________________
५०२
स्थानाङ्ग सूत्रम् ९/-/८७२
वा व्यञ्जनं-मषतिलकादि गुणाः- सौभाग्यादयः अथवा लक्षणव्यञ्जनयोर्ये गुणस्तैरुपेतो लक्षणव्यअनगुणोपेतः, उववेओत्ति तु प्राकृतत्वाद्वर्णागमतः, अथवा उप अपेत इति स्तिते शकन्ध्यादिदर्शनकारलोप इत्युपपेत इति लक्षणव्यञ्जनगुणोपपेतस्तं, लक्षणच्यञ्जनस्वरूपमिदमुक्तम् - “मानुम्मानपमाणादि लक्खणं वंजणं तु मसमाई । सहजं च लक्खणं वंजणं तु पच्छा समुप्पन्नं ॥” इति,
11911
लक्षणमेवाधिकृत्य विशेषणान्तरमह - 'मानुम्मानं 'त्यादि, तत्र मानं जलद्रोणप्रमणता, सह्येवं जलभृते कुण्डे प्रमातव्यपुरुष उपवेश्यते, ततो यज्जलं कुण्डान्निर्गच्छति तद्यदि द्रोणप्रमाणं भवति तदा स पुरुषः मानोपपत्र इत्युच्यते, उन्मानं तुलारोपितस्यार्द्धभारप्रमाणत, प्रमाणंआत्माङ्गुलेनाष्टोत्तरशताङ्गुलोच्छ्रयता, उक्तं च
“जलदोण १ मद्धभारं २ समुहाई समुस्सिओ व जो नव उ ३ । मानुम्मानपमाणं तिविहं खलु लक्खणं एयं ॥” इति
ततश्च मानोन्मानप्रमाणैः प्रतिपूर्णानि सुष्ठु जातानि सर्वाण्यङ्गानि शिरःप्रभृतीनि यस्मिस्तत् तथाविधं सुन्दरमङ्गं-शरीरं यस्य स तथा तं मानोन्मानप्रमाणप्रतिपूर्णसुजातसर्वाङ्गसुन्दरङ्ग, तथा शशिवत्सौम्याकारं कान्तं-कमनीयं प्रियं-प्रेमावहं दर्शनं यस्य स शशिसौम्याकारकान्तप्रियदर्शनस्तं, अत एव सुरूपमिति दारकं प्रजनिष्यति भद्रेति सम्बन्धः, 'जं रयणि च'त्ति यस्यां च रजन्यां 'तं रयणिं च'त्ति तस्यं रजन्यां पुनरिति, अर्द्धरात्र एव च तीर्थकरोत्पत्तिरिति रजनीग्रहणं,
'से दारए पयाहिइ' त्ति स दारकः प्रजनिष्यते उत्पत्स्यत इति, 'सब्भितरबाहिरए' त्ति सहाभ्यन्तरेण बाह्यकेन च नगरभागेन यन्नगरं तत्र, सर्वत्र नगर इत्यर्थः, विशंत्या पलशतैर्भारो भवति अथवा पुरुषोत्क्षेपणीयो भारो भारक इति यः प्रसिद्धः अग्र-प्रमाणं ततो भार एवाग्रं भाराग्रं तेन भाराग्रेण भाराग्रशो-भारपरिमाणतः, एवं कुम्भाग्रशो, नवरं कुम्भ आढकषष्ठयादिप्रमाणतः, पद्मवर्षश्च रत्नवर्षश्च वर्षिष्यति भविष्यतीत्यर्थः, 'जाव' त्ति करणात् 'निव्वत्ते असुइजाइकम्मकरणे संपत्ते' त्ति ६श्यं, तत्र 'निवृत्ते' निर्वर्त्तित इत्यर्थः पाठान्तरतः निव्यत्ते वा निवृत्ते-उपरते अशुचीनांअमेध्यानां जातकर्म्मणां प्रसवव्यापाराणं करणे- विधाने सम्प्राप्ते - आगते 'बारसाहदिवसे 'त्ति द्वादशानां पूरण द्वादशः स एवाख्या यस्य स द्वादशाख्यः स चासौ दिवसश्चेति विग्रहः, अथवा द्वादशं च तदहश्च द्वादशाहस्तन्नामको दिवसो द्वादशाहदिवस इति,
119 11
'अयं' ति इदं वक्ष्यमाणतय प्रत्यक्षासन्नं 'एवारूवं' ति एतदेव रूपं स्वभावो यस्य न मात्रयापि प्रकरान्तरापत्रमित्यर्थः, किं तत् ? - नामधेयं प्रशस्तं नाम, किंविधम् ? -गौणं न पारिभाषिकं, गौणमित्यमुखमपि स्यादित्याह - 'गुणनिष्पन्नं' इति गुणानश्रित्य पद्मवर्षदीनिष्पन्नं गुणनिष्पनमित्यक्षरघटना, 'महापउमे महापउमे' त्ति तत्पित्रोः पर्यालोचनाभिलापानुकरणं, 'तए णं'ति पर्यलोचनानन्तरं ‘महापउम' इति महापद्म इत्येवंरूपं 'साइरेगढवासजायगं' ति सातिरेकाणिसाधिकान्यष्टौ वर्षाणि जातानि यस्य स तथा तं,
'रायवन्नाओ' त्ति राजवर्णको वक्तव्यः, स चायं - 'महयाहिमवन्तमहन्तमलयमंदरमहिंदसारे' महता- गुणसमूहेनान्तर्भूतभावप्रत्ययत्वाद्वा महत्तय हिमवांश्च-वर्षधरपर्वतविशेषः महांश्चासौ मलयश्च विन्ध्य इति चूर्णिकार : महामलयः स च मन्दरश्च-मेरुः महेन्द्रश्च शक्रादिः ते इव सारः - प्रधानो यः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org