स्थाने वा जीवाः स्थाप्यन्ते यथावस्थितस्व रूपप्रतिपादनायेति हृदयं, शेषं प्रायो निगदसिद्धमेव, नवरं ठाणेण इत्य पुनरुच्चारणं सामान्येने पूर्वोक्तस्यैवस्थापनीयविशेषप्रतिपादनाय वाक्यान्तरमिदमितिज्ञापनार्थं, तत्र ‘दव्यगुणखेत्तकाल पज्जवत्तिप्रथमाबहुवचनलोपाइव्यगुणक्षेत्रकालपर्यवाः पदार्थाना-जीवादीना स्थानेन स्थायर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org