________________
५०८
स्थानाङ्ग सूत्रम् ९/-/८७५ केवलमसहायमत एव वरंज्ञानदर्शनंप्रतीतं केवलवरज्ञानदर्शनमिति अरह'त्ति अर्हन् अष्टविधमहाप्रातिहार्यरूपपूजायोगात् जिनो रागादिजेतृत्वात् केवली परिपूर्णज्ञानादित्रययोगात् सर्वज्ञः सर्वविशेषार्थबोधात् सर्वदर्शी सकलसामान्यार्थावबोधात् ततश्च सह देवैश्च-वैमानिकज्योतिकलक्षणैरामत्यैश्च-मनुजैरसुरैश्च-भवनपतिव्यन्तरलक्षणैर्यः स सदेवमासुरस्तस्य लोकःपञ्चास्तिकायात्मकस्तस्य परियागं'तिजातावेकवचनमितिपर्यायान-विचित्रपरिणामान् ‘जाणइ पासई'त्ति ज्ञास्यति द्रक्ष्यति चेत्यर्थः,
एतच्च देवादिग्रहणं प्राधानापेक्षमन्यथा सर्वजीवानां सर्वपर्यायान् ज्ञास्यति, अतएवाह'सव्वलोए' इत्यादि, 'चयणं'ति वैमनिकज्योतिष्कमरणं उपपातं-नारकदेवानांजन्मतर्क-विमर्श मना-चित्तंमनसि भवं मानसिकं-चिन्तितं वस्तु भुक्तमोदनादि कृतं घटादि प्रतिषेवितं-आसेवितं प्राणिवधादि आविष्कर्म-प्रकटक्रियारहःकर्म-विजनव्यापारंज्ञास्यतीत्यनुवर्तते, तथा अरहा' नविद्यते रहो-विजनंयस्य सर्वत्रत्वादसावरहाः,अतएव रहस्यस्य-प्रच्छन्नस्याभावोऽरहस्यं तद्भजते इत्यरहस्यभागी, तं तं कालं आश्रित्येति शेषः, सप्तमी वेयमतस्मतस्मिंस्तस्मिन् काल इत्यर्थः, 'मणसवयसकाइए'त्ति मानसश्च वाचसश्च कायिकश्च मानसवाचसकायिकं तत्र योगे-व्यापारे इस्वत्वं च प्राकृतत्वादिति, वर्तमानानां - व्यवस्थितानां सर्वभावान्-सर्वपरिणामान् जानन् पश्यन्विहरिष्यति, ‘अभिसमेच्च'त्ति अभिसमेत्य अवगम्य,
_ 'सभावणाइंति सहभावनाभिः पतिव्रतंपञ्चभिरीसिमित्यादिभिर्यानि तानिसभावनानि तासांच स्वरूपमावश्यकान्मन्तव्यंषड्जीवनिकायान्क्षणीयतया 'धम्म'तिएवंरूपंचारित्रात्मक सुगतौ जीवलस्य धारणाद् धर्मं श्रुतधर्मं च देशयन्-प्ररूपयनिति, अथ महापद्भस्यात्मनश्च सर्वज्ञत्वात्सर्वज्ञयोश्चमताभेदाभेदे चैकस्यायथावस्तुदर्शनेनासर्वज्ञताप्रसङ्गादित्युभयोर्भगवान् समां वस्तुप्ररूपणां दर्शयन्नाह
से जहे'त्यादि, 'से' इत्यथार्थो अथशब्दश्च वाक्योपन्यासार्थः यथेत्युपमानार्थः, 'नाम ए'त्ति वाक्यालङ्कारे 'अञ्जो'त्ति हे आर्याः शिष्यामन्त्रणं, 'एगे आरंभट्ठाणे'त्ति आरम्भ एव स्थानंवस्तु आरम्भस्थानमेकमेव, तत्तत्प्रमत्तयोगलक्षणत्वात् तस्य, ___यदाह-“सव्वो पमत्तजोगो समणस्स उ होइ आरंभो" इति, इतः शेषमावश्यके प्रायः प्रसिद्धमितिनलिखितं, तथा फलकं-प्रतलमायतंकाष्ठं-स्थूलमायतमेव लब्धानिचसन्मानादिनाऽपलब्धानि च न्यक्कारपूर्वकतया यानि भक्तादीनि तैर्वृत्तयो-निर्वाहा लब्धापलब्धवृत्तयः, 'आहाकम्मिएइवत्तिआधाय-आश्रित्य साधून कर्म-सचेतनस्याचेतनीकरणलक्षणाअचेतनस्य वा पाकलक्षणा क्रिया यत्र भक्तादौ तदाधाकर्म तदेवाधाकर्मिकम्, उक्तंच॥१॥ “सच्चित्तं जमवित्तं साहूणऽहाए कीरए जंच।
अच्चितमेव पच्चइ आहाकम्मं तयं भणियं ॥" इहचेकारः सर्वत्रागमिकः इतिशब्दोवाऽयमुपप्रदर्शनार्थपरोवा विकल्पार्थः, “उद्देसियंति अर्थिनः पाखण्डिनः श्रमणानिर्ग्रन्थान्वोद्दिश्य दुर्भिक्षात्ययादौ यद्भक्तं वितीर्यते तदौद्देशिकमिति, उद्देशेभवमौदेशिकमितिशब्दार्थः, यद्वातथैव यदुद्धरितंसदध्यादिभिर्विमिश्रय दीयते तापयित्वा वा तदपि तथैवेति, इहाभिहितम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org