________________
५०७
स्थानं - ९, - अरिहतो नव गणा एगारस गणधरा भविस्संति,
से जहानामते अज्जो! अहंतीसंवासाइंअगारवासमझे वसित्ता मुंडे भवित्ता जाव पव्वतिते दुवालस संवच्छराइं तेरस पक्खा छउमत्थपरियागं पाउणित्ता तेरसहिं पक्खेहिं ऊणगाई तीसं वासाइं केवलिपरियागं पाउणित्ता बायालीसं वासइंसामन्नपरियागं पाउणित्ता बावत्तरि वासाई सव्वाउयं पालइत्ता सिन्झिस्सं जाव सव्वदुक्खाणमंतं करेस्सं एवामेव महापउमेवि अरहा तीसं वासाइंअगारवासमझेवसित्ताजाव पविहिती दुवालस संवच्छाराइंजव बावत्तरिवासाइंसवाउयं पालाइत्ता सिग्झिहिती जाव सव्वदुक्खाणमंतं काहिती
वृ. 'नत्थी' त्यादि, नास्ति तस्य भगवतो महापद्भस्यायं पक्षः, यदुत कुत्रापि प्रतिबन्धःस्नेहो भविष्यतीति, 'अण्डए इव'त्ति अण्डजो-हंसादिः ममायमित्युल्लेखेन वा प्रतिबन्धो भवति, अथवा अण्डकं मयूर्यादीनामिदं रमणकं मयूरादेः कारणमिति प्रतिबन्धः स्यादित्यथवाऽण्डजं पट्टसूरजमिति वा, पोतजो हस्त्यादिरयमिति वा प्रतिबन्धः स्यात, अथवा पोतको बालक इति वा, अथवा पोतकंवस्त्रमिति वाप्रतिबन्धः स्यात्, आहारेऽपिचविशुद्धे सरागसंयमवतःप्रतिबन्धः स्यादिति दर्शयति
'उग्गहिए इव'त्ति अवगृहीतं-परिवेषणार्थमुत्पाटितं-प्रगृहीतं-भोजनार्थमुत्पाटितमिति, अथवाअवग्रहिकमिति-अवग्रहोऽस्यास्तीति वसतिपीठफलकादिः,औपग्रहिकंवा दण्डकादिकमुपधिजातं, तथा प्रकर्षेण ग्रहोऽस्येति प्रग्रहिकम-औधिकमुपकरणं पात्रादीनि, अथवा अण्डजे वा पोतजे वेत्यादि व्याख्येयमिकारस्त्वागमिक इति, 'जन्नं'ति यां यां दिशं णमिति वाक्यालङ्कारे तुशब्दोवा अयं तदर्थएव, इच्छति तदा विहर्तुमिति शेषः, तांतां दिशंसविहरिष्यतीतिसम्बन्धः, सप्तम्यर्था वेयं द्वितीया तस्यां तस्यामित्यर्थः शुचिभूतो भावशुद्धितो लधुभूतोऽनुपधित्वेन . गौरवत्यागेन च, _ 'अनुष्पग्गंथे'त्ति अनुरापतया-औचित्येन विरतेन त्वपुण्योदयादनुरपिवा-सूक्ष्मोऽप्यल्पोऽपि प्रगतो ग्रन्थो-धनादिर्यस्य यस्माद्वाऽसावनुप्रग्रन्थः अपेत्त्यन्तर्भूतत्वादनुप्रग्रन्थो वा अथवा 'अणुप्पत्ति अनर्यः अनर्पणीयः अढौकनीयः परेषामाध्यामिकत्वात् ग्रन्थवत्-द्रव्यवत् ग्रन्थोज्ञानादिर्यस्य सोऽनप्रयग्रन्थ इति, भावेमाणे'त्ति वासयन्नित्यर्थः, 'अनुत्तरेणं'तिनास्त्युत्तरं-प्रधानमस्मदित्यनुत्तरं तेन, ‘एव'मिति अनुत्तरेणेति विशेषमनुत्तरत्रापि सम्बन्धनीयमित्यर्थः,
_ 'आलयेन' वसत्या विहारेणैकरात्रादिना आर्जवादयः क्रमेण मयामानगौरवक्रोधलोभनिग्रहाः गुप्तिर्मनःप्रभृतीनां तथा सत्यं च-द्वीतयं महाव्रतं संयमश्च-प्रथमंतपोगुणाश्च अनशनादयः सुचरितं-सुष्ठासेवितं ‘सोचवियंति प्राकृतत्वाच्छौचं च-तृतीयं महाव्रतं, अथवा 'विय'त्ति विच्छ विज्ञानमितिद्वन्द्वस्ततश्चैतान्येवैताएव वा 'फल'त्ति फलप्रधानः परिनिर्वाणमार्गो-निवृतिनगरीपथः सत्यादिप-रिनिर्वाणमार्गस्तेन, ध्याननयोः-शुक्लध्यानद्वितीयतृतीयभेदलक्षणयोरनन्तरं-मध्यं ध्यानान्तरं तदेव ध्यानान्तरिका तस्यां वर्तमानस्य, शुक्लस्य द्वितीयाभेदादुत्तीर्णस्य तृतीयमप्राप्तस्येत्यर्थः,
अनन्तमनन्तविषयत्वात् अनुत्तरं सर्वोत्तमत्वात् निव्याघातंधरणीधरादिभिरप्रतिहतत्वात् निरावरणं सर्वावरणापगमात् कृत्स्नं सर्वार्थविषयत्वात् प्रतिपूर्ण स्वरूपतः पौर्णमासीचन्द्रवत्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org