________________
स्थानं-१०,
५४५
ततो दशविधमेवेति, इहोपाधिभेदात् स्पष्ट एक भेद इति न पौनरुक्त्यमाशङ्कनीयमिति ।
प्रत्याख्यानं हि साधुसामाचारीति तदधिकारदन्यामपि सामाचारी निरूपयन्नाह - मू. (९५९) दसविहा सामायारी पं० (तं०)
वृ. 'दसे'त्यादि, समाचरणं समाचारस्तभावः सामाचार्यं तदेव सामाचारी संव्यवहार इत्यर्थः,। मू. (९६०) इच्छा १ मिच्छा २ तहकारो ३ आवस्सिता ४ निसीहिता ५।
आपुच्छणा ६य पडिपुच्छ ७, छंदणा ८ निमंतणा९॥
उवसंपया १०यकाले सामायारी भवेदसविहा उ॥ 'वृ. इच्छे'त्यादि सार्द्धश्लोकः, 'इच्छा इति, एषणमिच्छा करणं कारः, तत्र कारशब्दः प्रत्येकमभिसम्बन्धनीयः, इच्छया-बलाभियोगमन्तरेण कार इच्छाकारः इच्छाक्रियेत्यर्थः, इच्छा चेच्छाकारेण ममेदं कुरु, इच्छाप्रधानक्रिययानबलाभियोगपूर्विकयेतिभावार्थः,अस्य च प्रयोगः स्वार्थं परार्थं वा चिकीर्षन् यदा परमभ्यर्थयते, उक्तंच॥१॥ “जइ अब्मत्येज्ज परं कारणजाए करेज्ज से कोई।
तत्थ उ इच्छाकारो न कप्पइ बलाभिओगो उ।।" इति तथा मिथ्या वितथमनृतमिति पर्यायाः,मिथ्याकरणं मिथ्याकारः मिथ्याक्रियेत्यर्थः, तथा च संयमयोगे वितथाचरणे विदितजिनवचनसाराः साधवस्तक्रियावैतथ्यप्रदर्शनाय मिथ्याकारं कुर्वते, मिथ्यक्रियेयमिति हृदयं, भणितंच॥१॥ "संजमजोगे अब्भुद्वियस्स जंकिंचि वितहमायरियं ।
मिच्छा एयंति वियाणिऊण मिच्छत्ति कायव्वं ।।" इति तथाकरणंतथाकारः, सचसूत्रप्रश्नादिगोचरः, यथा भवाद्भिरुक्तंतथैवेदमित्येवंस्वरूपः, गदितं च॥१॥ "वायणपडिसुणणाए उवएसे सुत्तअस्थकहणाए।
अवितहमेयंति तहा पडिसुणणाए तहकारो ।।" इति,
-अयं च पुरुषविशेषविषय एव प्रयोक्तव्य इति, अगादि च॥१॥ “कप्पाकप्पे परिनिट्टियस्स ठाणेसु पंचसु ठियस्स ।
संजमतवड्गस्स उ अविगप्पेणं तहकारो।" इति, 'आवस्सिया यत्ति अवश्यकर्त्तव्यैर्योगैर्निष्पन्नाऽऽवश्यकी, चः समुच्चये, एतप्रयोग आश्रयान्निर्गच्छतः आवश्यकयोगयुक्तस्य साधोभवति, आह हि॥१॥ "कज्जे गच्छंतस्स उगुरुनिद्देसेण सुत्तनीईए।
आवस्सियत्ति नेया सुद्धा अन्नत्थजोगाओ।।" तथा निषेधेन निवृत्ता नैषधिकी-व्यापारान्तरनिषेधरूपा, प्रयोगश्चास्याआश्रये प्रविशत इति, यत आह - ॥१॥ “एवोग्गहप्पवेसे निसीहिया तह निसिद्धजोगस्स।
एयस्सेसा उचिया इयरस्स न चेव नस्थित्ति ।" 3135
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org