SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ समवायः - प्रकीर्णकाः १३१ 'सूयगडेणं' ति सूत्रकृतेन सूत्रकृते वा स्वसमयाः सूच्यन्ते इत्यादि कण्ठ्यं, तथा सूत्रकृतेन जीवाजीवपुण्यपापाश्र्वसंवरनिर्जराबन्धमोक्षावसानाः पदार्था सूच्यन्ते, तथा 'समणाण' मित्यादि, अत्र श्रमणानां मतिगुणविशोधनार्थं स्वसमयः स्थाप्यत इति वाक्यार्थः, तत्र श्रमणानां किंभूतानां ? - अचिरकालप्रव्रजितानां, चिरकालप्रव्रजिता हि निर्मलमतयो भवन्ति, अहर्निशं शास्त्रपरिचयाहुश्रुतसंपर्काच्चेति, पुनः किंभूतानां ? - 'कुसमयमोहमोहमइमोहियाणं 'ति कुत्सितः समयःसिद्धान्तो येषां ते कुसमयाः कुतीर्थकास्तेषां मोहः-पदार्थेष्वयथावबोधः कुसमयमोहस्तस्माद्यो मोहः श्रोतृमनोमूढता तेन मतिर्मोहिता- मूढतां नीता येषां ते कुसमयमोहमतिमोहिताः, अथवा कुसमयाः- कुसिद्धान्तास्तेषां अधः-संधो मकारस्तु प्राकृतत्वात् तस्माद्यो मोहः-श्रोतृमनोमूढता तेन मतिर्मोहिता येषां ते कुसुमयौधमोहमतिमोहिताः, अथवा कुसमयानां कुतीर्थिकानां मोहो मोधो वा-शुभफलापेक्षया निष्फलो यो मोहस्तेन मतिर्मोहिता येषां ते कुसमयमोहमोहमतिमोहिताः कुसमयमोधमोहमतिमोहिता वा तेषां तथा संदेहाः वस्तुतत्त्वं प्रति संशयाः कुसमयमोहमति - मोहितानामिति विशेषणसान्निध्यात् कुसमयेभ्यः सकाशात् जाता येषां ते सन्देहजाताः । तथा सहजात्-स्वभावसम्पन्नात् न कुसमयश्रवणसम्पन्नाद्बुद्धिपरिणामात्-मतिस्वभावात् संशयो जातो येषां ते सहजबुद्धिपरिणामसंशयिताः सन्देहजातास्च सहजबुद्धिपरिणामसंशयिताश्च येते तथा तेषां श्रमणानामिति प्रक्रमः, किमत आह- 'पापकरो' विपर्ययसंशयात्मकत्वेन कुत्सितवृत्ति निबन्धनत्वादशुभकम्महेतुरत एव च मलिनः स्वरूपाच्छादनादनिर्म्मलो यो मतिगुणोबुद्धिपर्यायस्तस्य विशोधनाय - निर्मलत्वाधानाय पापकरमलिनमतिगुणविशोधनार्थं । 'असीयस्स किरियावाइयसयस्स'त्ति अशीत्यधिकस्य क्रियायादिशतस्य व्यूहं कृत्वा समयः स्थाप्यत इति योगः, एवं शेषेष्वपि पदेषु क्रिया योजनीयेति, तत्र न कर्त्तारं विना क्रिया संभवतीति तामात्मसमवायिनीं वदन्ति ये तच्छीलाश्च ते क्रियावादिनः, ते पुनरात्माद्यस्तिवप्रतिपत्तिलक्षण अमुनोपायेनाशीत्यधिकशतासंख्या विज्ञेयाः जीवाजीवाश्रवबन्धसम्वरलेर्जरापुण्यापुण्यमोक्षाख्यान्त्रव पदार्थान् विरचय्य परिपाट्या जीवपदार्थस्याधः स्वपरभेदावुपयसनीयौ, तयोरधो नित्या-नित्यभेदौ, तयोरप्यधः कालेश्वरात्मनियतिस्वभावभेदाः पञ्च न्यसनीयाः, पुनरित्थं विकल्पाः कर्त्तव्याः- अस्ति जीवः स्वतो नित्यः कालत इत्येको विकल्पो, विकल्पार्थश्चायं विद्यते खल्वात्मा स्वेन रूपेण नित्यश्च कालवादिनः, उक्तेनैवाभिलापेन द्वितीयो विकल्प ईश्वरकारणिकस्य, तृतीयः आत्मवादिनश्चतुर्थो नियतिवादिनः पञ्चमः स्वभाववादिनः, एवं स्वत इत्यपरित्यजता लब्धाः पञ्च विकल्पाः, परत इत्यनेनापि पञ्च लभ्यन्ते, नित्यत्वापरित्यागेन चैते दश विकल्पाः, एवमनित्यत्वेनापि दशैव, एवं विंशतिर्जीवपदार्थेन लब्धाः । अजीवादिष्वप्यष्टास्वेवमेव प्रतिपदं विंशतिर्विकल्पानामतो विंशतिर्नवगुणा शतमशीत्युत्तरं क्रियावादिनामिति, 'चउरासीए अकिरियवाईणं' ति एतेषां च स्वरूपं यथा नन्द्यादिषु तथा वाच्यं, नवरमे तद्व्याख्याने पुण्यापुण्यवर्जा सप्त पदार्था स्थाप्यन्ते, तदधः स्वतः परतश्चेति पदद्वयं दधः कालादीनां षष्ठी यद्दच्छा न्यस्यते, ततश्च नास्ति जीवः स्वतः कालत इत्येको विकल्पः, रखमेते चतुरशीतिर्भवन्ति । 'सत्तट्टीए अन्नाणियवाईणं' ति एतेऽपि तथैव, नवरंजीवादीत्रव पदार्थानुत्पत्तिदशमानुपरि व्यवस्थाप्याधः सप्त सदादयः स्थाप्याः, तद्यथा-सत्त्वमसत्त्वं सदसत्त्वमवाच्यत्वं सदवाच्यत्वमसद Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003338
Book TitleAgam Sutra Satik 04 Samavay AngSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 04, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy