________________
५०४
स्थानाङ्ग सूत्रम् ९/-1८७२
सेना यस्य स देवसेन इति, 'देवसेनाती ति देवसेन इत्येवंरूपं,
'सेते' त्यादिश्रेयान्-अतिप्रशस्यः श्वेतोवा कीगित्याह-शतलेन-कम्बुरूपेण विमलेनपङ्कादिरहितेन सन्निकाशः-सङ्काशः सध्शो यः स शङ्कतलविमलसन्निकाशः, 'दुरूढे'त्ति आरूढः 'समाणे'त्ति सन् ‘अतियास्यति' प्रवेक्ष्यति निर्यास्यति; निर्गमिष्यतीति, क्वचिद्वर्त्तमाननिर्देशो दृश्यते सच तत्कालापेक्ष इति, एवं सर्वत्र, 'गुरुमहत्तरएहिति गुर्योः-मातापित्रोर्महत्तराः-पूज्याः अथवा गौरवार्हत्वेन गुरवो महत्तराश्च वयसा वृद्धत्वाद्ये ते गुरुमहत्तराः 'पुनरवित्ति महत्तराभ्यनुज्ञानान्तरं लोकान्ते-लोकाग्रलक्षणे सिद्धस्थाने भवालोकान्तिकाः, भाविनिभूतवदुपचारन्यायेन चैवं व्यपदेशः,
अन्यथा ते कृष्णराजीमध्यवासिनो, लोकान्तभावित्वं च तेषामनन्तरभव एव सिद्धिगमनादिति, ‘जीतकल्पः' आचरितकल्पो जिनप्रतिबोधनलक्षणो विद्यते येषां ते जीतकल्पिकाः, आचरितमेव तेषामिदं न तु तैस्तीर्थकरः प्रतिवोध्यते, स्वयंबुद्धत्वाद्भगवत इति, 'ताहि'न्ति ताभिर्विवक्षिताभिः ‘वग्गूहिति वाग्भिर्यकाभिरानन्द उत्पद्यत इति भावः 'इष्टाभिः' इष्यन्ते स्म याः कान्ताभिः-कमनीयाभिः प्रियाभिः-प्रेमोत्पादिकाभिः, विरूपा अपि कारणवशात् प्रिया भवन्तीत्यत उच्यते-मनोज्ञाभिः-शुभस्वरूपाभिः मनोज्ञा अपि शब्दतोऽर्थतो न हृदयङ्गमा भवन्तीत्याह- ‘मणामाहिति मनः अमन्ति-गच्छन्ति यास्ताः तथा ताभिरूदारेण-उदात्तेन स्वरेण प्रयुक्तत्वादर्थेन वा युक्तत्वादुदाराभिः कल्यं-आरोग्यं अणन्ति-शब्दयन्तीति कल्याणास्ताभिः, शिवस्य-उपद्रवाभावस्य सूचकत्वाच्छिवाभिः धनं लभन्तेधने वा साधव्योधन्यास्ताभिः मङ्गलेदुरितक्षये साध्व्यो मङ्गल्यास्ताभिः सह श्रिया-वचनार्थशोभया यास्ताः सश्रीकास्ताभिः वाग्भिरिति सम्बन्धितं अभिनन्धमानः-समुल्लास्यमानः, 'बहिय'त्ति नगराद्वहिस्तादिति।
___ इतो वाचनानन्तरमनुश्रित्य लिख्यते-‘साइरेगाइन्ति अर्द्धसप्तमैर्मासैर्दावदशवर्षाणियावत् व्युत्सृष्टेकाये परिकर्मवर्जनतस्त्यक्ते देहे परीषहादिसहनस्तस्तथा सक्ष्यति उत्पत्स्यमानेषूपसर्गेषु भयाभावतः क्षमिष्यत्युत्पन्नेषु क्रोधाभावातः तितिक्षिष्यति दैन्याभावतः अध्यासिष्यते अविचलतयेति, 'जाव गुत्ते'त्तिकरणादिदं दृश्यं-'एसणासमिए आयाणभंडमत्तनिक्खेवणासमिए'भाण्डमात्राया आदाने निक्षेपे च समित इत्यर्थः, ‘उच्चारपासवणखेलसिंघाणजल्लपारिठावणियासमिए' खेलो-निष्ठीवनं सिंघाणो-नासिकाष्लेष्मा जल्लोमलः, 'मणगुत्ते वइगुत्ते कायगुत्ते' 'गुत्ते' गुप्तत्वाद् त्रिगुत्पात्मेत्यर्थः, 'गुत्तिदिए' स्वविषयेषु रागादिनेन्द्रियाणामप्रवृत्तेः, 'गुत्तबंभचारी' गुप्तं-नवभिर्ब्रह्मचर्यगुप्तिमी रक्षितं ब्रह्म-मैथुनविरमणं चरतीति विग्रहः,
तथा 'अममें अविद्यमानममेत्यभिलापो निरनुषङ्गत्वात् 'अकिंचणे'नास्ति किंचणं०-द्रव्यं यस्य स तथा, 'छिन्नग्रन्थे' छिन्नो ग्रन्थो-धनधान्यादिस्तप्रतिबन्धो वा येन स तथा, क्वचित् 'किनग्गन्थे' इति पाठस्तत्र कीर्णः-क्षिप्तः, 'निरुवलेवे' द्रव्यतो निर्मलदेहत्वातूभावतोबन्धहेत्वभावान्निर्गत उपलेपो यस्मादिति निरुपलेपः, एतदेवोपमानैरभिधीयते
'कंसपातीव मुक्कतोये' कांस्यपात्रीव-कांस्यभाजनविशेष इवमुक्तं त्यक्तं न लग्नमित्यर्थः तोयमिव बन्धहेतुत्वात्तोयं-स्नेहो येन स मुक्ततोयः यथा भावनायामाचाराङ्गद्वितीयश्रुतस्कन्धपञ्चदशाध्ययने तथा अयं वर्णको वाच्य इति भावः, कियडूरं यावदित्याह-'जाव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org