________________
स्थानं - ९,
-
४९९
सतते गाहावती ५ दारुते नितंठे ६ सती नितंठीपुत्ते ७ सावितबुद्धे अम्बडे परिव्वायते ८ अजाविणं सुपासा पासावचिजा ९ आगमेस्साते उस्सप्पिणीते चाउज्जामं धम्मं पत्रवतित्ता सिज्झिहिन्ति जाव अंतं काहिति ।
वृ. 'एस ण 'मित्यादि, तत्र 'एष' इति वासुदेवानां पश्चिमोऽनन्तरकालातिक्रान्त इति 'अज्जो' त्ति आमन्त्रणवचनं भगवान् महावीरः किल साधूनामन्त्रयति हे आर्या ! 'उदयो पेढालपुते त्ति सूत्रकृतद्वितीयश्रुतस्कन्धे नालन्दीयाध्ययनाभिहितः, तद्यथा- उदकनामाऽनगारः पेढालपुत्रः पार्श्वजिनशिष्यः, योऽसौ राजगृहनगरवाहिरिकाया नालन्दाभिधानायाः उत्तरपूर्वस्यां दिशि हस्तिद्वीपवनखण्डे व्यवस्थितः, तदेवादेशस्थं गौतमं संशयविशेषमापृच्छ्य विच्छिन्नसंशयः सन् चतुर्यामधर्मं विहाय पञ्चयामं धर्मं प्रतिपेदे इति । पोट्टिलशतकावनन्तरोक्तावेव ।
दारुकोऽनगारो वासुदेवस्य पुत्रो भगवतोऽरिष्टनेमिनाथस्य शिष्योऽनुत्तरोपपातिकोक्तचरित इति, तथा सत्यकिर्निर्ग्रन्थीपुत्रो यस्येध्शी वक्तव्यता-किल चेटकमहाराजदुहिता सुज्येष्ठाभिधाना वैराग्येण प्रव्रजिता उपाश्रयस्यान्तरातापयति स्म, इतश्च पेढालो नाम परिव्राजको विद्यासिद्धो विद्या दातुकामो योग्यपुरुषं गवेषयति यदि ब्रह्मचारिण्याः पुत्रो भवेत्ततः सुन्यस्या विद्या भवेयुरिति भावयंस्तां चातापयन्तीं दृष्ट्वा धूमिकाव्यामोहं कृत्वा बीजं निक्षिपतवान् गर्भः सम्भूतो दारको जातो, निर्ग्रन्थिकासमेतो भगवत्समवसरणं गतः तत्र च कालसन्दीपनामा विद्याधरो भगवन्तं वन्दित्वा पप्रच्छ- कुतो मे भयं ?,
स्वामी व्याकार्षीत्-एतस्मात्सत्यकेः, ततोऽसौ तत्समीपमुपागत्यावज्ञया तं प्रति बभाणअरे रे मां त्वं मारयिष्यसि ?, इति भणित्वा पादयोः पातितः, ततोऽन्यदा साध्वीभ्यः सकाशादपहृत्य पितृविद्याधरेण विद्याः ग्राहितो, अथ रोहिण्या विद्यया पञ्चसु पूर्वभवेषुमारितः, षष्ठभवे षण्मासावशेषायुषा तेनासौ नेथ, इह तु सप्तमे भवे सिद्धा, तल्ललाटे विवरं विधाय तच्छरीरमतिगता, ललाटच्छिद्रं च देवतया तृतीयमक्षि कृतं, तेन च स्वपिता स च कालसन्दीपो मारितः, विद्याधरचक्रवर्त्तित्वं च प्रापि, ततोऽसौ सर्वांस्तीर्थकरान् वन्दित्वा नाट्यं चोपदर्थ्याभिरमते स्मेति ।
तथा श्राविकां- श्रमणोपासिकां सुलसाभिधानां बुद्धः सर्वज्ञधर्मे भावितेयमित्यवगतवान् श्राविका वा बुद्धा ज्ञाता येन स श्राविका बुद्धः 'अंमडो' अंमडाभिधानः परिव्राजकविद्याधरश्रमणोपासकः, अयं चार्थः कथानकादवसेयः, तच्चेदं चम्पाया नगर्याः अम्बडो विद्याधरश्रावको महावीरसमीपे धर्म्ममुपश्रुत्य राजगृहं प्रस्थितः, स च गच्छन् भगवता बहुसत्त्वोपकाराय भणितः, - यथा सुलसाश्राविकायाः कुशलावार्त्ता कथये, स च चिन्तयामास पुण्यवतीयं यस्यास्त्रिलोकनाथः स्वकीयकुशलवात्तां प्रेषयति, कः पुनस्तस्य गुण इति तावत्सम्यक्त्वं परीक्षे, ततः परिव्राजकवेषधारिणा गत्वा तेन भणिताऽसौ - आयुष्मति ! धर्मो भवत्या भविष्यतीत्यस्मभ्यं भक्त्या भोजनं देहि, तया भणितम् - येभ्यो दत्ते भवत्यसौ ते विदिता एव, ततोऽसावाकाशविरचिततामरसासनो जनं विस्मापयते स्म, ततस्तं जनो भोजनेन निमन्त्रयामास, स तु नैच्छत्, लोकास्तं प्रपच्छ- कस्य भगवन् ! भोजनेन भागधेयवत्त्वं मासक्षपणपर्यन्ते संवर्द्धयिष्यति ?,
सप्रतिभणति स्म सुलसायाः, ततो लोकस्तस्या वर्द्धनकं न्यवेदयत्, यथा तव गेहे भिक्षुरयं बुभुक्षुः, तयाऽभ्यधायि किं पाखण्डिभिर- स्माकमिति, लोकस्तस्मै न्यवेदयत्, तेनापि व्यज्ञायि
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International