SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ स्थानं - १०, - ५४३ यत्सङ्ख्येयस्य सङ्ख्यानं-परिगणनं तदपि परिकर्मेत्युच्यते १, एवं सर्वत्रेति, 'व्यवहारः ' श्रेणीव्यवहारादिः पाटीगणितप्रसिद्धोऽनेकधा २, 'रज्जु'त्ति, रज्वा यत्सङ्ख्यानं तद्रज्जुरभिधीयते तच क्षेत्रगणितं ३, 'रासि' त्ति धान्यादेरुत्करस्तद्विषयं सङ्ख्यानं राशिः, स च पाट्यां राशिव्यवहार इति प्रसिद्धः ४, 'कलासवन्ने य'ति कलानाम्-अंशानां सवर्णनं सवर्णः सवर्णः सध्शीकरणं यस्मिन् सङ्ख्याने तत्कलासवर्णं ५, ‘जावंतावइ' त्ति 'जावं तावन्ति वा गुणकारोत्ति वा एगट्ठ' मिति वचनाद् गुणकारस्तेन यत्सङ्ख्यानं तत्त्थैवोच्यते तच्च प्रत्युत्पन्नमिति लोकरूढं, अथवा यावतः कुतोऽपि तावत एव गुणकराद्याधच्छिकादित्यर्थः यत्र विवक्षितं सङ्कलितादिकमानीयते तद्यावत्तावत्सङ्क्षयानमिति, तत्रोदाहरणम् - > 11911 “गच्छो वाञ्छोभ्यस्तो वाञ्छयुतो गच्छसङ्गणः कार्यः । द्विगुणीकृतवाञ्छहृते वदन्ति सङ्कलितमाचार्याः ।।” अत्र किल गच्छो दश १०, ते च वाञ्छया याच्छिकगुणकारेणाष्टकेनाभ्यस्ताः जाताऽशीतिः, ततो वाञ्छायुतास्ते अष्टाशीतिः ८८, पुनर्गच्छेन दशभिः सङ्गुणित अष्टौ शतान्यशीत्यधिकानि जातानि ८८०, ततो द्विगुणीकृतेन याच्छिकगुणकारेण षोढशभिर्भागे हृते यल्लभ्यते तध्शानां सङ्कलितमिति ५५, इदं च पाटीगणितं श्रूयते इति ६, यथा वर्ग:-संख्यानं यथा द्वयोर्वर्गश्चत्वारः ‘सध्शद्विराशिघात' इति वचनात् ७ 'घंणो य'त्ति धनः सङ्ख्यानं यथा द्वयोर्धनोऽष्टौ 'समत्रिराशिहति' रिति वचनात् ८, 'वग्गवग्गो' त्ति वर्गस्य वर्गो वर्गवर्गः, स च सङ्ख्यानं, यथा द्वयोर्वर्गश्चत्वारश्चतुर्णां वर्गः षोडशेति, अपिशब्दः समुच्चये ९, 'कप्पे य'त्ति गाथाधिकं तत्र कल्पः-छेदः क्रकचेन काष्ठस्य तद्विषयं सङ्ख्यानं कल्प एव यत्पाट्यां क्राकचव्यवहार इति प्रसिद्धमिति, इह च परिकर्म्मादीनां केषाञ्चिदुदाहरणानि मन्दबुद्धीनां दुरवगमानि भविष्य, यन्त्यतो न प्रदर्शितानीति १० । - दश मुण्डा उक्तास्ते च प्रत्याख्यानतो भवन्तीति प्रत्याख्याननिरूपणायाहमू. (९५७) दसविधे पच्चक्खाणे पं० (तं०) - वृ. 'दसविहे' त्यादि प्रतिकूलतया आ-मर्यादया ख्यानं प्रकथनं प्रत्याख्यानं निवृत्तिरित्यर्थः, । मू. (९५८) अनागय १ मतिक्कतं २ कोडीसहियं ३ नियंटितं ४ चेव । सागार ५ मनागरं ६ परिमणकडं ७ निरवसेसं ८ ॥ संकेयं ९ चेव अद्धाए १०, पञ्चक्खाणं दसविहं तु ॥ वृ. 'अनागय' गाहा सार्द्धा 'अनागय'त्ति अनागतकरणादनागतं पर्युषणादावाचार्यादिवैयावृत्त्यकरणान्तरायसद्भावादारत एव तत्तपःकरणमित्यर्थः, उक्तं च · "होही पोसवणा मम य तया अंतराइयं होज्जा । 11911 ॥२॥ 11911 गुरुवेयावच्चेणं तस्सि गेलन्नयाए वा ॥ सो दाइ तवोकम्मं पडिवजइ तं अनागए काले । एवं पच्चक्खाणं अनागयं होइ नायव्वं ॥ " 'अइक्वंतं'ति एवमेवातीति पर्युषणादौ करणादतिक्रान्तं, आह च - "पजोसवणाए तवं जो खलु न करेइ कारणञ्जाए । गुरुवेयाणवच्चेणं तवस्सिगेलन्नायाए वा ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy