________________
स्थानाङ्ग सूत्रम् २/१/७२
वीतरागसंयममाह
'वीयरागे'त्यादि, उपशान्ताः-प्रदेशतोऽप्यवेद्यमानाः कषाया यस्य यस्मिन् वा स तथा साधुः संमयो वेति-एकादशगुणस्थानवर्तीति, क्षीणकषायो द्वादशगुणस्थानवर्तीति, ‘उवसंते' त्यादि सूत्रद्वयंप्रागिव । खीणे त्यादि,छादयत्यात्मस्वरूपंयत्तच्छद्म-ज्ञानावरणादिघातिकर्मतत्र तिष्ठतीति छद्मस्थः-अकेवली, शेषं तथैव, केवलम्-उक्तस्वरूपं ज्ञानं च दर्शनं चास्यास्तीति केवलीतिछउमत्थे'त्यादि, स्वयम्बुद्धादिस्वरूपं प्रागिति, ‘सयंबुद्धे'त्यादि नव सूत्राणि गतार्थान्येवेति ।
उक्तः संयमः, सचजीवाजीवविषय इति पृथिव्यादिजीवस्वरूपमाह- 'दुविहा पुढवी त्यादिरष्टाविंशतिः सूत्राणि ।
मू. (७३) दुविहा पुढविकाइया पं० तं०- सुहमा चेव बायरा चैव १, एवं जाव दुविहा वणस्सइकाइया पं० २०-सुहुमा चेव बायरा चेव ५, दुविहा पुढविकाइया पं० २०-पञ्जत्तगा चेव अपजत्तगा चेव ९, जाव वणस्सइकाइया १०, दुविहा पुढविकाइया पं० तं०- परिणया चेव अपरिणया चेव ११, एवं जाव वणस्सइकाइया १५,
दुविहा दव्वा पं० २०-परिणताचेवअपरिणता चेव १६, दुविहा पुढविकाइया पं० त०गतिसमावनगा चेव अगइसमावनगा चेव १७, एवं जाव वणस्सइकाइयचा २१, दुविहा दब्बा' पं०-तं०-गतिसमावनगा चेव अगतिसमावन्नगा चेव २२,
दुविहा पुढविकाइया पं० तं०-अनंतरोगाढा चेव परंपरोगाढा चेव२३, जाव दव्या-२८
वृ.तत्र पृथिव्येव कायो येषां ते पृथिवीकायिनः समासान्तविधी एव स्वार्थिककप्रत्ययात् पृथिवीकायिकाः,पृथिव्येव वाकायः-शरीरंसोऽस्तियेषांतेपृथिवीकायिकास्ते सूक्ष्मनामकर्मोदयात् सूक्ष्माश्चैव ये सर्वलोकापन्नाः, बादरनामकर्मोदयवर्त्तिनो बादरा ये पृथिवीनगादिष्वेवेति, नैषामापेक्षिकं सूक्ष्मबादरत्वमिति, 'एव मिति पृथिवीसूत्रवदप्तेजोवायूनां सूत्राणि वाच्यानि यावद्वनस्पतिसूत्रम्, अत एवाह-'जावे'त्यादि,
'दुविहे'त्यादि पञ्चसूत्री, तत्र पर्याप्तनामकर्मोदयवर्तिनः पर्याप्ताः, येहिचतमः स्वपर्याप्तीः पूरयन्तीति,अपर्याप्तनामकर्मोदयादपर्याप्तका ये स्वपर्याप्तीर्नपूरयन्तीति, इहचपर्याप्ति मशक्तिः सामर्थ्यविशेष इतियावत्, सा च पुद्गलद्रव्योपचयादुत्पद्यते, षड्भेदा चेयं, तद्यथा--
॥१॥ आहार १ सरीरि २ दिय ३ पञ्जत्ती आनपान ४ - भास ५ मणे ६ चत्तारिपंच छप्पिय एगिदियविगलसत्रीणं" (ति),
तत्र एकेन्द्रियाणां चतस्रो विकलेन्द्रियाणां पञ्च संज्ञिनां षट्, तत्र आहारपर्याप्तिर्नाम खलरसपरिणमनशक्तिः१,शरीरपर्याप्तिः सप्तधातुतया रसस्य परिणमनशक्तिः २,इन्द्रियपर्याप्तिः पञ्चानामिन्द्रियाणां योग्यान्पुद्गलान् गृहीत्वा तथा परिणमय्याऽऽनप्राणतया निसर्जनशक्तिः, ४ भाषापर्याप्तिर्वचोयोग्यान्पुद्गलान् गृहीत्वा भाषात्वेन परिणमय्यवाग्योगतया निसर्जनशक्तिः ५, मनःपर्याप्तिर्मनोयोग्यान्पुद्गलान्गृहीत्वामनस्तयापरिणमय्यमनोयोगतया निसर्जनशक्तिरिति ६, एताः पर्याप्तयः पर्याप्तनामकर्मोदयेन निर्वत्येन्ते, तद् येषामस्ति ते पर्याप्तकाः, अपर्याप्तनामकर्मोदयेनानिवृत्ताः येषामेताः सन्तीति तेऽपर्याप्तका इति, एताश्च युगपदारभ्यन्तेऽन्तेर्मुहूर्तेन च निर्वत्यन्ते, तत्र आहारपर्याप्तेर्निवृत्तिकालः समय एव, कथम्?,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org