SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ स्थानं-२, - उद्देशकः-१ उच्यते, यस्मात्प्रज्ञापनायामुक्तं-'आहारपजत्तीए अपज्जत्तएणं भंते!जीवे किं आहारए अनाहारए?, गोयमा ! नो आहारए अनाहारए"त्ति, स च विग्रहे आहारपर्याप्ता अपर्याप्तको लभ्यते, यदि पुनरुपपातक्षेत्रप्राप्तोऽप्याहारपर्याप्तऽपर्याप्तको भवेत्तदैवं व्याकरणं भवेद्-गोयमा सिय आहारएसिय अनाहारए'त्ति, यथा शरीरादिपर्याप्तिषु 'सियआहारएसियअणाहारए'त्ति, शेषाः पुनरसङ्ख्यातसमयाअन्तर्मुहूर्तेन निर्वत्यन्त इति, अपर्याप्तकास्तु उच्छासपर्यात्याअपर्याप्ता एव भियन्ते, न तु शरीरेन्द्रियपर्याप्तिभ्यां, यस्मादागामिभवायुष्कं बध्ध्वा नियन्ते, तच्च शरीरेन्द्रियादिपर्याप्ता पर्याप्तरेव बध्यत इति । 'एव'मिति पूर्ववदेवेति। 'दुविहा पुढवी' त्यादिषट्सूत्री, परिणताः-स्वकायपरकायशस्त्रादिना परिणामान्तरमापादिताः, अचित्तीभूता इत्यर्थः, तत्र द्रव्यतः क्षेत्रादिना मिश्रेण द्रव्येण कालतः पौरुष्यादिना कालेन भावतो वर्गगन्धरसस्पर्शान्यथात्वेन परिणताः क्षेत्रतस्तु॥१॥ 'जोयणसयं तु गंता अनहारेणं तु भंडसंकंती। वायागणिधूमेण य विद्धत्थं होइ लोणाइ ॥२॥ हरियाल मनोसिल पिप्पली य खजूर मुद्दिया अभया। आइन्नमणाइन्ना तेऽवि हु एमेव नायव्वा ॥३॥ आरुहणे ओरुहणे निसियण गोणाइणं च गाउम्हा । . भूमाहारच्छेदे उवक्क मेणेव परिणामो" 'अनहारेणं ति स्वदेशजाहाराभावेनेति, भंडसंकती'तिभाजनाद्भाजनान्तरसङ्क्रान्त्या, खर्चेरादयोऽनाचरिताः अभयादयस्तु आचरिता इति, परिणामान्तरेऽपि पृथिवीकायिका एव ते, केवलमचेतना इति, कथमन्यथाऽचेतनपृथिवीकायपिण्डप्रयोजनाभिधानमिदं स्यात्, यथा'घट्टगडगलगलेवो एमादि पयोयणं बहुहा' इति । एव'मित्यादि प्रागिव, तदेवं पञ्चैतानि सूत्राणि द्रवन्ति-गच्छन्ति विचित्रपर्यायानिति द्रव्याणि जीवपुद्गलरूपाणि तानि च विवक्षितपरिणामत्यागेन परिणामान्तरापन्नानि परिणतानि-विवक्षितपरिणामवन्त्येव, अपरिणतानीति द्रव्यसूत्र षष्ठम्। 'दुविहे'त्यादि षट्सूत्री, गतिर्गमनं तां समापन्नाः- प्राप्तास्तद्वन्तो गतिसमापन्नाः, ये हि पृथिवीकायिकाद्यायुष्कोदयात् पृथिवीकायिकादिव्यपदेशवन्तो विग्रहगत्या उत्पत्तिस्थानं व्रजन्ति, अगतिसमापन्नास्तु स्थितिमन्तः, द्रव्यसूत्रे गतिर्गमनमात्रक्मेव, शेषं तथैवेति ॥ 'दुविहापुढवी'त्यादि षट्सूत्री, अनन्तरं-सम्प्रत्येव समये क्वचिदाकाशदेशेअवगाढाःआश्रितास्त एवानन्तरावगाढकाः, येषां तु द्व्यादयः समया अवगाढानां ते परम्परावगाढकाः, अथवा विवक्षितं क्षेत्रं द्रव्यं वाऽपेक्ष्यानन्तरम्-अव्यवधानेनावगाढा अनन्तरावगाढा, इतरे तु परम्परावगाढा इति ॥ अनन्तरं द्रव्यस्वरूपमुक्तम्, अधुना द्रव्याधिकारादेव द्रव्यविशेषयोः कालाकाशयोर्दिसूत्र्या प्ररूपणामाह मू. (७४) दुविहे काले पं० तं०-ओसप्पिणीकाले चेव उस्सप्पिणीकाले चेव, दुविहे आगासे पं० २०-लोगागासे चैव अलोगागासे चेव, वृ.तत्र कल्यते-सङ्ख्यायतेऽसावनेनवा कलनं वा कलासमूहो वेतिकालः-वर्तनापरापर Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy