________________
स्थानं-२,- उद्देशकः-१
॥१॥ 'सोऽवि हु खओवसमिओ किन्तु स एव उ खओवसमलाभो ।
तमि सइ होइऽवस्सं भण्णइ भवपञ्चओ तो सो" ॥१॥ (यतः)- “उदयक्खयखओवसमोवसमावि अजंच कम्मणो भणिया।
दव्वं खेत्तं कालं भवंच भावंच संपप्प"त्ति तथा तदावरणस्य क्षयोपशमे भवं क्षायोपशमिकमिति।
'मनपज्जवे'त्यादि, ऋज्वी-सामान्यग्राहिणी मतिः ऋजुमतिः-घटोऽनेन चिन्तित इत्यध्यवसायनिबन्धनं मनोद्रव्यपरिच्छित्तिरित्यर्थः, विपुला-विशेषग्राहिणी मतिर्विपुलमतिः-घटोऽनेन चिन्तितः सच सौवर्णः पाटलिपुत्रिकोऽद्यतनोमहानित्यायध्यवसायहेतुभूता मनोद्रव्यविज्ञप्तिरिति, ॥१॥ (आह च-) "रिजु सामन्नं तम्मत्तागिहिणी रिजुमती मनोनाणं ।
पायं विसेसविमुहं घडमेत्तं चिंतितं मुणइ ॥२॥ विउलं क्त्युविसेसणमाणं तग्गाहिणी मती विउला ।
चिंतियमनुसरइ घडं पसंगओ पञ्जयसएहिं" 'आभिनिबोहिए'इत्यादि, श्रुतं कर्मतापन्नं निश्रितम्-आश्रितं श्रुतं वा निश्रितमनेनेति श्रुतनिश्रितं, यत्पूर्वमेव श्रुतकृ तोपकारस्येदानीं पुनस्तदनपेक्षमेवानुप्रवर्तते तदवनहादिलक्षणं श्रुतनिश्रितमिति, यत्पुनः पूर्वं तदपरिकर्मितमतेः क्षयोपशमपटीयस्त्वादौत्पत्तिक्यादिलक्षणमुपजायतेऽन्यद्वाश्रोत्रादिप्रभवं तदश्रुतनिश्रितमिति, आह च॥१॥ "पुब्बं सुयपरिकम्मियमतिस्सजं संपयं सुपाईयं ।
सुयनिस्सियमियरं पुन अनिस्सियं मइचउक्कं ।" (ति) 'सुए'त्यादि, 'अत्थोग्गहे'त्ति अर्यते-अधिगम्यतेऽर्थ्यते वा अन्विष्यत इत्यर्थः, तस्य सामान्यरूपस्य अशेषविशेषनिरपेक्षानिर्देश्यस्य रूपादेरवग्रहणं-प्रथमपरिच्छेदनमर्थावग्रह इति, निर्विकल्पकंज्ञानंदर्शनमिति यदुच्यते इत्यर्थः, सच नैश्चयिकोयःससामयिको यस्तुव्यावहारिकः शब्दोऽयमित्याद्युल्लेखवान् स आन्तर्मोहूर्तिक इति, अयं चेन्द्रियमनःसम्बन्धात् षोढा इति, तथा व्यज्यतेऽनेनार्थः प्रदीपेनेव घट इति व्यञ्जनं तच्चोपकरणेन्द्रियं शब्दादित्वपरिणतद्रव्यसङ्घातो वा, ततश्च व्यञ्जनेन-उपकरणेन्द्रियेण शब्दादित्वपरिणतद्रव्याणांव्यञ्जनानामवग्रहोव्यञ्जनावग्रह इति, अथवा व्यञ्जनम्-इन्द्रियशब्दादिद्रव्यसम्बन्धः इति, आह च॥१॥ "चंजिजइ जेणऽत्यो घडोव्व दीवेण वंजणं तो तं ।
उवगरनिंदियसद्दादिपरिणयद्दव्वसंबंधो"त्ति, अयं च मनोनयनवर्जेन्द्रियाणां भवतीति चतुर्दा, नयनमनसोरप्राप्तर्थपरिच्छेदकत्वात्, इतरेषां पुनरन्यथेति, ननु व्यञ्जनावग्रहो ज्ञानमेव न भवति, इन्द्रियशब्दादिद्रव्यसम्बन्धकाले तदनुभवाभावात्, बधिरादीनामिवेति, नैवं, व्यञ्जनावग्रहान्ते तद्वस्तुग्रहणादेवोपलब्धिसद्मावात्, इह यस्य ज्ञेयवस्तुग्रहणस्यान्तेतत एव ज्ञेयवस्तूपादानात् उपलब्धिर्भवति तत् ज्ञानं दृष्टं, यथाऽ. विग्रहपर्यन्ते तत एवार्थावग्रहग्राह्यावस्तुग्रहणादीहासद्मावात् अर्थावग्रहज्ञानमिति, आहच॥१॥ “अन्नाणं सो बहिराइणं वतकालमनुवलंभाओ।
नतदन्ते तत्तोच्चिय उवलंभाओ तयं नाणं" (ति),
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org