SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ ५२ स्थानाङ्ग सूत्रम् २/१/६१ अन्यथा वा दीर्घत्व विवक्षया भावनीयम्, आपेक्षिकत्वात् दीर्घह्नस्वयोरिति एवमपि ह्रस्वाम् - अल्पां यावदेकोऽन्य इति, अथवा दीर्घामेव यावत् ह्रस्वामेव यावदिति व्याख्येयमपेरवधारणार्थत्वादिति, एक एव वा द्विधा कालभेदेन गर्हते भावभेदादिति, अथवा दीर्घं ह्रस्वं वा कालमेव गर्हत इति । अतीते गहॊ कर्मणि गर्हा भवति भविष्यति तु प्रत्याख्यानम् उक्तं च- “अईयं निंदामि पडुप्पन्नं संवरेमि अनागयं पच्चक्खामीति प्रत्याख्यानमाह - मू. (६२) दुविहे पञ्चक्खाणे पं० तं० - मणसा वेगे पञ्चक्खाति वयसा वेगे पचक्खाति, अहवा पञ्चक्खाणे दुविहे पं० तं० - दीहं वेगे अद्धं पञ्चक्खाति रहस्सं वेगे अद्धं पञ्चक्रवाति वृ. 'दुविहे पञ्चक्खाणे' इत्यादि, प्रमादप्रतिकूल्येन मर्यादय ख्यानं कथनं प्रत्याख्यानं, विधिनिषेधविषया प्रतिज्ञेत्यर्थः, तच्च द्रव्यतो मिथ्यादृष्टेः सम्यग्दष्टेर्वाऽनुपयुक्तस्य कृतचतुर्मासमांसप्रत्याख्यानायाः पारणकदिनमांसदानप्रवृत्ताया राजदुहितुरिवेति भावप्रत्याख्यानमुपयुक्तस्य सम्यग्धटेरिति, तच्च देशसर्वमूलगुणोत्तरगुणभेदादनेकविधमपि करणभेदाद् द्विविधम्, आह च - मनसा वैकः प्रत्याख्याति-वधादिकं निवृत्तिविषयीकरोति, शेषं प्रागिवेति । प्रकारान्तरेणापि तदाह 'अहवे' त्यादि, सुगमं । ज्ञानपूर्वकं प्रत्याख्यानादि मोक्षफलमत आह मू. (६३) दोहिं ठाणेहिं अनगारे संपन्ने अनादीयं अनवयग्गं दीहमद्धं चाउरंत संसार कंतारं वीतिवतेज्जा, तंजहा-विज्जाए चेव चरणेण चेव - वृ. 'दोहिं ठाणेही' त्यादि, द्वाभ्यां स्थानाभ्यां गुणाभ्यां सम्पन्नो- युक्तो नास्त्यागारं गेहमस्तीत्यनगारः साधुः नास्त्यादिरस्येत्यनादिकं तत् अवदग्रं - पर्यन्तस्तन्नास्ति यस्य सामान्यजीवापेक्षया तदनवदग्रं तत् दीर्घा अद्धा कालो यस्य तद् दीर्घाद्धं तत् मकार आगमिकः, दीर्घो वाऽध्वामार्गो यस्मिंस्तद्दीर्घाध्वं तच्चतुरन्तं चतुर्विभागं नरकादिगतिविभागेन, दीर्घत्वं प्रकटादित्वादिति, संसारकान्तारं भवारण्यं व्यतिव्रजेद्-अतिक्रामेत्, तद्यथा 'विद्यया चैव' ज्ञानेन चैव 'चरणेन चैव' चारित्रेण चैवेति, इह च संसारकान्तारव्यतिव्रजनं प्रति विद्याचरणयोर्यैगपद्येनैव कारणत्वमवगन्तव्यम्, एकैकशो विद्याक्रिययोरैहिकार्थेष्वप्यकारणत्वात्, नन्वनयोः कीरणतया अविशेषाभिधानेऽपि प्रधानं ज्ञानमेव न चरणम्, अथवा ज्ञानमेवैकं कारण न तु क्रिया, यतो ज्ञानफलमेवासौ, किञ्च यथा क्रिया ज्ञानस्य फलं तथा शेषमपि यत् क्रियानन्तरमवाप्यते बोधकालेऽपि यज्ज्ञेयपरिच्छेदात्मकं यच्च रागादिविनिग्रहमयमेषामविशेषेण ज्ञानं कारणं, यथा मृत्तिका घटस्य कारणं भवन्ती तदन्तरालवर्त्तिनां पिण्डशिवकस्थासकोशकुशूलादीनामपि कारणतामापद्यते तथेह ज्ञानमपि भवाभावस्य तदन्तरालवर्त्तिनां च तत्त्वपरिच्छेदसमाधानादीनां करणमिति, यच्चानुस्मरणमात्रमन्त्रपूतविषभक्षणनभोगमना दिकमनेकविधं फलमुपलभ्यते साक्षात्तदपि क्रियाशून्यस्य ज्ञानस्य, यथा चैतद् दृष्टफलं तथा अष्टमप्यनुमीयत इति, आह च || 9 || ॥ २ ॥ Jain Education International "आह पहाणं नाणं न चरितं नाणमेव वा सुद्धं । कारणमिह न उ किरिया सा वि हु नाणत्फलं जम्हा हसा नाणस्स फलं तह सेसंपि तह बोहकालेवि । For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy