SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ ५१२ स्थानाङ्ग सूत्रम् ९/-/ ८८३ एतासु भृगुर्विचरति नागगजैरावतीषु वीथिषु चेत् । बहु वर्षेत् पर्जन्यसुलभौषधयोऽर्थवृद्धिश्च ।। पशुसंज्ञासु च ३ मध्यमसस्यफलादिर्यदा चरेद् भृगुजः । अजमृगवैश्वानरवीथिष्वर्थभयार्द्दितो लोकः ।। इति । वीथिविशेषचारेण च शुक्रादयो ग्रहा मनुजादीनामनुग्रहोपघातकारिणो भवन्तीति द्रव्यादिसामग्र्या कर्मणामुदयादिसद्भावादितिसम्बन्धात् प्रस्तुताध्ययनावतारि कर्म्मस्वरूपमाहमू. (८८४) नवविधे नोकसायवेयणिले कम्मे पं० तं०- इत्थिवेते पुरिसवेते नपुंसगवेते हासे रती अरइ भये सोगे दुगुंछे । ॥ ४ ॥ ॥ ५॥ वृ. 'नवविहे 'त्यादि, इह नोशब्दः साहचर्यार्थः कषायैः क्रोधादिभिः सहचरा नोकषायाः, केवलानां नैषां प्राधान्यं किन्तु यैरनन्तानुबन्ध्यादिभिः सहोदयं यान्ति तद्विपाकसध्शमेव विपाकमादर्शयन्तीति, बुधग्रहवदन्यसंसर्गमनुवर्त्तन्ते, एवं च नोकषायतया वेद्यते यत्कर्म्म तन्त्रोकषायवेदनीयमिति, तत्र यदुदयेन स्त्रियाः पुंस्यभिलाषः पित्तोदयेन मधुराभिलाषवत् स फुंफुंकाग्निसमानः स्त्रीवेदः, यदुदयेन पुंसः स्त्रियाभिलाषः श्लेष्मोदयादम्लाभिलाषवत् स दावाग्निज्वालासमानः पुंवेदो, यदुदये नपुंसकस्य स्त्रीपुंसयोरुभयोरभिलाषः पित्तश्लेष्मणोरुदये मञ्जिताभिलाषवत् स महानगरदाहाग्निसमानो नपुंसकवेद इति, यदुदयेन सनिमित्तमनिमित्तं वा हसति तत्कर्म्म हास्यं, यदुदयेन सचित्ताचित्तेषु बाह्यद्रव्येषु जीवस्य रतिरुत्पद्यते तद्रतिकर्म्म, यदुदयेन तेष्वेवारतिरुत्पद्यते तदरतिकर्म्म, यदुदयेन भयवर्जितस्यापि जीवस्येहलोकादि सप्तप्रकारं भयमुत्पद्यते तद्भयकर्म्म, यदुदयेन शोकरहितस्यापि जीवस्याक्रन्दनादिः शोको जायते तच्छोककर्मेति, यदुदयेन च विष्ठादिबीभत्सपदार्थेभ्यो जुगुप्सते तजुगुप्साकर्मेति । मू. (८८५) चउरिंदियाणं नव जाइकुलकोडीजोणिपमुहसयसहस्सा पन्नत्ता, भुयगपरिसप्पथलयरपंचिंदियतिरिक्खजोणिणां नवजाइकुलकोडिजोणिपमुहसयसहस्सा प० । वृ. नवरं 'नव जाई' त्यादि, चतुरिन्द्रियाणां जातौ यानि कुलकोटीनां योनिप्रमुखाणांयोनिद्वारकाणां शतसहस्राणि तानि तथा, भुजैर्गच्छन्तीति भुजगाः- गोधादय इति । अनन्तरं कम्र्मोक्तं, तद्वशवर्त्तिनश्च नानाकुलकोटीभाजो भवन्तीति कुलकोटिसूत्रे सद्गताश्च कर्म्म चिन्वन्तीति चयादिसूत्रषट्कं मू. (८८६) जीवा णं नवट्टा निवत्तिते पोग्गले पावकम्मत्ताते चिणिसु वा ३ पुढविकाइयनिवत्तिते जाव पंचिंदितनिवत्तिते, एवं चिण उचिण जाव निज्ञ्जरा चैव । मू. (८८७) नव पएसिता खंधा अनंता पन्नत्ता नवपएसोगाढा पोग्गला अनंता पन्नत्ता एवं नवगुणलुक्खा पोग्गला अनंता पन्नत्ता ॥ वृ. कर्म्युद्गलप्रस्तावात् पुद्गलसूत्राणि, सुगमानि चैतानि । स्थानं - ९ - समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता अभयदेवसूरि विरचिता स्थानाङ्कसूत्रे नवमस्थानस्य टीका परिसमाप्ता । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy