________________
स्थानाङ्ग सूत्रम् २/३/८५
निर्वातपित्तादिभिः, निशब्दस्याभावार्थत्वात्, निवरा कन्योत्यादिवत् ७, वैनियलब्धिमतां विकुर्वणा गतिपर्यायः - चलनं मृत्वा वा गत्यन्तरगमनलक्षणः, यच्च वैक्रियलब्धिमान् गर्भान्निर्गत्य प्रदेशतो बहिः सङ्ग्रामयति स वा गतिपर्यायः, उक्तं च भगवत्यां - "जीवे णं भंते! गब्भगए समाणे णेरइएस उववज्रेज्जा ? गोतमा ! अत्थेगइए उचवज्जेज्जा अत्थेगइए नो उववज्जेज्जा, से केणट्टेणं० ? गोतमा ! सेणं सन्नी पंचिंदिए सव्वाहिपजत्तीहिं पज्जत्तए वीरियलद्धीए विउब्विअलद्धीए परा-नीयं आगतं सोच्चा निसम्म पएसे निच्छुभए २ वेउव्वियसमुग्धाएणं समोहन्नइ २ चउरंगिणि सेणं विउव्वइ २ चाउरंगिणीए सेनाए परानीएणं सद्धिं संगामं संगामेई" त्यादि ९,
1
1
समुद्घातो मारणान्तिकादिः १०, कालसंयोगः - कालकृतावस्था ११, आयातिः- गर्भान्निर्गमो १२, मरणं-प्राणत्यागः १३, 'दोण्हं छविपव्व 'त्ति द्वयानां उभयेषां 'छवि' त्ति मतुब्लोपाच्छविमन्तित्वग्वन्ति 'पव्व' त्ति पर्वाणि सन्धिबन्धनानि छविपर्वाणि क्वचित् 'छवियत्त' त्ति पाठः तत्र छवियोगाच्छविः स एव छविकः स चासौ 'अत्त' त्ति आत्मा च शरीरं छविकात्मेति, 'छविपत्त' त्ति पाठान्तरे छविः प्राप्ता जातेत्यर्थः, गर्भस्थानामिति सर्वत्र सम्बन्धनीयम् १४, 'दो सुक्के' त्यादि, द्वयोः शुक्ररेतः शोणितम् - आर्त्तवं ताभ्यां सम्भवो येषां ते तथा १५,
'कायट्ठिति'त्तिकाये-निकाये पृथिव्यादिसामान्यरूपेण स्थितिः कायस्थितिः असङ्ख्योत्स पिण्यादिका, भवे भवरूपा वा स्थितिः भवस्थितिर्भवकाल इत्यर्थः १६, 'दोहं' ति द्वयानामुभयेषामित्यर्थः, कायस्थितिः सप्ताष्टभवग्रहणरूपा, पृथिव्यादीनामपि साऽस्ति, न चानेन तद्वयवच्छेदः, अयोगव्यवच्छेदपरत्वात् सूत्राणामिति १७, 'दोण्हे 'त्यादि, देवनारकाणां भवस्थितिरेव, देवादेः पुनर्देवादित्वेनानुत्पत्तेरिति १८, 'दुविहे' इत्यादि अद्धा - कालः तठप्रधानमायुः कर्मविशेषोऽद्धायुः, भवात्ययेऽपि कालान्तरानुगामीत्यर्थो, यथा मनुष्यायुः, कस्यापि भवात्यय एव नापगच्छत्यपि तु सप्ताष्टभवमात्रं कालमुत्कर्षतोऽनुवर्त्तत इति, तथा भवप्रधानमायुर्भवायुः, यद्भावात्यये अवगच्छत्येव न कालान्तरमनुयाति, यथा देवायुरिति, १९, 'दोह' मित्यादि सूत्रद्वयं भावितार्थमेव २१, 'दुविहे कम्मे ' इत्यादि, प्रदेशा एवपुद्गला एव यस्य वेद्यन्ते न यथा बद्धो रसस्तठप्रदेशमात्रतया वेद्यं कर्म प्रदेशकर्म यस्य त्वनुभावो यथाबद्धरसो वेद्यते तदनुभावतो वेद्यं कर्मानुभावकर्मेति २२, 'दो' इत्यादि, यथाबद्धमायुर्यथायुः पालयन्ति अनुभवन्ति नोपक्रम्यते तदितियावदिति, 'देवा नेरइयावि य असंखवासाउया य तिरिमणुया ।
॥ १ ॥
उत्तमपुरिसा यतहा चरमसरीरा य निरुवकमा '
७६
इति वचने सत्यपि देवनारकयोरेवेह भणनं द्विस्थानकानुरोधादिति । 'दोण्ह' मित्यादि, संवर्त्तनमपवर्त्तनं संवर्त्तः स एव संवर्त्तकः, उपक्रम इत्यर्थः, आयुषः संवर्त्तकः आयुः संवर्त्तक इति २३ } पर्यायाधिकारादेव नियतक्षेत्राश्रितत्वात् क्षेत्रव्यपदेश्यान् पुद्गलपर्यायानभिधित्सुः 'जंबूद्दीवे' इत्यादिना क्षेत्रप्रकरणमाह
मू. (८६) जंबूद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरदाहिणेणं दो वासा [पं० तं०] बहुसमतुल्ला अविसेसमणाणत्ता अन्नमन्नं णातिवट्टंति आयामविक्खंभसंठाणपरिणाहेणं तं०-भरहे चेव एरवए चेव, एवमेएणमहिलावेणं हिमवए चेव हेरन्नवते चेव, हरिवासे चैव रम्मयवासे चेव, जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरच्छिमपच्चत्थिमेणं दो खित्ता[पं० तं० ] बहुसमतुल्ला अविसेस जाव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org