________________
७८
स्थानान सूत्रम् २/३/८६
यथासत्तिन्यायाश्रयणाच्च जम्बूद्वीपस्य दक्षिणे भागे भरतमाहिमवतः, तस्यैवोत्तरे भागे ऐरवतं शिखरिणः परत इति, एव मिति भरतैरवतवत् एतैनामिलापेन' 'जंबूद्दीवेदीवेमंदरस्से त्यादिना उच्चारणेनापार सूत्रद्वयं वाच्यं, तयोश्चायं विशेषः- “हेमवए चेवेत्यादि, तत्र हैमवतं दक्षिणतो हिमवन्महाहिमवतोर्मध्ये हिरण्यवतमुत्तरतः रुक्मिशिखरिणोरन्तः हरिवर्ष, दक्षिणतो महाहिमवनिषधयोरन्तः रम्यकवर्षं चोत्तरतो नीलरुक्मिणोरन्तरिति, 'जंबूद्दीवे' इत्यादि, 'पुरच्छिमपच्चस्थिमेणं तिपुरस्तात्-पूर्वस्यां दिशिपश्चात्-पश्चिमायामित्यर्थः, यथाक्रम, पूर्वश्चासौ विदेहश्चेति पूर्वविदेहः, एवमपरविदेह इति, एतेषांचायामादिग्रन्थान्तरादवसेयमिति । 'जंबू'इत्यादि, दक्षिणेन देवकुरवः उत्तरेणउत्तरकुरवः, तत्रआद्या विद्युप्रभसौमनसाभिधानवक्षस्कारपर्वताभ्यांगजदन्ताकाराभ्यामावृताः, इतरे तु गन्धमादनमाल्यवद्ध्यामावृताः, उभये चामी अर्द्धचन्द्राकाराः दक्षिणोत्तरतो विस्तृताः, तत्प्रमाणं चेदम्॥१॥ 'अट्ठसया बायाला एकारस सहस दो कलाओय।
विक्खंभो य कुरूणं ते वन्नसहस्स जीवा सिं" पूर्वापरायामाश्चैता इति, ‘महइमहालय'त्ति महान्तौ गुरू अती तिअत्यन्तं महसां तेजसां महानां वा-उत्सवानामालयौ-आश्रयौ महातिमहआलयौ महातिमहालयौ वा समयभाषया महान्तावित्यर्थः, महाद्रुमौ प्रशस्ततया आयामो-दैy विष्कम्भो-विस्तारः उच्चत्वम्-उच्छ्रयः उद्वैधोभुवि प्रवेशः संस्थानम्-आकारः परिणाहः-परिधिरिति, तत्रानयोः प्रमाणम्॥१॥ "रयणमया पुप्फफला विक्खंभो अट्ट अट्ठ उच्चत्तं ।
जोयणमद्धव्वेहो खंधो दोजोयणुविद्धो ॥३॥ भवणं कोसपमाणं सयणिजं तत्थऽणाढियसुरस्स ।
तिसु पासाया सालेसुतेसु सीहासणा रम्मा" (इति), शाल्मल्यामप्येवमेवेति, कूटाकारा-शिखराकारा शाल्मली कूटशाल्मलीति संज्ञा, सुष्टु दर्शनमस्या इति सुदर्शनेतीयमपि संज्ञेति, 'तत्य'त्ति तयोर्महाद्रुमयोः ‘महे' त्यादि महती ऋद्धिःआवासपरिवाररत्लादिका ययोस्तौ महर्द्धिकौ यावदग्रहणात् ‘महज्जुइया महानुभागा महायसा महाबल'त्ति, तत्रद्युतिः-शरीराभरणदीप्तिः अनुभागः-अचिन्त्याशक्तिक्रियकरणादिका यश:ख्यातिः बलं-सामर्थ्य शरीरस्य सौख्यम्-आनन्दात्मकं, 'महेसक्खा' इति क्वचित्पाठः, महेशौमहेश्वरावित्याख्या ययोस्ती मेहशाख्याविति, पल्योपमंयावत स्थितिः-आयुर्ययोस्ती तथा। गरुड:सुपर्णकुमारजातीयः वेणुदेवो नाम्ना, अणाढिउत्ति नाम्ना ॥
मू. (८७)जंबूमंदरस्सपव्वयस्स य उत्तरदाहिणेणंदोवासहरपव्वया[पं०२०-बहुसमतुल्ला अविसेसमाणत्ता अन्नमन्नं नातिवति आयामविक्खंभुचतोव्वेहसंठाणपरिणाहेणं, तंजहाचुल्लहिमवंते चेव सिहरिच्छेव, एवं महाहिमवंते चैव रुप्पिचेव, एवं निसढे चैव नीलवंते चेव, जंबूमंदरस्स पव्वयस्स उत्तरदाहिणेणं हेमवंतेरण्णवतेसु वासेसु दो वट्टवेतड्पव्वता [पं० तं०-] बहुसमतुल्ला अविसेसमणाणत्ता जाव सदावाती चेव वियडावातीचेव, तत्थ णं दो देवा महिटिया जाव पलिओवमद्वितीया परिवसंति तं०-साती चेव पभासे चेव, जंबूमंदरस्स उत्तरदाहिणेणं हरिवासरम्मतेसुवासेसुदो वट्टयेयड्डपव्वयापिं०२०-बहुसम० जावगंधावातीचेवमालवंतपरियाए चेव, तत्थ णं दो देवा महिड्डिया चेव जाव पलिओवमद्वितीया परिवसंति, तं०-अरुणे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org