SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ स्थानं - १०, - देवोऽयं सिंहस्त्वमिति, सर्वत्रैकारः प्रथमैकवचनार्थो द्रष्टव्य इहेति । मू. (९४०) दसविधे मोसे पं० (तं०) वृ. सत्यविपक्षं मृषाह- 'दसे' त्यादि, 'मोसे' त्ति प्राकृतत्वात् मृषाऽनृतमित्यर्थः । मू. (९४१) कोधे १ माणे २ माया ३ लोभे ४ पिज्जे ५ तहेव दोसे ६ य । हास ७ भते ८ अक्खातित ९ उवधातनिस्सिते दसमे १० ॥ ५३५ बृ. 'कोहे' गाहा, 'कोहे' त्ति क्रोधे निश्रितमिति सम्बन्धात् क्रोधाश्रितं कोपाश्रितं मृषेत्यर्थः, तच्च यथा क्रोधाभिभूतः अदासमपिदासमभिधत्त इति, मानें निश्रितं यथा मानाध्मातः कश्चित् केनचिदल्पधनोऽपि पृष्टः सन्नाह- महाधनोऽहमिति, 'माय'त्ति मायायां निश्रितं यथा मायाकारप्रभृतय आहुः- 'नष्टो गोलकः' इति, 'लोभे' त्ति लोभे निश्रितं वणिक्प्रभृतीनामन्यथाक्रीतमेवेत्थं क्रीतमित्यादि, 'पिज' त्ति प्रेमणि निःश्रितं अतिरक्तानां दासोऽहं तवेत्यादि, 'तहेव दोसे य'त्ति द्वेषे निश्रितं मत्सरिणां गुणवत्यपि निर्गुणोऽयमित्यादि, 'हासे 'त्ति हासे निश्रितं यथा कन्दर्पिकाणां कस्मिंश्चित्कस्यचित्सम्बन्धिनि गृहीते पृष्टानां न दृष्टमित्यादि, 'भये' त्ति भयनिश्रितं तस्करादिगृहीतानां तथा तथा असमञ्जसाभिधानं, 'अक्खाइय'त्ति आख्यायिकानिश्रितं तय्प्रतिबद्धोऽसत्प्रलापः, 'उवघायनिस्सिए 'त्ति उपघाते- प्राणिवधे निश्रितं-आश्रितं दशमं मृषा, अचौरे चौरोऽयमित्यभ्याख्यानवचनं, मृषाशब्दस्त्वव्यय इति । मू. (९४२) दसविधे सच्चामोसे पं० तं० उप्पन्नमी सते १ विगतमीसते २ उप्पन्नविगतमीसते ३ जीवमीसए ४ अजीवमीसए ५ जीवाजीवमीसए ६ अनंतमीसए ७ परित्तमीसए ८ अद्धामीस ९ अद्धद्धामीसए १० । वृ. सत्यासत्ययोगे मिश्रं वचनं भवतीति तदाह- 'देसे' त्यादि, सत्यं च तन्मृषा चेति प्राकृतत्वात् सच्चा मोसंति, 'उप्पन्नमीसए' त्ति उत्पन्नविषयं मिश्र - सत्यामृषा उत्पन्नमिश्रं तदेवोत्पन्नमिश्रकं, यथैकं नगरमधिकृत्यास्मिन्नद्य दश दारका उत्पन्ना इत्यभिदधतस्तन्यूनाधिकभावे व्यवहारतोऽस्य सत्यामृषा - त्वात् श्वस्ते शतं दास्यामीत्यभिधाय पञ्चाशत्यपि दत्तायां लोके मृषात्वादर्शनादनुत्पन्नेष्वेवादत्तेष्वेव वा मृषात्वसिद्धेः, सर्वथा क्रियाऽभावेन सर्वथा व्यत्ययाद्, एवं विगतादिष्वपि भावनीयमिति १, 'विगतमीसए' त्ति विगतविषयं मिश्रकं विगतमिश्रकं, यथैकं ग्राममधिकृत्यास्मिन्नद्य दश वृद्धा विगता इत्यभिदधतो न्यूनाधिकभावे मिश्रमिति २, 'उप्पन्नविगयमीसए' त्ति उत्पन्नं च विगतं च उत्पन्नविगते तद्विषयं मिश्रकं उत्पन्नविगतमिश्रकं, यथैकं पत्तनमधिकृत्यास्मिन्नद्य दश दारका जाताः दश च वृद्धा विगता इत्यभिदधतस्तन्यूनाधिकभाव ' इति ३. 'जीवमीसए' त्ति जीवविषयं मिश्रं सत्यासत्यं जीवमिश्रं यथा जीवन्मृतकृमिराशी जीवराशिरिति ४, 'अजीवमीसए' त्ति अजीवानाश्रित्य मिश्रमजीवमिश्रं यथा तस्मिन्नेव प्रभूतमृतकृमिराशावजीवराशिरिति ५, 'जीवाजीवमिस्सए 'त्ति जीवाजीवविषयं मिश्रकं जीवाजीवमिश्रकं यथा तस्मिन्नेव जीवन्मृतकृमिराशौ प्रमाणनियमेनैतावन्तो जीवन्त्येतावन्तश्च मृता इत्यभिदधतस्तन्यूनाधिकत्वे ६, 'अनंतमीसए' त्ति अनन्तविषयं मिश्रकमनन्तमिश्रकं यथा मूलकन्दादी परीतपत्रादिमत्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy