SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ स्थानाङ्ग सूत्रम् २/१/६० मिथ्याटिरात्मानं शरीर व्यापकमपि अङ्गुष्ठपर्वमानं श्यामाकतन्दुलमानं वेति हीनतया वेत्ति तथाऽन्यः पञ्चधनुःशतिकं सर्वव्यापकंवेत्यधिकतयाऽभिमन्यते, तथा 'तब्वइरित्तमिच्छादसणवत्तिया चेव'त्ति तस्माद्-ऊनातिरिक्तमिथ्यादर्शनाद् व्यतिरिक्तं मिथ्यादर्शनंनास्त्येवात्मेत्यादिमतरूपं प्रत्ययो यस्याः सा तथेति। पुनरन्यथा द्वे- 'दिट्ठियाचेव'त्ति हटेर्जाताष्टिजा अथवा दृष्टं-दर्शनं वस्तु वा निमित्ततया यस्यामस्ति सा टिका-दर्शनार्थं या गतिक्रिया, दर्शनाद् वा यत्कर्मोदेति सा दृष्टिजा सृष्टिका वा, तथा 'पुट्ठिया चेव'त्ति पृष्टिः-पृच्छा ततो जाता पृष्टिजा-प्रश्नजनितो व्यापारः, अथवा पृष्ट-प्रश्नः वस्तु वा तदस्तिकारणत्वेन यस्यां सा पृष्टिकेति, अथवास्पृष्टिः स्पर्शनंततो जाता स्पृष्टिजा, तथैव स्पृष्टिकाऽपीति । आधा द्वेधा- 'जीवदिहिया चेव'त्ति या अश्वादिदर्शनार्थं गच्छः, तथा अजीवदिडियाचेव'त्तिअजीवानां चित्रकर्मादीनांदर्शनार्थंगच्छतो या सा अजीवष्टिकेति, एवं पुट्ठिया चेव'त्ति एव'मितिजीवाजीवभेदेन द्विधैव, तथाहि-जीवमजीवंवा रागद्वेषाभ्यां पृच्छतः स्पृशतो वा या सा जीवपृष्टिका जीवस्पृष्टिका वा अजीवपृष्टिका अजीवस्पृष्टिका वेति।। पुनरन्यथा द्वे - 'पाडुच्चिया चेव'त्ति बाह्यं वस्तु प्रतीत्य-आश्रित्य भवा प्रातीत्यिकी तथा "सामन्तोवणिवाइया चेव'त्ति समन्तात्-सर्वत उपनिपातो-जनमीलकस्तस्मिन् भवा सामन्तोपनिपातिकी आद्या द्वेधा- 'जीवपाइच्चिया चेव'त्ति जीवं प्रतीत्य यः कर्मबन्धः सा तथा, तथा 'अजीवपाडुचिया चेव'त्ति अजीवं प्रतीत्य यो रागद्वेषोद्भवस्तजो वा बन्धः सा अजीवप्रातीत्यिकीति। द्वितीयापि द्विधैवेत्यतिदिशन्नाह-“एवं सामन्तोवणिवाइयावित्ति, तथाहिकस्यापि षण्डो रूपवानस्ति तंचजनो यथा यथा प्रलोकयति प्रशंसयति च तथा तथा तत् स्वामी हृष्टतीति जीवसामन्तोपनिपातिकी, तथा रथादौ तथैव हृष्यतोऽजीवसामन्तोपनिपातिकीति, अन्यथा वाढे साहत्थियाचेव'त्तिस्वहस्तेन निवृत्तास्वाहस्तिकी तथा नेसत्थियाचेव'त्ति, निसर्जनं निसृष्टं, क्षेपणमित्यर्थः, तत्रभवा तदेव वा नैसृष्टिकी, निसृजतो यः कर्मबन्ध इत्यर्थः, निसर्ग एव वेति, तत्र आधा द्वेधा - 'जीवसाहत्थिया चेव'त्ति यत् स्वहस्तगृहीतेन जीवेन जीवं मारयति सा जीवस्वाहस्तिकी, तथा 'अजीवसाहत्थिया चेव'त्ति यच्च स्वहस्तगृहीतेनैवाजीवेनखङ्गादिना जीवं मारयति सा अजीवस्वाहस्तिकीति, अथवा स्वहस्तेन जीवं ताडयत एका, अजीवंताडयतोऽन्येति । द्वितीयाऽपिजीवाजीवभेदैवत्यतिदिशन्नाह - ‘एवं नेसत्थियाचेव'त्ति, तथाहि-राजादिसमादेशाद्यदुदकस्य यन्त्रादिभिर्निसर्जनं सा जीवनसृष्टिकीति, यत्तु काण्डादीनां धनुरादिभिः सा अजीवनैसृष्टिकीति, अथवा गुर्बादौ जीवं-शिष्यं पुत्रं वा निसृजतो-ददत एका, अजीवं पुनरेषणीयभक्तपानादिकं निसृजतो-त्यजतोऽन्येति, ... पुनरन्यथाढे आणवणियाचेव'त्तिआज्ञापनस्य-आदेशनस्येयमाज्ञापनमेव वेत्याज्ञापनी सैवाज्ञापनिका तजः कर्मबन्धः, आदेशनमेव वेति, आनायनं वा आनायनी, तथा 'वेयारणिया चेव'त्ति विदारणं विचारणं वितारणं वा स्वार्थिकप्रत्ययोपादानाद् वै दारिणीत्यादि वाच्यमिति ।। एतेचद्वेअपिढेधा-जीवाजीवभेदादिति,तथाहि-जीवमाज्ञापयतआनाययतोवा परेण जीवाज्ञापनी जीवानायनी वा, एवमेवाजीवविषया अजीवाऽऽज्ञापनी अजीवानायनी वेति । तथा 'वेयारणिय'त्ति जीवमजीवं वा विदारयति-स्फोटयतीति, अथवा जीवमजीवं वाऽसमानभाषेषु For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy