SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ स्थानं-१०, ५२७ 'बलिस्से'त्यादि, 'वईत्यादि सूत्रसूचा, एवं च श्यं 'वइरोयनिंदस्स वइरोयणरन्नो सोमस्स य महारन्नो' ‘एवं चेव त्ति अतिदेशः, एतद्भावना-'जहे'त्यादि, यथा यत्प्रकारं चमरस्य लोकपालानामुत्पातपर्वतप्रमाणं प्रत्येकं चतुर्भिः सूत्रेरुक्तं 'तंचेव'त्तितत्प्रकारमेव चतुर्भिःसूत्रैः बलिनोऽपि वैरोचने न्द्रस्यापि वक्तव्यं, समानत्वादिति, 'घरणस्से'त्यादि,धरणस्योत्पातपर्वतोऽरुणोद एव समुद्रे भवति, ____धरणस्से'त्यादि प्रथमलोकपालसूत्रे एवं चेव'त्तिकरणात् ‘उच्चत्तेणं दस गाउयसयाई उव्वेहेण'मित्यादि सूत्रमतिदिष्टं, एवंजाव संखपालस्स'त्तिकरणाच्छेषाणांत्रयाणांलोकपालानां कोलवालसेलवालसंखवालाभिधानानामुत्पातपर्वताभिधायीनि त्रीण्यन्यानि सूत्राणि दर्शयति । ‘एवं भूयानंदस्सवित्ति भूतानन्दस्यापि औदीच्यनागराजस्यापि उत्पातपर्वतस्तस्य नाम प्रमाणं च वाच्यं, यथा धरणस्येत्यर्थः, भूतानन्दप्रभश्चोत्पातपर्लतोऽरुणोद एव भवति, केवलमुत्तरतः, "एवं लोगपालाणवि सेत्ति 'से' तस्य भूतानन्दस्य लोकपालानामपि, एवमुत्पातपर्वतप्रमाणं यथा धरणलोकपालानामिति भावः, नवरं तन्नामानि चतुःस्थानकानुसारेण ज्ञातव्यानीति, 'जहा धरणस्से ति यथा धरणस्य एवमिति-तथा सुपर्णविद्युत्कुमारादीनां ये इन्द्रास्तेषामुत्पातपर्वतप्रमाणंभणितव्यं, किंपर्यन्तानां तेषामित्यतआह-जाव थणियकुमाराणं ति प्रकटं, किमिन्द्राणामेव नेत्याह सलोगपालाणं ति, तल्लोकपालानामपीत्यर्थः, 'सव्वेसिमित्यादि, सर्वेषामिन्द्राणांतल्लोकपालानांचोत्पातपर्वताः सदग्नामानो भणितव्याः, यथा धरणस्य धरणप्रभः, प्रथमतल्लोकपालस्य कालवालस्य कालवालप्रभ इत्येवं सर्वत्र, ते च पर्वताः स्थानमङ्गीकृत्यैवं भवन्ति॥१॥ "असुराणं नागाणं उदहिकुमाराण होति आवासा । अरुणोदए समुद्दे तत्थेव य तेसि उप्पाया। ॥२॥ दीवदिसाअग्गीणं थणियकुमाराण होंति आवासा। अरुणवरे दीवंमि उ तत्थेव य तेसि उप्पाया ।।" इति 'सक्कस्से त्यादि, कुण्डलवरद्वीपकुण्डलपर्वतस्याभ्यन्तरे दक्षिणतः षोडश राजधान्यः सन्ति, तासांचतसृणांचतसृणांमध्ये सोमप्रमेयमप्रभवरुणप्रभवैश्रमणप्रभाख्याउत्पातपर्वताः सोमादीनां शक्रलोकपालानां भवन्ति, उत्तरपार्वे तु एवमेवेशानलोकपालानामिति, यथा शक्रस्य तथाऽच्युतान्तानामिन्द्राणां लोकपालानां चोत्पातपर्वता वाच्याः, यतः सर्वेषामेकं प्रमाणं, नवरं स्थानविशेषो विशेषसूत्रादवगन्तव्यः। योजनसहनाधिकारादेव योजनसाहनिकिावगाहनासूत्रत्रयम् मू. (९२०)बायरवणस्सतिकातिताणं उक्कोसेणंदसजोयणसयाइं सरीरोगाहणा पन्नता, जलचरपंचेदियतिरिक्खजोणिताणं उक्कोसेणं दस जोयणसताई सरीरोगाहणा पत्र० उरपरिसप्पथलचरपंचिंदिततिरिक्खजोणिताणं उक्कोसेणं एवं चेव। वृ. 'बादरेत्यादि कण्ठ्यं, नवरं 'बादरे त्तिबादराणामेवन सूक्ष्माणांतेषामङ्गुलासङ्खयेयभागमात्रावगाहनत्वात्, एवंजघन्यतोऽपिमाभूदतः 'उक्कोसेण'त्यभिहितं, दशयोजनशतानि उत्सेधयोजनेन, न तु प्रमाणयोजनेन, “उस्सेहपमाणाउ मिणे देह" इति वचनात्, शरीरस्यावगाहना Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy