SearchBrowseAboutContactDonate
Page Preview
Page 539
Loading...
Download File
Download File
Page Text
________________ ५३६ स्थानाङ्ग सूत्रम् १०/-/९४२ न्तकायोऽयमित्यभिदधतः ७, 'परित्तमिस्सए 'त्ति परीत्तविषयं मिश्रकं परीत्तमिश्रकं यथा अनन्तकायलेशवति परीत्ते परीत्तोऽयमित्यभिदधतः ८, 'अद्धामिस्सए' त्ति कालविषयं सत्यासत्यं यथा कश्चित् कस्मिंश्चित्प्रयोजने सहायांस्त्वरयन् परिणतप्राये वा वासरे एव रजनी वर्त्तत इति ब्रवीति ९, 'अद्धद्धामीसए' ति अद्धा दिवसो रजनी वा तदेकदेशः प्रहरादिः अद्धद्धा तद्विषयं मिश्रकं सत्यासत्यं अद्धाद्धामिश्रकं, यथा कश्चित्कस्मिंश्चित्प्रयोजने प्रहरमात्र एवं मध्याह्न इत्याह भाषाधिकारात् सकलभाषणीयार्थव्यापकं सत्यभाषरूपं दृष्टिवादं पर्यायतो दशधाऽऽहमू. (९४३) दिट्टिवायरस णं दस नामधेजा पं० तं०-दिट्टिवातेति वा हेउवातेति वा भूयवातेति वा तच्चावातेति वा सम्मावातेति वा धम्माचातेति वा भासाविजतेति वा पुव्वगतेति वा अनुजोगगतेति वा सव्वपाणभूतजीवसत्तसुहायहेति वा । वृ. 'दिट्ठी' त्यादि, ध्ष्टयो दर्शनानि वदनं वादः दृष्टीनां वादो दृष्टिवादः दृष्टीनां वा पाती यस्मिन्नसौ दृष्टिपातः, सर्वनयध्ष्टय इहाख्यायन्त इत्यर्थः, तस्य दश नामधेयानि नामानीत्यर्थः, तद्यथा-ष्टिवाद इति प्रतिपादितमेव, इतिशब्द उपप्रदर्शने वाशब्दो विकल्पे, तथा हिनोति-गमयति जिज्ञासितमर्धामिति हेतुः - अनुमानोत्थापकं लिङ्गमुपचारादनुमानमेव वा तद्वादो हेतुवादः, तथा भूताः सद्भूताः पदार्थास्तेषां वादो भूतवादः, तथा तत्त्वानि वस्तूनामैदम्पर्याणि तेषां वादस्तत्त्ववादस्तथ्यो वा सत्यो वादस्तध्यवादः, तथा सम्यग्-अविपरीतो वादः सम्यग्वादः, तथा धर्माणांवस्तुपर्यायाणां धर्मस्य वा चारित्रस्य वादो धर्म्मवादः, तथा भाषा-सत्यादिका तस्या विचयोनिरणयो भाषाविच्यः, भाषाया वा वाचोविजयः समृद्धिर्यस्मिन्स भाषाविजयः, तथा सर्वश्रुतात्पूर्वं क्रियंत इति पूर्वाणि-उत्पाद पूर्वादीनि चतुर्दश तेषु गतः - अभ्यन्तरीभूतस्तत्स्वभाव इत्यर्थ इति पूर्वगतः, तथाऽनुयोगः - प्रथमानुयोगस्तीर्थकरादिपूर्वभवादिव्याख्यानग्रन्थो गण्डिकानुयोगश्च भरतनरपतिवंशजानां निर्वाणगमनानुत्तर विमानवक्तव्यताव्याख्यानग्रन्थ इति द्विरूपेऽनुयोगे गतोऽनुयोगगतः, एतौ च पूर्वगतानुयोगगतौ दृष्टिवादांशावपि दृष्टिवादतयोक्तौ अवयवे समुदायोपचारादिति, तथा सर्वे विश्वे ते च ते प्राणाश्च द्वीन्द्रियादयो भूताश्च - तरवः जीवाश्च पञ्चेन्द्रियाः सत्त्वाश्च पृथिव्यादयः इति द्वन्द्वे सति कर्म्मधारयः, ततस्तेषां सुखं शुभं वा आवहतीति सर्वप्राणभूतजीवसत्त्वसुखावहः, सुखावहत्वं च संयमप्रतिपादकत्वात् सत्त्वानां निर्वाणहेतुत्वाच्चेति । प्राणादीनां सुखावह दृष्टिवादोऽशरूपत्वात् शस्त्रमेव हि दुःखावहमिति शस्त्रप्ररूपणायाहमू. (९४४) दसविधे सत्थे पं० (तं०) मू. (९४५) 'सत्यमग्गी १ विसं २ लोणं ३, सिणेहो ४ खार ५ मंबिलं ६ । दुप्पउत्तो मणो ७ वाया ८, काया ९ भावी त अविरती १० ॥ ― वृ. 'दसे त्यादि, शस्यते-हिंस्यते अनेनेति शस्त्रं, 'सत्यं' सिलोगो, शस्त्रं - हिंसकं वस्तु, तच्च द्विधा द्रव्यतो भावतश्च, तत्र द्रव्यतस्तावदुच्यतेअग्निः-अनलः, स च विसध्शानलापेक्षया स्वकायशं भवति, पृथिव्याद्यपेक्षया तु परकायर्श १ विषं-स्थावरजङ्गमभेदं २ लवणं-प्रतीतं ३ स्नेहः- तैलघृतादक्षारो - भस्मादि ५ अम्लं काञ्जिकं ६ | 'भावो य'त्ति इह द्रष्टव्यं तेन भावो भावरूपं शस्त्रं, किं तदित्याह - दुष्प्रयुक्तं - अकुशलं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy