________________
४९८
स्थानाङ्ग सूत्रम् ९/-/८७०
शङ्खमभ्युवाच यदुतोपस्कृतं तदशनादि तद् गच्छामः श्रावकसमवायं भुञ्जमहेतदशनादि प्रतिजागृमः पाक्षिकपौषधं, तत उवाच शङ्खः - अहं हि पौषधिको नागमिष्यामीति, ततः पुष्कली गत्वा श्रावकाणां तत् निविवेद ते तु तदनु बुभुजिरे, शङ्खस्तु प्रातः पौषधमपारयित्यैव पारगतपादपद्मप्रणिपतनार्थं प्रतस्थौ, प्रणिपत्य च तमुचितदेशे उपविवेश, इतरेऽपि भगवन्तं वन्दित्वा धर्म्म च शअरुत्वा शङ्खान्तिकं गत्वा एवमूचुः सुष्ठु त्वं देवानांप्रिय ! अस्मान् हीलयसि, ततस्तान् भगवान् जगाद-मा भो यूयं शङ्ख हीलयत शङ्खो ह्यहीलनीयः, यतोऽयं प्रियधर्म्माढधर्म्मा च, तथा सुष्टिजागिरकां जागरित इत्यादि ६-७,
सुलसा राजगृहे प्रसेनजितो राज्ञः सम्बन्धिनो नागाभिधानस्य रथिकस्य भार्या बभूव, यस्याश्चरितमेवमनुश्रूयते - किल तया पुत्रार्थं स्वपतिरिन्द्रादीन् नमस्यन्नभिहितः - अन्यां परिणयेति, सच यस्तव पुत्रस्तेनेह प्रिये ! प्रयोजनमिति भणित्वा न तत् प्रतिपन्नवान्, इतश्च तस्याः शक्रालये सम्यक्त्वप्रशंसां श्रुत्वा तत्परीक्षार्थं कोऽपि देवः साधुरूपेणागतस्तं च वन्दित्वा बभाण-किमागमनप्रयोजनम् ?, देवोऽवादीत् तव गृहे लक्षपार्क तैलमस्ति तच्च मे वैद्येनोपदिष्टमिति तद्दीयतां, ददामीत्यभिगता गृहमध्ये अवतारयन्त्याश्च भिन्नं देवेन तद्भाजनं एवं द्वितीयं तृतीयं चेत्येवमखेदां दृष्ट्वा तुष्टो देवो द्वात्रिंशतं च गुटिका ददौ, एकैकां खादेर्द्वात्रिंशत्ते सुता भविष्यन्ति प्रयोजनान्तरे चाहं स्मर्त्तव्य इत्यभिधाय गतोऽसौ, चिन्तितं चानया-सर्वाभिरप्येक एव मे पुत्रो भूयादिति सर्वाः पीताः, आहूता द्वात्रिंशत्पुत्राः चर्द्धते स्म जठरमरतिश्च ततः कायोत्सर्गमकरोत् आगतो देवो निवेदितो व्यतिकरो विहितो महोपकारो जातो लक्षणवत् पुत्रगण इत्यदि ७,
तथा रेवती भगवत औषधदात्री, कथं १, किलैकदा भगवतो मेण्ढिकग्रामनगरे विहरतः पित्तज्वरो दाहबहुलो बभूव लोहितवर्चश्च प्रावर्त्तत, चातुर्वर्ण्य च व्याकरोति स्म यदुत गोशालकस्य तपस्तेजसा दग्धशरीरोऽन्तः षण्मासस्य कालं करिष्यतीति, तत्र च सिंहनामा मुनिरातापनाऽवसान एवममन्यत - मम धर्माचार्यस्य भगवतो महावीरस्य ज्वररोगो रुजति, ततो हा वदिष्यन्त्यन्यतीर्थिकाः यथा छद्भस्थ एव महावीरो गोशालकतेजोऽपहतः कालगत इति एवम्भूतभावनाजनितमान - सामहादुःखखेदितशरीरी मालुककच्छाभिधानं विजनं वनमनुप्रविश्य कुहुकुहेत्येवं महाध्वनिना प्रारोदीत् भगवांश्च स्थविरैस्तमाक्रायोक्तवान् -
हे सिंह ! यत्त्वया व्यकल्पि न तद्भावि, यत इतोऽहं देशोनानि षोडश वर्षाणि केवलिपर्यायं पूरयिष्यामि ततो गच्छ त्वं नगरमध्ये, तत्र रेवत्यभिधाननया गृहपतिपल्या मदर्थं द्वे कूष्माण्डफलशरीरे उपस्कृते, न च ताभ्यां प्रयोजनं तथाऽन्यदस्ति तद्गृहे परिवासितं मार्जाराभिधानस्य वायोर्निवृत्तिकारकं कुक्कुटमांसकं बीजपूरककटहमित्यर्थः, तदाहर, तेन नः प्रयोजनमित्येवमुक्तोऽसौ तथैव कृतवान्, रेवती च सबहुमानं कृतार्थमात्मानं मन्यमाना यथायाचित्तं तत्पात्रे प्रक्षिप्तवती, तेनाप्यानीय तद्भगवतो हस्ते विसृष्टं, भगवतापि वीतरागतयैवोदरकाष्टे निक्षिप्तं, ततस्तत्क्षणमेव क्षीणो रोगो जातः, जातानन्दो यतिवर्गो मुदितो निखिलो देवादिलोक इति । अनन्तरं ये तीर्थकरा भविष्यन्ति ते प्रकृताध्ययनानुपातेनोक्ता अधुना तु ये जीवाः सेत्स्यन्ति तथैव तानाह -
मू. (८७१) एस णं अजी ! कण्हे वासुदेव १ रामे वलदेवे २ उदये पेढालपुत्ते ३ पुट्टिले ४
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International