SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ स्थानं -२, - उद्देशकः-१ सकलं वा-तप्रथमतयैवाशेषतदावरणाभावतः सम्पूर्णोत्पत्तेरसाधारणंवा-अनन्यसहशत्वादनन्तं वा-ज्ञेयनन्तत्वात् तच तज्ज्ञानं च केवलज्ञानमिति ॥ कथंपुनर्द्धर्मादीनि विद्याचरणस्वरूपाणिप्राप्नोतीत्याह-दो ठाणाइ'मित्याद्येकादशसूत्री मू. (६५) दो ठाणाई परियादित्ता आया केवलिपन्नतं धम्म लभेज सवणयाए, तं०आरंभे चेव परिग्गहे चेव, एवंजाव केवलनाणमुप्पाडेजा। वृ. सुगमा धादिलाभ एव पुनः कारणान्तरद्वयमाह मू. (६६) दोहिं ठाणेहिं आया केवलिपन्नत्तं धम्मं लभेज सवणयाए तं०- सोच चेव अभिसमेच चेव जावकेवलनाणं उप्पाडेजा। वृ. 'दोहि'त्यादि सुगम, केवलं 'श्रवणतया' श्रवणभावेन, 'सो च चेव'त्ति ईस्वत्वादि प्राकृतत्वादेव, श्रुत्वा-आकर्ण्य तस्यैवोपादेयतामिति गम्यते, 'अभिसमेत्य' समधिगम्य तामेवावबुध्येत्यर्थः, उक्तंच॥१॥ "सद्धर्मश्रवणादेव, नरो विगतकल्मषः। ज्ञाततत्त्वो महासत्त्वः, परं संवेगमागतः ॥२॥. . धर्मोपादेयतां ज्ञात्वा, सातेच्छोऽत्र भावतः ६ढं स्वशक्तिमालोच्य, ग्रहणे संप्रवर्तते " इति, "एवं बोहिं बुज्झेओत्यादि यावत् केवलनाणं उप्पाडेज'त्ति । केवलज्ञानं च कालविशेषे भवतीति तमाहमू. (६७) दो समाओ पन्नत्ताओ, तं० - ओसप्पिणी समा चेव उस्सप्पिणी समा चेव वृ. समा-कालविशेषः,शेषसुगमम् ।। केवलज्ञानंमोहनीयोन्मादक्षयएव भवत्यतःसामान्योनोन्मादं निरूपयन्नाह मू. (६८) दुविहे उम्माए पं०२०- जक्खावेसे चेव मोहणिजस्स चेव कम्मस्स उदएणं, तत्थणंजे से जक्खावेसे सेणंसुहवेयतराए चेव सुहविमीयतराएचेव, तत्थणंजे से मोहणिजस्स कम्मरस उदएणं से णं दुहवेयतराए चेव दुहविभोययराए चेव। वृ. 'दुविहे उम्माए इत्यादि, उन्मादो ग्रहो बुद्धिविप्लव इत्यर्थः, यक्षावेशः-देव ताधिछितत्वं ततो यः स यक्षावेश एवेत्येको, मोहनीयस्य-दर्शनमोहनीयादेः कर्मण उदयेन यः सोऽन्य इति, 'तत्रे'ति तयोर्मध्ये योऽसौ यक्षावेशेन भवति स सुखवेद्यतरक एव-मोहनीयादेः कर्मण उदयेन यः सोऽन्य इति, 'तत्रे'त्तितयोर्मध्ये योऽसौ यक्षावेशेन भवतिस सुखवेद्यतरक एव-मोहजनितग्रहापेक्षयाऽकृच्छ्रानुभवनीयतर एच, अनैकान्तिकानात्यन्तिकभ्रमरूपत्वादस्येति,अतिशयेनसुखं विमोच्यते-त्याज्यतेयः ससुखविमोच्यतरकश्चैव, मन्त्रमूलादिमात्रसाध्यत्वादस्येति,अथवाअत्यन्तं सुखापेयः-सुखापनेयः सुखापेयतरः,तथाअत्यन्तंसुखेनैव विमुञ्चति योदेहिनंससुखविमोचत्तरक इति, मोहजस्तु तद्विपरीतः, एकान्तिकात्यन्तिकभ्रामस्वभावतयाऽत्यन्तानुचितप्रवृत्तिहेतुत्वेनान्तभवकारणत्वात् तथाऽऽन्तरकारणजनितत्वेन मन्त्राध्यसाध्यत्वात् कर्मक्षयोपशमादिनैव साध्यत्वादिति, अत एवोक्तं-'दुहवेयतराए चेव दुहविमोअतराए चेव'त्ति, अतिशयेन दुःखवेद्य एव दुःखविमोच्य एव चासाविति ।। Jain Education International For Private & Personal Use Only F www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy