________________
६४
स्थानाङ्ग सूत्रम् २/१/७४
त्वादिलक्षणः सचावसर्पिण्युत्सर्पिणीरूपतयाद्विविधोद्विस्थानकानुरोधादुक्तः अन्यथाऽवस्थितलक्षणोमहाविदेहभोगभूमिसम्भवी तृतीयोऽप्यस्तीति। 'आगासे'त्तिसर्वद्रव्यस्वभावानाकाशयतिआदीपयति तेषां स्वभावलाभेऽवस्थानदानादित्याकाशम, आङ् मर्यादाऽभिविधिवाची, तत्र मर्यादायामाकाशे भवन्तोऽपि भावाः स्वात्मन्येवाऽऽसते नाकाशतां यान्तीत्येवं तेषामात्मसादकरणाद्, अभिविधौ तुसर्वभावव्यापनादाकाशमिति, तत्र लोको यत्राकाशदेशेधर्मास्तिकायादिद्रव्याणां वृत्तिरस्ति स एवाकाशंलोकाकाशमिति, विपरीतमलोकाकाशमिति ॥ अनन्तरं लोकालोकभेदेनाकाशद्वैविध्यमुक्तं, लोकश्च शरीरिशरीराणां सर्वत आश्रयस्वरूप इति नारकादिशरीरिदण्डकेन शरीरप्ररूपणायाह
मू. (७५) नेरइयाणं दो सरीरगा पं००-अब्मंतरगेचेव बाहिरंगेचेव, अब्भंतरए कम्मए बाहिरए वेउब्बिए, एवं देवाणं भाणियव्वं,
पुढविकाइयाणं दो सरीरगा पं० २०-अब्भंतरगे चेव बाहिरगे चेव अभंतरगे कम्मए बाहिरगे ओरालियगे, जाव वणस्सइकाइयाणं,
बेइंदियाणं दो सरीरा पं० तं०-अब्भतंरए चेव बाहिरए चेव, अभंतरगे कम्मए, अट्ठिमंससोणितबद्धे बाहिरए ओरालिए, जाव चउरिदियाणं,
पंचिंदियतिरिक्खजोणियाणं दोसरीरगा पं०२०-अब्अंतरगे चेव बाहिरगेचेव, अब्भंतरगे कम्मए, अटिमंससोणियोहारुछिराबद्धे बाहिरए ओरालिए, मणुस्साणवि एवं-चेव।
विग्गहगइसमावनगाणं नेरइयाणं दो सरीरंगा पं० तं०-तेयए चैव कम्मए चेव, निरन्तरं जाव वेमाणियाणं, नेरइयाणंदोहिं ठाणेहिं सरीररुप्पत्ती सिया, तं०-रागेण चेव दोसेणचेव, जाव वेमाणियाणं, नेरइयाणं दुवाणनिव्वतिए सरीरंगे पं० तं०-रागनिव्वत्तिए चेव, दोसनिव्यत्तिए चेव, जाव वेमाणियाणं,
दो काया पं० तं०-तसकाए चेव थावरकाए चेव, तसकाए दुविहे पं० त०-भवसिद्धिए चेव अभवसिद्धिए चैव, एवं थावरकाएऽवि
वृ.'नेरइयाण'मित्यादि, प्रायः कण्ठयं, नवरंशीर्यते-अनुक्षणंचयापचयाभ्यां विनश्यतीति शरीरं तदेव शटनादिधर्मतयाऽनुकम्पितत्वात् शरीरकं ते च द्वे प्रज्ञप्ते जिनैः, अभ्यन्तः-मध्ये भवमाभ्यन्तरं, आभ्यन्तरत्वं चतस्य जीवप्रदेशैः सह क्षीरनीरन्यायेन लोलीभवनात् भवान्तरगतावपि चजीवस्यानुगतिप्रधानत्वादपवरकाद्यन्तःप्रविष्टपुरुषवदनतिशयिनामप्रत्यक्षत्वाच्चेति, तथा बहिर्भवं बाह्यं, बाह्यता चास्य जीवप्रदेशैः कस्यापि केषुचिदवयवेष्वव्याप्तेर्भवान्तराननुयायित्वानिरतिशयानामपि प्रायः प्रत्यक्षत्वाच्चेति, तत्राभ्यन्तरं 'कम्मए'त्ति कार्मणशरीरनामकर्मोदयनिर्वत्यमशेषकर्मणां प्ररोहभूमिराधारभूतं, तथा संसार्यात्मनां गत्यन्तरसङक्रमणे साधकतमं तत् कार्मणवर्गणास्वरूपं, कर्मैव कर्मकमिति, कर्मकग्रहणेच तैजसमपि गृहीतंद्रष्टव्यं, तयोरव्यभिचारित्वेनैकत्वस्य विवक्षितत्वादिति, एवं देवाणंभाणियव्यं'तिअयमों-यथा नैरयिकाणांशरीरद्वयं भणितमेवं देवानाम्-असुरादीनां वैमानिकान्तानांभणितव्यम्, कार्मणवैक्रिययोरेवतेषांभावात्, चतुर्विंशतिदण्डकस्य च विवक्षितत्वादिति।
'पुढवी' त्यादि, पृथिव्यादीनां तु बाह्यमौदारिकमौदारिकशरीरनामकर्मोदयादुदार
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org