SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ स्थानं -१०, ५३७ मनो-मानसं७ वाग्-वचनंदुष्प्रत्युक्ता ८ कायश्च-शरीरंदुष्प्रयुक्तएव ९, इहच कायस्य हिंसाप्रवृत्तौ खङ्गादेरुपकरणत्वात् कायग्रहणेनैव तद्गहणं द्रष्टव्यमिति, अविरतिश्च-अप्रत्याख्यानमथवा अविरतिरूपो भावः शस्त्रमिति १०। मू. (९४६) दसविहे दोसे पं० (तं०)मू. (९४७) तज्जातदोसे १ मतिभंगदोसे २ पसत्थारदोसे ३ परिहरणदोसे ४ । _सलक्खण ५ कारण ६ हेउदोसे ७, संकामणं ८ निग्गह ९ वत्थुदोसे १०॥ वृ. अविरत्यादयो दोषाः शमित्युक्तमिति दो प्रस्तावाद्दोषविशेषनिरूपणायाह'दसविहे त्यादि, 'तज्जाये त्यादिवृत्तं, एते हिगुरुशिष्ययोर्वादिप्रतिवादिनोर्वा वादाश्रयाइव लक्ष्यन्ते, तत्र तस्य गुर्वादेति-जातिः प्रकारो वा जन्ममर्मकर्मादिलक्षणः तज्जातं तदेव दूषणमितिकृत्वादोषस्तजातदोषः, तथाविधकुलादिना दूषणमित्यर्थः, अथवा तस्मात्-प्रतिवाद्यादेः सकाशाजातः क्षोभान्मुखस्तम्भादिल- क्षणो दोषस्तजातदोषः १ तथा स्वस्यैव मतेः-बुद्धभङ्गोविनाशोमतिभङ्गो-विस्मृत्यादिलक्षणोदोष मतिभङ्गदोषः२, तथा प्रशास्ता-अनुशासकोमर्यादाकारी सभानायकः सभ्यो वा तस्माद द्विष्टा- दुपेक्षकाद्वा दोषः प्रतिवादिनो जयदानलक्षणो विस्मृतप्रमेयप्रतिवादिनः प्रमेयस्मारणादिलक्षणो वा प्रशास्तृदोषः ३, इह त्थाशब्दो लघुश्रुतिरिति, तथा परिहरणं-आसेवा स्वदर्शनस्थित्या लोकरूढ्या वा अनासेव्यत्यतदेवदोषः, परिहरणदोषः, अथवा परिहरण-अनासेवनसभारूढ्या सेव्यस्य वस्तुनस्तदेव तस्माद्वा दोषः परिहरणदोषः अथवा वादिनोपन्यस्तस्यदूषणस्यअसम्यक्परिहारोजात्युत्तरं परिहणदोष इति, यथा बौद्धेनोक्तमनित्यः शब्दः कृतकत्वाद्घटवदिति, अत्र मीमांसकः परिहारमाह-ननुघटगतं कृतकत्वं शब्दस्यानित्यत्वसाधनायोपन्यस्यते शब्दगतं?, यदि घटगतं तदा तच्छब्दे नास्तीत्यसिद्धता हेतोः,अथ शब्दगतं तन्नानित्यत्वेनव्याप्तमुपलब्धमित्य धारणानैकान्तिको हेतुरित्वयं न सम्यक् परिहारः, एवंहि सर्वानुमानोच्छेदप्रसङ्गः,अनुमानं हि साधनधर्ममात्रात् साध्यधर्ममात्रनिर्णयात्मकं, अन्यथा धूमादनलानुमानमपिन सिद्धेत्, तथाहि-अग्निरत्र धूमाद्यथा महानसे, अत्र विकल्प्यतेकिमत्रेतिशब्दानिर्दिष्टपर्वतैकप्रदेशादिगतधूमोऽग्निसाधनायोपात्तः उत महानसगतो ?, यदि पर्वतादिगतः सोऽग्निना न व्याप्तः सिद्ध इत्यासाधारणानैकान्तिको हेतुः, अथ महानसगतस्तदा नासौ पर्वतैकदेशे वर्तत इत्यसिद्धो हेतुरिति अयं परिहरणदोष इति ४, तथा लक्ष्यते-तदन्यव्यपोहेनावधार्यते वस्त्वनेनेति लक्षणं स्वं च तल्लक्षणं च स्वलक्षणं यथाजीवस्योपयोगो यथा वाप्रमाणस्यस्वपरावभासकज्ञानत्वं ५, तथा करोतीति कारणं-परोक्षार्थनिर्णयनिमित्तमुपपत्तिमात्रंयथानिरुपमसुखः सिद्धोज्ञानानावाधप्रकर्षात्, नात्र किल सकललोकप्रतीतः साध्यसाधनधर्मानुगतोदृष्टान्तोऽस्तीत्युपपत्तिमात्रता ६, दृष्टान्तसद्भावेऽस्यैव हेतुव्यपदेशः स्यात्, तथाहिनोति-गमयतीति हेतुः साध्यसद्भावभावतदभावाभावलक्षणः, ततश्चस्वलक्षणादीनां द्वन्द्वः, तेषां दोषः स्वलक्षणकारणहेतुदोषः, इह काशब्दः छन्दोऽर्थं द्विबो ध्येयः ७, अथवा सह लक्षणेन यी कारणहेतू तयोर्दोष इति विग्रहः तत्र लक्षणदोषोऽव्याप्तिरतिाप्तिर्वा, तत्राव्याप्तिर्यथा यस्यार्थस्य सन्निधानासन्निधानाभ्यां ज्ञानप्रतिभासभेदस्त Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy