________________
स्थानं - ९,
५०३ स तथ, ‘अञ्चंतविसुद्धदीहरायकुलवंसप्पसूए' अत्यन्तविशुद्धः सर्वथा निर्दोषः दीर्घश्च-पुरुषपरम्परापेक्षयायोराज्ञां-भूपालानांकुललक्षणोवंशः-सन्तानस्तत्र प्रसूतो-जातोयः स तथा 'निरन्तरं रायलक्खणविराइयंगुवंगे' नैरन्तर्येण राजलक्षणैः-चक्रस्वस्तिकादिभिर्विरजितन्यङ्गानिशिरःप्रभृतीन्युपाङ्गानिच-अङ्गुल्यादीनि यस्य सतथा, बहुजणबहुमाणपूइएसव्वगुणसमिद्धे खत्तिए मुदिए'त्तिप्रतीतं 'मुद्धाभिसित्ते' पितृपितामहादिभिर्मूईन्यभिषिक्तो यः स तथा, 'माउपिउसुजाए' सुपुत्रो विनीतत्वादिनेत्यर्थः, 'दयप्पत्ते' दयाप्राप्तो दयाकारीत्यर्थः सीमङ्करे-मर्यादाकारी सीमन्धरे' मर्यादां पूर्वपुरुषकृतां धारयति-नात्मनापि लोपयति यः स तथा खेमंकरो-नोपद्रवकारी खेमधरेक्षेमंधारयत्यन्तकृतमितियः सथा, 'माणुस्सिदे जणवयपिया' लोकपिता वत्सलत्वात्, 'जणवयपुरोहि' जनपदस्य पुरोधाः-पुरोहितः सान्तिकारीत्यर्थः, सेतुकरे' सेतु-मार्गमा पद्गतानां निस्तरणोपायं करोति यः स तथ, 'केतुकरे' चिन्हकरः अद्भुतकारित्वादिति, ‘नरपवरे' नरैः प्रवरः नरा वा प्रवरा यस्य स तथा,
'पुरिसवरे' पुरुषप्रधानः 'पुरिससीहे' शौर्यद्यदिकतया, 'पुरिसआसीविसे' शापसमर्थत्वात् 'पुरिसपुंडरीए' पूज्यत्वात् सेव्यत्वाच्च, 'पुरिसवरगंधहत्थी'शेषराजगजविजयित्वात्, ‘अड्डे' धनेश्वरत्वात् 'दित्तो' दर्पकत्वात् 'वित्ते' प्रसिद्धत्वात् 'विच्छिन्नविपुलभवणसयणासणजाणवाहणाइन्ने' पूर्ववत् 'बहुधणबहुजायरूवरयए आओगपओ गसंपउत्ते' आयोगप्रयोगा-द्रव्यार्जनोपायविशेषाः सम्प्रयुक्ताः-प्रवर्तिता येन सतथा, 'विच्छड्डियपुरभत्तपाणे बहुदासीदासगोमहिसगवेलगप्पभूए पडिपुन्नजंतकोसकोट्ठागारायुहागारे यन्त्राणि-जलयन्त्रादीनि कोशः-श्रीगृहं कोष्ठागारं धान्यागारं आयुधागार-प्रहरणकोशः 'बलवं' हस्त्यादिसैन्ययुक्तः 'दुब्बलपच्चमित्ते' अबलप्रातिवेशिकराजः, 'ओहयकंटयंनिहयकंटयंमलियकंटयंउद्धियकंटयंअकंटयं एवंओहयसत्तुं' उपहताराज्यापहारा निहता मारणान्मलितामानभञ्जनादुध्धृतादेशनिष्काशनात्कण्टका-दायादा यत्र राज्ये तत्तथा, अत एवाकण्टकं, एवं शत्रवोऽपि,
नवरंशत्रवस्तेभ्योऽन्ये, पराईयसत्तुं विजयवत्त्वादिति, ववगयदुभिक्खंमारिभयविप्पमुक्कं खेमं सिवं सुभिक्खं पसन्नडिंवडमरं' डिम्बानि-विघ्ना डमराणि-कुमारादिव्युत्थानादीनि, 'रजं पसासेमाणे'त्ति पालयन् ‘विहरिस्सइ'त्ति । 'दो देवा महद्धिया' इत्यत्र यावत्करणात् 'महज्झुइया महानुभागा महायसा महाबले'तिश्य, सेनाकम्मति सेनायाः-सेन्यस्य कर्म-व्यापारः शत्रुसाधनलक्षणः सेनाविषयं वा कर्म-इतिकर्तव्यतालक्षणं सेनाकर्म, पूर्णभद्रश्च-दक्षिणयक्षनिकायेन्द्रः माणिभद्रश्च-उत्तरयक्षणिकायेन्द्रः,
'बहवे राईसरे' त्यादि, राजा-महामाण्डलिकः स्वरो-युवराजो माण्डलिकोऽमात्यो वा, अन्ये च व्याचक्षते-अनिमाद्यप्राविधैश्वर्ययुक्त ईश्वर इति, तलवरः-परितुटनरपतिप्रदत्तपट्टबन्धभूषितो माडम्बिकः-छिन्नमडम्बाधिपः, कौटुम्बिकः-कतिपयकुटुम्बप्रभुरिभ्यः-अर्थवान्, स च किल यदीयपुञ्जीकृतद्रव्यराश्यन्तरितो हस्त्यपि नोपलभ्यत इत्येतावताऽर्थेनेति भावः, श्रेष्ठीश्रीदेवताध्यासितसवर्णपट्टभूषितोत्तमाङ्गः पुरज्येटो वणिक्, सेनापतिः-नृपतिनिरूपितो हस्त्यश्वरथपदातिसमुदायलक्षणायाः सेनायाः प्रभुरित्यर्थः, सार्थवाहकः-सार्थनायकः एतेषां द्वन्द्वः, ततश्च राजादयः प्रभृतिः-आदिर्येषां ते तथा, 'देवसेणे'त्ति देवावेव सेना यस्य देवाधिष्ठिता वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org