SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ ७८ स्थानाङ्ग सूत्रम् २/३/८६ यथासत्तिन्यायाश्रयणाच्च जम्बूद्वीपस्य दक्षिणे भागे भरतमाहिमवतः, तस्यैवोत्तरे भागे ऐरवतं शिखरिणः परत इति, एव'मिति भरतैरवतवत् एतैनाभिलापेन' 'जंबूद्दीवेदीवेमंदरस्से' त्यादिना उच्चारणेनापारं सूत्रद्वयं वाच्यं, तयोश्चायं विशेषः- 'हेमदए चेवे'त्यादि, तत्र हैमवतं दक्षिणतो हिमवन्महाहिमवतोर्मध्ये हिरण्यवतमुत्तरतः रुक्मिशिखरिणोरन्तः हरिवीं, दक्षिणतो महाहिमवन्निषधयोरन्तः रम्यकवर्षं चोत्तरतो नीलरुक्मिणोरन्तरिति, 'जंबूद्दीवे इत्यादि, 'पुरच्छिमपञ्चस्थिमेणं तिपुरस्तात्-पूर्वस्यादिशि पश्चात्-पश्चिमायामित्यर्थः, यथाक्रम, पूर्वश्चासौ विदेहश्चेति पूर्वविदेहः, एवमपरविदेह इति, एतेषांचायामादिग्रन्थान्तरादवसेयमिति । 'जंबू'इत्यादि, दक्षिणेन देवकुरवः उत्तरेणउत्तरकुरवः, तत्रआद्या विद्युप्रभसौमनसाभिधानवक्षस्कारपर्वताभ्यांगजदन्ताकाराभ्यामावृताः, इतरे तु गन्धमादनमाल्यवद्ध्यामावृताः, उभये चामी अर्द्धचन्द्राकाराः दक्षिणोत्तरतो विस्तृताः, तत्प्रमाणंचेदम्॥१॥ 'अठ्ठसया बायाला एक्कारस सहस दो कलाओ य। विक्खंभो य कुरूणं ते वन्नसहस्स जीवा सिं" पूर्वापरायामाश्चैता इति, ‘महइमहालय'त्तिमहान्तौ गुरू अतीति अत्यन्तं महसां तेजसां महानां वा-उत्सवानामालयौ-आश्रयौ महातिमहआलयौ महातिमहालयौ वा समयभाषया महान्तावित्यर्थः, महाद्रुमौ प्रशस्ततया आयामो-दैy विष्कम्भो-विस्तारः उच्चत्वम् उच्छ्रयः उद्वैधोभुवि प्रवेशः संस्थानम्-आकारः परिणाहः-परिधिरिति, तत्रानयोः प्रमाणम्॥१॥ “रयणमया पुष्फफला विक्खंभो अट्ट अट्ठ उच्चत्तं । जोयणमडुब्वेहो खंधो दोजोयणुविद्धो ॥३॥ भवणं कोसपमाणं सयणिज्नं तत्थऽणाढियसुरस्स। तिसु पासाया सालेसु तेसु सीहासणा रम्मा" (इति), शाल्मल्यामप्येवमेवेति, कूटाकारा-शिखराकारा शाल्मली कूटशाल्मलीति संज्ञा, सुष्टु दर्शनमस्या इति सुदर्शनेतीयमपि संज्ञेति, 'तत्थ'त्ति तयोर्महाद्रुमयोः 'महे'त्यादि महती ऋद्धि:आवासपरिवाररलादिका ययोस्तौ महर्द्धिकौ यावदग्रहणात् ‘महज्जुइया महानुभागा महायसा महाबल'त्ति, तत्र द्युतिः-शरीराभरणदीप्तिः अनुभागः-अचिन्त्याशक्तिर्वैक्रियकरणादिका यश:ख्यातिः बलं-सामर्थ्य शरीरस्य सौख्यम्-आनन्दात्मकं, 'महेसक्खा' इति क्वचित्पाठः, महेशौमहेश्वरावित्याख्याययोस्ती मेहशाख्याविति, पल्योपमंयावत् स्थितिः-आयुर्ययोस्तौतथा । गरुड:सुपर्णकुमारजातीयः वेणुदेवो नाम्ना, अणाढिउत्ति नाम्ना ।। मू(८७)जंबूमंदरस्सपब्वयस्सय उत्तरदाहिणेणं दोवासहरपव्वया (पं०२०-बहुसमतुल्ला अविसेसमाणत्ता अन्नमन्नं नातिवति आयामविक्खंभुचतोव्वेहसंठाणपरिणाहेणं, तंजहाचुल्लहिमवंते चेव सिहरिच्चेव, एवं महाहिमवंते चैव रुप्पिञ्चेव, एवं निसढे चेव नीलवंते चेव, जंबूमंदरस्स पव्वयस्स उत्तरदाहिणेणं हेमवंतेरण्णवतेसु वासेसु दो वट्टवेतड्ढपव्वता [पं० तं०- बहुसमतुल्ला अविसेसमणाणत्ता जाव सद्दावाती चेव वियडावातीचेव, तत्थ णं दो देवा महिड्डिया जाव पलिओवमट्टितीया परिवसंति तं०-साती चेव पभासे चेव, जंबूमंदरस्स उत्तरदाहिणेणं हरिवासरम्मतेसुवासेसुदो वट्टयेयपव्वया(पं० तं०-बहुसम० जावगंधावातीचेवमालवंतपरियाए चेव, तत्थ णं दो देवा महिड्डिया चेव जाव पलिओवमद्वितीया परिवसंति, तं०-अरुणे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy