________________
स्थानं २, - उद्देशकः -१
-
'दुप्पउत्तकायकिरिया चेव' त्ति दुष्प्रयुक्तस्य दुष्टप्रयोगवतो दुष्प्रणिहितेस्येन्द्रियाण्याश्रित्येष्टानिष्टविषयप्राप्तौ मनाक् संवेगनिर्वेदगमनेन तथा अनिन्द्रियमाश्रित्याशुभमनःसङ्कल्पद्वारेणापवर्गमार्गं प्रति दुर्व्यस्थितस्य प्रमत्तसंयतस्येत्यर्थः कायक्रिया दुष्प्रयुक्तकायक्रियेति ५, आधिकरणिकी द्विधा तत्र संजोयणाहिगरणिया चेव' त्ति यत्पूर्वं निर्वार्त्तितयोः खङ्गतन्मुष्ट्यादिकयोरर्थयोः संयोजनं क्रियते सा संयोजनाऽधिकरणिकी, तथा 'निव्वत्तणाहिकरणिया चेव'त्ति यच्चादितस्तयोर्निर्वर्त्तनं सा निर्वर्त्तनाधिकरणिकीर्ति । पुनरन्यथा द्वे- 'पाडसिया चेव' त्तिप्रद्वेषो मत्सरस्तेन निर्वृत्ता प्राद्वेषिकी, तथा 'पारियावणिया चेव'त्ति परितापनं-ताडनादिदुःखविशेषलक्षणं तेन निर्वृत्ता पारितापनिकी, आद्याद्विधा- 'जीवपाउसिया चेव' त्ति जीवे प्रद्वेषाजीवप्राद्वेषिकी, तथा 'अजीवपाउसिया चेव' त्ति अजीवे - पाषाणादौ स्खलितस्य प्रद्वेषादजीवप्राद्वेषिकीति, द्वितीयाऽपि द्विधा - 'सहत्थपारियावणिया चेव' त्ति स्वहस्तेन स्वदेहस्य परदेहस्य वा परितापनं कुर्वतः स्वहस्यपारितापनिकी तथा 'परहत्थपारियावणिया चेव'त्ति परहस्तेन तथैव च तत्कारयतः परहस्तपारितापनिकीति ।
अन्यथा द्वे 'पाणाइवायकिरिया चेव'त्ति प्रतीता, तथा 'अपच्चक्खाणकिरिया चेव'त्ति अप्रत्याख्यानम्-अविरतिस्तन्निमित्तः कर्म्मबन्धोऽप्रत्याख्यानक्रिया सा चाविरतानां भवतीति । आद्या द्वेधा - 'सहत्थपाणाइवायकिरिया चेव' त्ति स्वहस्तेन स्वप्राणान् निर्वेदादिना परप्राणान् वा क्रोधादिना अतिपातयतः स्वहस्तप्राणातिपातक्रिया, तथा 'परहत्थपाणाइवायकिरिया चेव' त्ति परहस्तेनापि तथैव परहस्तप्राणातिपातक्रियेति । द्वितीयापि द्विधा, 'जीव अपञ्चक्खाणकिरिया चेव' त्ति जीवविषये प्रत्याख्यानाभावेन यो बन्धादिर्व्यापारः सा जीवाप्रत्याख्यानक्रिया, तथा 'अजीव अपचक्खाणकिरिया चेव' त्ति यदजीवेषु मद्यादिष्वप्रत्याख्यानात् कर्मबन्धनं सा अजीवाप्रत्याख्यानक्रियेति ।
पुनरन्यथा द्वे 'आरंभिया चेव'त्ति आरम्भणमारम्भः तत्र भवा आरम्भिकी, तथा 'परिग्गहिया चेव' त्ति 'जीवआ' परिग्रहे भवा पारिग्रहिकी । आद्या द्वेषा 'जीव आरम्भिया चेव'त्ति, यजीवानारभमाणस्य उपमृद्गतः कर्मबन्धनं सा जीवारम्भिकी, तथा 'अजीवारंभिया चेव'त्ति यच्चाजीवान् जीवकडेवराणि पिष्टादिमयजीवाकृतींश्च वस्त्रादीन् वा आरभमाणस्य सा अजीवारम्भिकीति, एवं 'पारिग्गहिया चेव' त्ति आरम्भिकीवद् द्विविधेत्यर्थः, जीवाजीवपरिग्रहप्रभवत्वात् तस्या इति भावः
पुनरन्यथा द्वे 'मायावत्तिया चेव'त्ति माया- शाठ्यं प्रत्ययो-निमित्तं यस्याः कर्मबन्धक्रियाया व्यापारस्य वा सा तथा, 'मिच्छादंसणवत्तिया चेव' त्ति मिध्यादर्शनं-मिथ्यात्वं प्रत्ययो यस्याः सा तथेति, आद्या द्वेधा - 'आयभाववंकणया चेव' त्ति आत्मभावस्याप्रशस्तस्य वङ्कनता-वक्रीकरणं प्रशस्तत्वोपदर्शनता आत्मभाववङ्कनता, वङ्कनानां च बहुत्वविवक्षायां भावप्रत्ययो न विरुद्धः, सा च क्रिया व्यापारत्वात्, तथा 'परभाववंकणया चेव' त्ति परभावस्य वङ्कनता - वञ्चनता या कूटलेखकर णादिभिः सा परभाववङ्कनतेति, यतो वृद्धव्याख्येयं "तंत भावमायरइ जेण परो वं चिज्जइ कूडलेहकरणाईहिं'ति, द्वितीयाऽपि द्वेधा - 'ऊणाइरित्तमिच्छादंसमवत्तिया चेव' त्ति ऊनं - स्वप्रमा णाद्धीनमतिरिक्तं ततोऽधिकमात्मादि वस्तु तद्विषयं मिथ्यादर्शनमूनातिरिक्तमिध्यादर्शनं तदेव प्रत्ययो यस्याः सा ऊनातिरिक्तमिध्यादर्शनप्रत्ययेति, तथाहि कोऽपि
3 4
Jain Education International
४९
For Private & Personal Use Only
www.jainelibrary.org