SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ स्थानं-२, - उद्देशकः-३ वेयधोरययमओ भारहखेत्तस्स मज्झम्मि॥" (त्ति), 'भारहए णमित्यादि, वैतादयेऽपरतस्तमिश्रागृहा गिरिवस्तारायामा द्वादशयोजनविस्ताराऽष्टयोजनोच्छ्रया आयतचतुरस्रसंस्थाना विजयद्वारप्रमाणद्वारा वज्रकपाटपिहिता बहुमध्ये द्वियोजनान्तराभ्यां त्रियोजनविस्ताराभ्यामुन्मग्नजलानिमग्नजलाभिधानाभ्यां नदीम्यां युक्ता, तद्वत् पूर्वतः खण्डप्रपाता गुहेति । 'तत्थ णं'ति तयोः तमिास्त्रायां गुहायां कृतमाल्यक इतरस्यां नृत्तमालक इति। “एरावए' इत्यादि तथैव । _ 'जंबू' इत्यादि, हिमवद्वर्षधरपर्वते ह्येकादश कूटानि सिद्धायतन १ क्षुल्लहिमवत् २ भरत ३ इला ४ गङ्गा ५ श्री रोहितांशा ७सिन्धु ८ सुरा ९ हैमवत १० वैश्रमण ११ कूटाभिधानानि भवन्ति, पूर्वदिशि सिद्धायतनकूटंततः क्रमेणापरतोऽन्यानि सर्वरत्नमयानिस्वनामदेवतास्थानानि पञ्चयोजनशतोच्छ्रयाणि तावदेव मूले विस्तृतानि उपरि तदर्द्धविस्तृतानि, आधे सिद्धायतनं पञ्चाशद्योजनायामं तदर्द्धविष्कम्भ षट् त्रिशदुच्चं अष्टयोजनायामैश्चतुर्योजनविष्कम्भप्रवेशैस्त्रिभिद्वारैरुपेतं जिनप्रतिमाष्टोत्तरशतसमन्वितं, शेषेषु प्रासादाः सार्द्धद्विषष्टियोजनोच्चास्तदविस्तृतास्तवासिदेवतासिंहासनवन्त इति । इह तुप्रकृतनगनायकनिवासभूतत्वाद्देवनिवासभूतानां तेषांमध्ये आद्यत्वाच्च हिमवत्कूटं गृहीतं सर्वान्तिमत्वाच्च वश्रवणकूटं द्विस्थानकानुरोधेनेति, आह च॥१॥ “कत्यइ देसग्गहणं कत्थइधेप्पंति निरवसेसाई। उक्कमकमुजुत्ताई कारणवसओ निउत्ताई।" -ति कूटसङग्रहश्चायं"वेयड्ड ९ मालवंते ९ विजुप्पह ९ निसह ९ नीलवंते य ९ । नव नव कूडा भणिया एकारस सिहरि ११ हिमवंते ११॥ ॥२॥ रुप्पि ८ महाहिमवंते ८ सोमनसे ७ गंधमायणनगेय। __ अट्ठऽह सत्त सत्त यवक्खारगिरीसुचत्तारि ॥" (त्ति) 'जंबू' इत्यादि, महाहिमवति ह्यष्टौ कूटानि, सिद्ध १ महाहिमवत् २ हैमवत् ३ रोहिता४ ही ५हरिकान्ता ६हरि७ वैडूर्य ८ कूटाभिधानानि, द्वयग्रहणेचकारणमुक्तमिति। 'एव'मित्यादि, एवंकरणात् 'जंबू' इत्यादिरभिलापोऽश्यः, निषधवर्षधरपर्वतेहिसिद्ध १ निषेधर हरिवर्षप्राग्विदेह ४ हरि ५ धृति ६ शीतोदा ७ अपरविदेह ८ रुचकारव्यानि ९ स्वनामदेवतानि नव कूटानि, इहापि द्वितीयान्त्योर्ग्रहणं प्राग्वद् व्याख्येयमिति । 'जंबू'इत्यादि, नीलवर्षधरपर्वते हि सिद्ध १ नील २ पूर्वविदेह ३ शीता ४ कीर्ति ५ नारीकान्ता ६ऽपरविदेह ७ रम्यक ८ उपदर्शना ९ ख्यानि नव कूटानि, इहापि द्वितीयान्त्यग्रहणं प्राग्वदिति । “एव'मित्यादि, रुक्मिवर्षधरे हि सिद्ध १ रुक्मि २ रम्यक ३ नरकान्ता ४ बुद्धि ५ रौप्यकूला ६ हैरण्यवत् ७ मणिकाञ्चनकूटा ८ ख्यानि अष्ट कूटानि, द्वयाभिधानं च प्राग्वदिति । _ 'एव'मित्यादि शिखरिणिहि वर्षधरे सिद्ध १ शिखरि २ हैरण्यवत ३ सुरादेवी ४ रक्ता ५ लक्ष्मी ६ सुवर्णकूला७रक्तोदा ८ गन्धापाति ९ऐरावती १०तिगिच्छिकूटा ११ रव्यानि एकादश कूटानि, इहापि द्वयोर्ग्रहणं तथैवेति ।। ॥१ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy