________________
स्थानं-९, - ॥१॥ "उद्देसिय साहुमाई ओमव्वय भिक्खवियरणंजंच।
__उद्धरियं भीसेउं तविउं उद्देसियं तं तु ।।" इति 'मीसजाए वत्ति गृहिसंयतार्थमुपस्कृततया मिश्रं जातं-उत्पन्न मिश्रजातं, यदाह
_ “पढमंचिय गिहिसंजय मीसं उवक्खडइ मीसगं तंतु॥" इति'अज्झोयरए'त्ति स्वार्थमूलाद्रहणे साध्वाधर्थं कणप्रक्षेपणमध्यवपूरकः, आह च
“सट्ठा मूलद्दहणे अज्झोयर होइ पक्खेवो॥" इति'पूईएत्ति शुद्धमपि कर्माधवयवैरपवित्री कृतं पूतिकं, उक्तं च
___“कम्मावयवसमेयं संभाविजइ जयं तु तंपूई ।।" इति- . 'कीए'त्ति द्रव्येण भावेन वा क्रीतं-स्वीकृतं यत्तक्रीतमिति, यतोऽभ्यधायि
__"दव्वाइएहिं किणणं साहूणट्ठाइ कीयं तु॥" इति'पामिच्छं' अपमित्यक-साध्वर्थमुद्धारगृहीतं, यतोऽभिहितम्
“पामिच्चं साहूणं अट्ठा उच्छिदिउं दियावेइ" इति'आच्छेध' बलाद्भृत्यादिसत्कमाच्छिद्य यत्सावमी साधवे ददाति, मणितं च
“अच्छेनं चाछिंदिय जं सामी भिच्चमाईणं" इति'अनिसृष्टं साधारणं बहूनामेकादिना अननुज्ञातं दीयमानं, आह च
___ "अणिसट्ठ सामन्नं गोट्ठियमाईण दयउ एगस्स" इति'अभ्याहृतं' स्वग्रामादिभ्य आहृत्य यद्ददाति, यतोऽवाचि
“सग्गमपरग्गामा जमाणियं अभिहडं तयं होई" इतिएषांशब्दार्थःप्रायः प्रकट एवेति, कान्तारभक्तादयआधाकामदिभेदाएव, तत्र कान्तारंअटवीतत्रभक्तं-भोजनंयत्साध्वाधर्थतत्तथा,एवं शेषाण्यपि, नवरंग्लानो-रोगोपशान्तयेयद्ददाति ग्लानेभ्यो वा यद्दीयते, तथा वईलिकामेघाडम्बरंतत्र हि वृष्टया भिक्षाभ्रमणाक्षमो भिक्षुकलोको भवतीति गृही तदर्थं विशेषतो भक्तं दानाय निरूपयतीति, प्रारधूर्णकाः-आगन्तुकाः भिक्षुका एव तदर्थंयभक्तंतत्तथा,प्राधूर्णकोवागृहीसयद्दापयतितदर्थं संस्कृत्यतत्तथा, मूलंपुनर्नवादीनां तस्य भोजनं तदेव वा भोजनं भुज्यत इति भोजनमितिकृत्वा, कन्दः-सूरणादिः फलं-त्रपुष्यादि बीजंदाडिमादीनां हरितं-मधुरतृणादिविशेषः, जीववधनिमित्तत्वाच्चैषां प्रतिषेध इति । ___'पंचमहब्बइए इत्यादिप्रथमपश्चिमतीर्थकराणां हि पञ्च महाव्रतानिशेषाणांमहाविदेहजानां चचत्वारीति पञ्चमहाव्रतिकः,एवंसहप्रतिक्रमणेन-उभयसन्ध्यमावश्यनकेन यः स तथा, अन्येषां तु कारणजात एव प्रतिक्रमणमिति, उक्तंच॥१॥ “सपडिक्कमणो धम्मो पुरिमस्स य पच्छि मस्स य जिनस्स।
मज्झिमयाण जिणाणं कारणजाए पडिक्कमणं ।।" इति, तथा अविद्यमानानि-जिनकल्पिकविशेषापेक्षया असत्त्वादेव स्थविरकल्पिकापेक्षया तु जीर्णमलिनखण्डितश्वेताल्पत्वादिना चेलानि-वस्त्राणि यस्मिन् स तथा धर्मः-चारित्रं, न च सति चेले अचेलता न लोके प्रतीता, यत उक्तम्
॥१॥ "जह जलमवगाहंतो वहुचेलोऽवि सिरवेढियकडिल्लो ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org