________________
स्थानाङ्ग सूत्रम् ९/-/८७५
भन्नइ नरो अचेलो तह मुणओ संतचेलावि ॥" अतः- “परिसुद्धजुन्नकुच्छियथोवानिय अन्नभोगभोगेहिं । मुणओ मुच्छारहिया संतेहिं अचेलया होंति ।।" न च वस्त्रं संसक्तिरागादिनिमित्ततया चारित्रविघातायाध्यात्मशुद्धेः शरीराहारादिवदिति,
न हि शरीराद्यूकादिसंसक्तिर्न भवति रागो वा नोत्पद्यते, उक्तं च
॥ १॥
५१०
"अह कुणसि धुल्लवत्थाइएसु मुच्छं धुवं सरीरेऽवि । अक्के दुल्लभतरे काहिसि मुच्छं विसेसेणं ॥” इति -अध्यात्मशुद्धभावेऽचेलकत्वमपि न चारित्राय, यथोक्तम्"अपरिग्गहावि परसंतिएसु मुच्छाकसायदोसेहिं । अविणिग्गहियप्पाणो कम्ममलमनंतमचंति ॥” इति, -जिनोदाहरणादचेलकत्वमेव श्रेय इति न वक्तव्यमेतत्, तयोऽभ्यधायि“न परोवएसविसया न य छउमत्था परोवएसंपि । दिंति न व सीसवग्गं दिक्खति जिना जहा सव्वे ॥
॥२॥
तह सेसेहि य सव्वं कज्जं जइ तेहिं सव्वसाहम्मं । एवं च कओ तित्थं ? न चेदचेलत्ति को गाहो ? ॥"
अपि च-उचितचेलसद्भावे चारित्रधम्र्म्मो भवत्येव तदुपकारित्वाच्छरीराहारादिवदिति, अथ कथं चेलस्य चारित्रोपकारितेति चेत्, उच्यते, शीतादित्राणतो जीवसंसक्तिनिमित्ततॄण परिहारादिहेतुत्वात् उक्तं च
119 11
॥१॥
119 11
“तणगहणानलसेवानिवारणा धम्मसुक्कझाणट्ठा । दिङ्कं कप्परगहणं गिलाणमरणझ्या चेव ||" इति,
तथा 'सेज्जयरे' त्ति शेरते यस्यां साधवः सा शय्या तया तरति भवसागरं इति शय्यातरोवसतिदाता तस्य पिण्डो भक्तादिः शय्यातरपिण्डः, स च अशनादि ४ र्वस्त्रादि ४ शूच्यादि ४ श्चेति, तद्ग्रहणे दोषास्त्वमी
119 11
“तित्थंकरपडिकुट्टो अन्नायं उग्गमोऽवि य न सुज्झे । अविमुक्ती अलाघवता दुल्लहसेज्जा विउच्छेओ ।।" इति,
राज्ञः चक्रवर्त्तिवासुदेवादेः पिण्डो राजपिण्डः, इदानीमुभयोरपि जिनयोः समानतानिगमनार्थमाह
पू. (८७६)
"जंसीलसमायरो अरहा तित्थंकरो महावीरो ।
तस्स्लसमायरी होति उ अरह महापउमे ।।"
वृ. 'जस्सील' गाहा, यौ शीलसमाचारौ स्वभावानुष्ठाने यस्य स यच्छीलसमाचारः तावेव शीलसमाचारौ यस्य स तथेति ॥
महापद्मजिनो हि महावीरवदुत्तरफाल्गुनीनक्षत्रजन्मादिव्यतिकर इति नक्षत्रसम्बन्धात्
नक्षत्रसूत्रं-
मू. (८७७) नव नक्खत्ता चंदस्स पच्छंभागा पं० (तं०)
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org