________________
स्थानं-२, - उद्देशकः -१ दुष्कृष्टतस्तु षडावलिकामानत्वादस्येति, तथा इह यदस्य मिथ्यादर्शनदलिकमुदीर्णं तदुपक्षीणं यच्चानुदीर्णंतदुपशान्तम्, उपशान्तंनाम विष्कम्भितोदयमपनीतमिथ्यास्वभावंच, तदिह क्षयोपशमस्वभावमनुभूयमानं क्षायोपशमिकमित्युच्यते, नन्वौपशमिकेऽपि क्षयश्चोपशमश्च तथेहापीति कोऽनयोर्विशेषः?, उच्यते, अयमेव हि विशेषः-यदिह वेद्यते दलिकं न तत्र, इह हि क्षायोपशमिके पूर्वशमितमनुसमयमुदेति वेद्यते क्षीयतेच, औपशमिकेतूदयविष्कम्भणमात्रमेव, आह च॥१॥ "मिच्छत्तं जमुइन्नं तं खीणं अनुइयं च उवसंतं ।
मीसीभावपरिणयं वेइज्जंतं खओवसमं " ति, एतदपि जघन्यतोऽन्तर्मुहूर्त्तस्थितिकत्वादुत्कर्षतः षट्षष्टिसागरोपमस्थितिकत्वाच्च प्रतिपातीति, यदपिचक्षपकस्य सम्यग्दर्शनदलिकचरमपुद्गलानुभवनरूपंवेदकमित्युच्यते तदपि क्षायोपशमिकभेदत्वात् प्रतिपात्येवेति, तथा मिथ्यात्वसम्यग्मिध्यात्वसम्यकत्वमोहनीयक्षयात् क्षायिकमिति, आह च॥१॥ "खीणे दंसणमोहे तिविहंमिवि भवनियाणभूयंमि ।
निप्पच्चवायमउलं सम्मत्तं खाइयं होइ" त्ति, इदं तु क्षायिकत्वादेवाप्रतिपाति, अत एव सिद्धत्वेऽप्यनुवर्तत इति ।
'मिच्छादंसणे' इत्यादि, अभिग्रहः-कुमतपरिग्रहः स यत्रास्ति तदाभिग्रहिकंतद्विपरीतम्अनभिग्रहिकमिति । 'अभिग्गहिए' इत्यादि, अभिग्रहिकमिथ्यादर्शनं सपर्यवसितं-सपर्यवसानं सम्यकत्वप्राप्तौ, अपर्यवसितमभव्यस्य सम्यकत्वाप्राप्तेः, तच्च मिथ्यात्वमात्रमप्यतीतकालनायनुवृत्त्याऽऽभिग्रहिकमिति व्यपदिश्यते, अनभिग्रहिकं भव्यस्य सपर्यवसितमितरस्यापर्यवसितमिति, अत एवाह-‘एवं अनभी' त्यादि
दर्शनमभिहितमथ ज्ञानमभिधीयते, तत्र 'दुविहे नाणे' इत्यादीनिआवस्सगवइरित्तेदुविहे' इत्यादिसूत्रावसानानि त्रयोविंशतिः सूत्राणि ।।
मू. (७१) दुविहे नाणे पं० तं०-पञ्चक्खे चेव परोक्खे चेव १, पञ्चक्खे नाणे दुविहे पन्नत्ते तं०-केवलनाणे चेव नोकेवलनाणे चेव २, केवलनाणे दुविहे पं० २०-भवत्थकेवलनाणे घेव सिद्धकेवलनाणे चेव ३, भवत्थकेवलनाणे दुविहे पं० २०-सजोगिभवत्थकेवलनाणे घेव, अजोगिभवत्थकेवलनाणे चेव ४, सजोगिभवत्थकेवलनाणे दुविहे पं०-तं०- पढमसमयसजोगिभवत्यकेवलनाणे चेव अपढमसमयसजोगिभवत्थकेवलनाणे चेव ५, अहवा चरिमसमयसजोगिभवत्थकेवलनाणे घेव अचरिमसमयसजोगिभवत्थकेवलनाणे चेव ६, एवं अजोगिभवत्थकेवलनाणे ७-८,
___ सिद्ध केवलनाणे दुविहे पं०-अनंतरसिद्धकेवलणाणे चेव परंपरसिद्धकेवलनाणे घेव ९, अनंतरसिद्ध केवलनाणे दुविहे पं० २०-एक्कानंतरसिद्धकेवलनाणे चेव अनेकानंतरसिद्धकेवलनाणे चेव १०, परंपरसिद्धकेवलनाणे दुविहे पं० २०-एक्कपरंपरसिद्धकेवलनाणे चेव अनेक्कपरंपरसिद्धकेवलनाणे चेव ११,
___नोकेवलणाणे दुविहे पं० २०-ओहिनाणे चेव मणपज्जवनाणे चैव १२, ओहिनाणे दुविहे पं-तं०-भवपञ्चइए चेव खओवसमिए चेव १३, दोण्हं भवपच्चइए पन्नत्ते, तं-देवाणं चेव नेरइयाणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org