SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ स्थानं -२, - उद्देशकः-२ ७१ दोही'त्यादि, नव सूत्राणि सुगमानि, नवरम्, अवभासते-द्योतते देशेन खद्योतकतव्, सर्वतः प्रदीपवत, अथवा अवभासते-जानाति स च देशतः फड्डकावधिज्ञानी सर्वतोऽभ्यन्तरावधिरिति १, एव'मिति देशसर्वाभ्यां प्रभासते-प्रक्रर्षेण द्योतते २स विकरोतिदेशेन हस्तादिवैक्रियकरणेन, सर्वेण सर्वस्यैव कायस्येति ३, 'परियारेइ'त्तिमैथुनं सेवते देशेन मनोयोगादीनामन्यतमेन, सर्वेण योगत्रयेणापि४, भाषां भाषते देशेन जिह्वाग्रादिना सर्वेण समस्तताल्वादिस्थानः ५,आहारयति देशेन मुखमात्रेण सर्वेण ओजआहारापेक्षया ६, आहारमेवपरिणमयति०-परिणाम नयतिरवलरसविभागेनेति भक्ताशचदेशस्य प्लीहादिना रुद्धत्वाद् देशतः अन्यथा तुसर्वतः ७, वेदयति-अनुभवति, देशेनहस्तादिनाअवयवेन सर्वेण सर्वावयवैराहारसत्कान्परिणमितपुद्गलान् इष्टानिष्टपरिणामतः ८, निर्जरयति-त्यजत्याहारितान् परिणामितान् वेदितान् आहारपुद्गलान् देशेनापानादिना सर्वेण सर्वशरीरेणैव प्रस्वेदवदिति ९, अथवैतानिचतुर्दशापिसूत्राणि विवक्षितविषयवस्त्वपेक्षया नेयानि, तत्र देशसर्वयोजना यथा देशेनापी ति देशतोऽपिशृणोति विवक्षितशब्दानांमध्ये कांश्चिच्छृणोतीति, सर्वेणापी'ति सर्वतश्च सामस्त्येन, सर्वानेवेत्यर्थः, एवं रूपादीनपि, तथा विवक्षितस्य देशं सर्वं वा विवक्षितमवभासयत्येवंप्रभासयति एवं विकुर्वणीयंविकुरुतेपरिचारणीयंस्त्रीशरीरादिपरिचारयतिभाषणीयापेक्षया देशतो भाषां भाषते सर्वतो वेति अभ्यवहार्यमाहारयति आहृतं परिणमयति वेद्यं कर्म वेदयति देशतः सर्वतोवा, एवं निर्जरयत्यपि। देशसर्वाभ्यांसामान्यतःश्रवणाधुक्तं विशेषविवक्षायां प्रधानत्वाद् देवाना तानाश्रित्य तदाह-'दोही' त्यादि, एतदपि विवक्षितशब्दादिविषयापेक्षया सूत्रचतुर्दशकं नेयमिति, देशतः सर्वतो वा। एतेऽनन्तरोक्ता भावाः शरीर एव सति सम्भवन्तीति देवाना च प्रधानत्वात तेषामेव व्यक्तितः शरीरनिरूपणायाह-'मरुए'त्यादि सूत्राष्टकं कण्ठयम्, नवरं, मरुतो देवा लोकान्तिकदेवविशेषाः,यत उक्तम-“सारस्वता १दित्य २ वह्यय ३ रुण४ गतोय ५ तुषिताऽ६व्याबाध ७मरुतो ८ऽरिष्ठा९श्चेति' तेचैकशरीरिणो विग्रहे कार्मणशरीरत्वात्, तदनन्तरं वैक्रियभावाद् द्विशरीरिणः, द्वयोः शरीरयोः समाहारो द्विशरीरं तदस्ति येषां ते तथा, अथवा भवधारणीयमेव यदातदैकशरीरः यदातूत्तरवैक्रियमपितदाद्विशरीराः, किनराधास्त्रयोव्यन्तराः, शेषाभवनपतय इति, परिगणितभेदग्रहणं च भेदान्तरोपलक्षणम्, न तु व्यवच्छेदार्थं, सर्वजीवानामपि विग्रहे एकशरीरत्वस्यान्यदा द्विशरीरत्वस्य चोपपद्यमानत्वादिति ८, अत एव सामान्यत आह-'देवा दुविहे'त्यादि कण्ठ्यम्, ॥ स्थान - २ - उद्देशकः २ - समाप्तः स्थान-२ - उद्देशकः३:वृ. उक्तो द्वितीयोद्देशकः, अथ तृतीय आरभ्यते, अस्य चानन्तरेण सहायमभिसंबन्धःअनन्तरोद्देशके जीवपदार्थोऽनेकधोक्तः, अत्र तु तदुपग्राहकपुद्गलजीवधर्मक्षेत्रद्रव्यलक्षणपदार्थप्ररूपणोच्यते इत्येवंसम्बन्धस्यास्येदमादिमसूत्राटकम् मू. (८१) दुविहे सद्दे पं० सं०-भासासद्दे चेव नोभासासद्दे चेव, भासासद्दे दुविहे पं० २०. अक्खरसंबद्धे चेव नोअक्खरसंबद्धे चेव, नोभासासद्देदुविहे पन्नत्तेतं०-आउज्जसद्दे चेव नोआउज्जसद्दे चैव, आउज्जसद्दे दुविहे पं० २०-तते चेव वितते चेव, तते दुविहे पं० तं०-धणे चेव झुसिरे चेव, एवं विततेऽवि, For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy