SearchBrowseAboutContactDonate
Page Preview
Page 545
Loading...
Download File
Download File
Page Text
________________ स्थानाङ्ग सूत्रम् १०/-१९५२ अधर्मपोषकंदानमधर्मदानं, अधर्मकारणत्वाद्वा अधर्म एवेति, उक्तं च - ॥१॥ “हिंसानृतचौर्योद्यतपरदारपरिग्रहप्रसक्तेभ्यः । यद्दीयते हि तेषां तज्ञानीयादधर्माय ।।" इति ७, -धर्मकारणं यत्तद्धर्मदानं धर्मे एव वा, उक्तं चं॥१॥ "समतृममणिमुक्तेभ्यो यद्दानं दीयते सुपात्रेभ्यः । अक्षयमतुलमनन्तं तद्दानं भवति धर्माय ।।" इति, ८ 'काहीइय'त्तिकरिष्यतिकञ्चनोपकारंममायमितिबुध्यायदानं तत्करिष्यतीति दानमुच्यते ९, तथा कृतं ममानेन तत्प्रयोजनमिति प्रत्युपकारार्थं यद्दानं तत्कृतमिति, उक्तंच॥१॥ “शतशः कृतोपकारो दत्तं च सहस्रोशो ममानेन। अहमपि ददामि किञ्चिप्रत्युपकाराय तद्दानम् ।।" इति १०॥ मू. (९५३) दसविधा गती पं० तं० - निरयगती निरयविग्गहगई तिरियगती तिरियविहग्गगई एवंजाव सिद्धिगई सिद्धिविग्गहगती। वृ.उक्तलक्षणाद्दानाच्छुभाशुभागतिर्भवतीति सामान्यतोगतिनिरूपणायाह- 'दसे त्यादि, 'निरयगति'त्ति निर्गता अयात्-शुभादिति निरया-नारकाः तेषां गतिर्गम्यमानत्वान्नकगतिस्तद्गतिनामकर्मोदयसम्पाद्यो नारकत्वलक्षणः पर्यायविशेषोवेति नरकगतिः, तथा निरयाणांनारकाणां विग्रहात्-क्षेत्रविभागानतिक्रम्य गतिः-गमनं निरयविग्रहगतिः स्थितिनिवृत्तिलक्षणा ऋजुवक्ररूपा विहायोगतिका पाद्या वेति, एवं तिर्यङ्नरनाकिनामपीति, 'सिद्धिगति' इति सिध्यन्ति-निष्ठितार्था भवन्ति यस्यां सा सिद्धिः सा चासौ गम्यमानत्वात् गतिश्चेति सिद्धिगतिःलोकाग्रलक्षणा, तथा सिद्धविग्गहगइ'त्तिसिद्धस्य-मुक्तस्यविग्रहस्य-आकाशविभागस्यातिक्रमेण गतिःलोकान्तप्राप्तिः सिद्धविग्रहगतिरिति, विग्रहगतिर्वक्रगतिरप्युच्यते परं सिद्धस्य सा नास्तीति तत्साहचर्यान्नारकादीनामप्यसौ न व्याख्यातेति, अथवा द्वितीयपदैर्नारकादीनां वक्रगतिरुक्ता, प्रथमैस्तुनिर्विशेषणतयापारिशेष्याजुगतिः,'सिद्धिगईत्तिसिद्धौ गमनं निर्विशेषणत्वाचानेन सामान्यासिद्धिगतिरुक्ता, 'सिद्धिविग्गहगइ'त्तिसिद्धावविग्रहेण-अवक्रेण गमनंसिध्धविग्रहगतिः, अनेन च विशेषापेक्षायां विशिष्ट सिद्धिगतिरुक्तासामान्यविशेषविवक्षया चानयोर्भेद इति । सिद्धिगतिर्मुण्डानामेव भवतीति मुण्डनिरूपणायाह मू. (९५४) दस मुंडा पन्नत्ता पं० तं० - सोतिदितमुंडे जाव फासिंदितमुंडे कोहमुंडे जाव लोभमुंडे दसमे सिरमुंडे। वृ. 'दसे त्यादि, मुण्डयति-अपनयतीति मुण्डः, सच श्रोत्रेन्द्रियादिभेदाद् दशधेति, शेषं सुगमं । मुंडा दशेति सङ्घयानमतस्तद्विधय उच्यन्ते, मू. (९५५) दसविधे संखाणे पं०(तं०)-- मू. (९५६)परिकम्म १ ववहारो २ र ३ रासी ३ रसी ४ कलासक्ने ५ य । जावंतावति ६ वग्गो ७ घणो ८ ततह वग्ग वग्गो ९ वि॥ कप्पो त १०॥ वृ. 'दसे'त्यादि, 'परिकम्म गाहा, परिकर्म-संकलिताधनेकविधं गणितज्ञप्रसिद्धं तेन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy