SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ स्थानाङ्ग सूत्रम् २/१/६१ मू (६९) दो दंडा पं० त० - अट्ठादंडे चेव अनवादंडे चेव, नेरइयाणं दो दंडा पं० २० - अट्ठादंडे य अणारंडे य, एवं चउवीसा दंडओ जाव वेमाणियाणं वृ.उन्मादात्प्राणीप्राणातिपातादिरूपेदण्डेप्रवर्तते दण्डभाजनंवा भवतीति दण्डं निरूपयन्नाह-दो दंडे'त्यादि, दण्डः-प्राणातिपातादिः,सचार्थाय-इन्द्रियादिप्रयोजनाय यः सोऽर्थदण्डः, निष्प्रयोजनस्त्वनर्थदण्ड इति । उक्तरूपमेव दण्डं सर्वजीवेषु चतुर्विंशतिदण्डकेन निरूपयन्नाह'नेरइयाण मित्यादि, ‘एव मिति नारकवदर्थदण्डानर्थदण्डाभिलापेन चतुर्विंशतिदण्डको ज्ञेयो, नवरं-नारकस्य स्वशरीरक्षार्थं परस्योपहननमर्थदण्डः प्रद्वेषमात्रादनर्थदण्डः, पृथिव्यादीनां त्वनाभोगेनाप्याहारग्रहणे जीववधभावादर्थदण्डोऽन्यथा त्वनर्थदण्ड: अथवोभयमपि भवान्तरार्थदण्डादिपरिणतेरिति।। सम्यग्दर्शनादित्रयवतामेव च दण्डो नास्तीति त्रितयनिरूपणेच्छुईर्शनं सामान्येन तावन्निरूपयति-तत्र मू. (७०) दुविहे दंसणे पन्नत्ते तं० - सम्मइंसणे चेव मिच्छादसणे चेव १, सम्मसणे दुविहे पं० तं० निसग्गसम्मइंसणेचेवअभिगमसम्मइंसणे चेव २, निसग्गसम्मइंसणेदुविहे पं० तं० पडिवाईचेव अपडिवाईचेव ३, अभिगमसम्मदंसणेदुविहे पं०२०-पडिवाईचेव अप्पडिवाई चेव ४, मिच्छादसणे दुविहे पं० -अभिग्गहियमिच्छादंसणे चेव अणभिगहियमिच्छादसणे चेव ५, अभिग्गहियमिच्छादसणे दुविहे पं०-सपञ्जवसिते चेव अपञ्जवसिते चेव ६, एवमनभिगहितमिच्छादसणेऽपि७। वृ. 'दुविहे दंसणे इत्यादि सूत्राणिसप्तसुगमान्येव, नवरं, दृष्टिदर्शनम्-तत्त्वेषुरुचिः तच्च सम्यग्-अविपरीतं जिनोक्तानुसारि, तथा मिथ्या-विपरीतमिति । 'सम्मईसणे'इत्यादि, निसर्गः स्वभावोऽनुपदेशइत्यनन्तरं, अभिगमोऽधिगमोगुरूपदेशादिरिति, ताभ्यां यत्तत्तथा, क्रमेण मरुदेवीभरतवदिति, निसर्गे'त्यादि, प्रतिपतनशीलप्रतिपातिसम्यग्दर्शनमौपशमिकंक्षायोपशमिकं च, अप्रतिपाति क्षायिकं, तत्रैषां क्रमेण लक्षणं-इहौपशमिकी श्रेणीमनुप्रविष्टस्यानन्तानुबन्धिनां दर्शनमोहनीयत्रयस्य चोपशमादौपशमिकं भवति, यो वाऽनादिमिथ्याष्टिकृतसम्यकत्वमिथ्यात्वमिश्राभिधानशुद्धाशुद्धोभयरूपमिथ्यात्वपुद्गलत्रिपुञ्जीकएवअक्षीणमिथ्यादर्शनोऽक्षपक इत्यर्थः, सम्यकत्वंप्रतिपद्यते तस्यौपशमिकंभवतीति, कथं?-इहयदस्य मिथ्यादर्शनमोहनीयमुदीर्णं तदनुभवेनैवोपक्षीणमन्यत्तु मन्दपरिणामतया नोदितमतस्तदन्तर्मुहूर्त्तमात्रमुपशान्तमास्ते, विष्कम्भितोदयमित्यर्थं, तावन्तं कालमस्यौपशमिकसम्यकत्वलाभ इति, आह च “उवसासगसेढिगयस्स होइ उवसामिअंतु सम्मत्तं । जो वा अकयतिपुञ्जो अखवियमिच्छो लहइ सम्म ॥२॥ खीणम्मि उदिन्नंमी अनुदिज्जंते य सेसमिच्छत्ते। अंतोमुहत्तकालं उवसम्सम्मं लहइ जीवो" त्ति। अन्तर्मुहूर्तमात्रकालत्वादेवास्यप्रतिपातित्वं, यच्चानन्तानुबन्ध्युदये औपशमिकसम्यकत्वात् प्रतिपततः सास्वादनमुच्यते तदोपशमिकमेव, तदपि च प्रतिपात्येव, जघन्यतः समयमात्रत्वा. Jain Education International For Private & Personal Use Only ForP www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy