SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ ५४४ स्थानाङ्ग सूत्रम् १०/-/९५८ ॥२॥ सो दाइ तवोकम्म पडिवजइ तं अइच्छिए काले । एयं पच्चक्खाणं अइकंतं होइ नायव्वं ।" इति . २, कोडीसहियं तिकोटीभ्यां-एकस्य चतुथदिरन्तविभागोऽपरस्य चतुथदिरेवारम्भविभाग इत्येवलक्षणाभ्यां सहितं-मिलितं युक्तं कोटीसहितं मिलितोभयप्रत्याख्यानकोटेश्चतुर्थादेः करणमित्यर्थः, अभाणि च - ॥१॥ “पट्ठवणओ उदिवसो पञ्चक्खाणस्स निट्ठवणओ य । जहियं समिति दुनि त भन्नइ कोडिसहियं तु ॥इति 'नियंटियंति नितरांयन्त्रितं-प्रतिज्ञातदिनदौ ग्लानत्वाद्यन्तरायभावेऽपिनियमात्कर्त्तव्यमिति हृदयं, एतच्च प्रथमसंहननानामेवेति, अभ्यधायि च - ॥१॥ “मासे मासे य तवो अमुगो अमुगदिवसे य एवइओ । हटेण गिलाणेण व कायव्यो जाव ऊसासो।। ॥२॥ एवं पञ्चक्खाणं नियंटियं धीरपुरिसपन्नत्तं । जं गिण्हंतऽनगारा अनिस्सियप्प अपडिबद्धा ।। ॥३॥ चोद्दसपुची जिणकप्पिएसु पढमंमिचेव संघयणे। एयं वोच्छिन्नं खलु थेरावि तया करेसीया ।।" इति, 'सागारंतिआक्रियन्त त्याकाराः प्रत्याख्यानापवादहेतवोऽनाभोगाद्यास्तैराकारैः सहेति साकारं ५, 'अनागारंति अविद्यमाना आकार-महत्तराकारादयो निच्छिन्नप्रयोजनत्वात्प्रतिपर्तुर्यस्मिंस्तदनाकारं, तत्रापिअनाभोगसहसाकारावाकारौ स्यातां, मुखेऽङ्गुल्यादिप्रक्षेपसम्भवादिति६, 'परिमाणकडं'ति परिमाणं सङ्घयानं दत्तिकवलगृहभिक्षादीनां कृतं यस्मिंस्तत्परमाणकृतमिति, यदाह॥9॥ "दत्तीहि व कवलेहिं व धरेहिं भिक्खाहिं अहव दव्वेहिं । जो भत्तपरिचायं करेइ परिमाणकडमेयं ।।" इति 'निरवसेसं'ति निर्गतमवशेषमपि अल्पाल्पमशनाद्याहारजातं यस्मात्तत् निरवशेषं वासर्वमशनादि तद्विषयत्वानिरवशेषमिति, अभिहितञ्च - ॥१॥ “सव्वं असणं सव्वं च पाणगं सव्वखजपेजविहिं। परिहरइ सव्वभावेण एवं भणियं निरवसेसं ।।" इति, ‘संकेययंचेव'त्ति केतनं केतः-चिह्नमङ्गुष्ठमुष्टिग्रन्थिगृहादिकंस एव केतकः सह केतकेन सकेतकं ग्रन्थादिसहितमित्यर्थः, भणितं च - ॥१॥ __"अंगुठ्ठमुट्टिगंठीघरसेउस्सासथिबुगजोइक्खे । भणियं सकेयमेयं धीरेहि अनंतनाणीहिं।।" इति 'अद्धाए'त्ति अद्धाया:-कालस्य पौरुष्यादिकालमानमाश्रित्येत्यर्थः, न्यगादिच॥१॥ "अद्धापञ्चक्खाणंजंतं कालप्पमाणछेएणं। पुरिमद्धपोरसीहि मुहुत्तमासद्धमासेहिं ।।" इति 'पञ्चखाणंदसविधंतु'त्तिप्रत्याख्यानशब्दः सर्वत्रानागतादौ सम्बन्ध्यतेतुशब्द एवकारार्थः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy