________________
स्थानं-२, उद्देशकः-१
५३
नेयपरिच्छेयमयं रागादिविणिग्गहो जो य जंच मनोचिंतियमंतपूयविसभक्खणादि बहुभेयं ।
फलमिहतं पञ्चक्खं किरियारहियस्स नाणस्स"त्ति, अत्रोच्यते, यत्तावदुक्तम्-'ज्ञानमेवप्रधानं ज्ञानमेवचैकं कारणंन क्रिया, यतो ज्ञानफलमवासाविति, तदयुक्तम्, यतोयत एवज्ञानात् क्रिया ततश्चेष्टफलप्राप्तिरतएवोभयमपि कारणमिष्यते, अन्यथा हि ज्ञानफलं क्रियेति क्रियापरिकल्पनमनर्धक, ज्ञानमेव हि क्रियाविकलमपि प्रसाधयेत्, न च साधयति, क्रियाऽभ्युपगमात्, ज्ञानक्रियाप्रतिपत्तौ च ज्ञानं परम्परयोपकुरुते अनन्तरं च क्रिया यतस्तस्मात् क्रियैव प्रधानतरं युक्तं कारणं, नाप्रधानमकारणं चेति, अथ युगपदुप- कुरुतस्तत उभयमपि युक्तं, न युक्तमप्राधान्यं क्रियाया अकारणत्वं चेति, यः पुनरकारणत्वमेव क्रियायाः प्रतिपद्यते तं प्रतीदं विशेषेणोच्यते-क्रिया हि साक्षात्कारित्वात् कारणमन्त्यं, ज्ञानं तुपरम्परोपकारित्वादनन्त्यम्, अतः कोहेतुर्यदन्त्यं विहायानन्यं कारणमिष्यते ?,अथसहचारिता-ऽङ्गीक्रियते अनयोः, अतोऽपिहि ज्ञानमेव कारणंनक्रियेत्यत्रन हेतुरस्तीति, यत्रोक्तम्
'बोधकालेऽपी'त्यादि, तत्रज्ञेयपरिच्छेदोज्ञानमेवेतिरागादिशमश्चसंयमक्रियैव ज्ञानकारणा भवेदिदिप्रतिपद्यामहे, किन्तुतत्फले भववियोगाख्येऽयंविचारो, यदुत-किंतत्ज्ञानस्य क्रियायास्तदुभयस्य वा फलमिति ?, तत्र न ज्ञानस्यैव, क्रियाफलत्वात् तस्य, नापि केवलक्रियायाः, क्रियामात्रत्वात्, उन्मत्तकक्रियावत्, ततः पारिशेष्याज्ज्ञानसहितक्रियाया इति, यञ्चोक्तम्'अनुस्मृतिज्ञानमात्रात् मन्त्रादीनां फलमुपलभ्यते' तत्र ब्रूमो-मन्त्रेष्वपि परिजपनादिक्रियायाः साधनमभावो न मन्त्रज्ञानस्य, प्रत्यक्षविरुद्धमिदमिति चेद् यतो दृष्टं हि क्वचित् मन्त्रानुस्मृतिमात्रज्ञानादिष्टफलमिति, अत्रोच्यते, न मन्त्रज्ञानमात्रनिर्वत्यं तत्फलं, तज्ज्ञास्याक्रियत्वात्, इहयदक्रियनतत्कार्यस्य निर्वर्तकं दृष्टं, यथाऽऽकाशकुसुमं, यञ्च निर्वर्तकं तदक्रियं न भवति, यथा कुलालः, न चेदं प्रत्यक्षविरुद्धं, न हि ज्ञानं साक्षात्फलमुपहरदुपलक्ष्यत इति,अथयदिनमन्त्राज्ञानकृतंतत्फलं ततः कुतःपुनस्तदिति?, तत्समयनिबद्धदेवताविशेषेभ्य इति ब्रूमः, तेषां हि सक्रियत्वेन क्रियानिर्वत्येमेतत्न मन्त्रज्ञानसाध्यमिति, आह च॥१॥ "तोतं कत्तो? भण्णति, तस्समयनिबद्धदेवओवहियं ।
किरियाफलं चियजओ न मंतनाणोवओगस्स"त्ति, ननु सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग इति श्रूयते, इह तु ज्ञानक्रियाभ्यामसावुक्त इति कथं न विरोधः?,अथ द्विस्थानकानुरोधादेवं निर्देशऽपि नविरोधो, नैवमवधारणगर्भत्वात् निर्देशस्येति, अत्रोच्यते, विद्याग्रहणेन दर्शनमप्यविरुद्धं द्रष्टव्यं, ज्ञानभेदत्वात् सम्यग्दर्शनस्य, यथा हि अवबोधात्मकत्वेसतिमतेरनाकारत्वादवग्रहेहेदर्शनंसाकारत्वाचापायधारणेज्ञानमुक्तमेवं व्यवसायात्मकत्वे सत्यवायस्यरुचिरूपोङशः सम्यग्दर्शनमवगमरूपोडशोऽवाय एवेतिनविरोधः, अवधारणं तुज्ञानादिव्यतिरेकेण नान्य उपायो भवव्यवच्छेदस्येति दर्शनार्थमिति ।।
विद्याचरणे च कथमात्मा न लभत इत्याह-'दो ठाणाइ'मित्यादि सूत्राण्येकादश, मू. (६४) दो ठाणाइं अपरियाणित्ता आया नो केवलिपन्नत्तं धम्मलभेज सवणयाए, तं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org