________________
स्थान - ९,
४९७ 'जाव गंधिलावइंमी'त्यत्रयावत्करणात् सुवप्रमहावप्रवप्रावतीकच्छावतीवल्गुसुवल्गुगंधिलेषु नव नवकूटानि प्रागिव दृश्यानीति।पुनः पक्ष्मादिविजयेषुषोडशस्वतिदिशति- 'एवंसव्वेसु' इत्यादिना, कूटानां सामान्य लक्षणमुक्तमिति विशेषार्थिना तुजम्बूद्वीपप्रज्ञप्तिर्निरूपणीया, एवं नीलवत्कूटानि एरवतकूटानिच व्याख्येयानीति।इयंकूटवक्तव्यतातीर्थकरैरुक्तेति प्रकृतावतारिणी जिनवक्तब्यतामाह -
मू.(८६९)पासेणंअरहापुरिसादानिए वज़रिसहनारातसंघयणे समचउरंस-संठाणसंठिते नव रयणीओ उद्धं उच्चत्तेणं हुत्था।
वृ. 'पासे'त्यादि सूत्रद्वयं कण्ठ्यं ।
मू. (८७०) समणस्सणं भगवतो महावीरस्स तित्थंसि नवहिं जीवेहिं तिथिगरनामगोते कम्मे निव्वतिते सेणितेणं सुपासेणं उदातिणा पोट्टिलेणं अनगारेणं दढाउणा संखेणं सततेणं सुलसाए साविताते रेवतीते ९।
वृ. नवर 'तित्थगरनामे'तितीर्थकरत्वनिबन्धनं नाम तीर्थकरनाम तच्च गोत्रंच-कर्मविशेष एवेत्येकवद्भावात् तीर्थकरनामगोत्रमिति अथवा तीर्थकरनामेति गोत्रं-अभिधानं यस्य तत्तीर्थकरनामगोत्रमिति,
. श्रेणिको राजा प्रसिद्धस्तेन १, एवं सुपावो भगवतो वर्द्धमानस्य पितृव्यः २, उदायी कोणिकपुत्रः, यः कोणिकेऽपक्रान्ते पाटलिपुत्रं नगरं न्यवीशित् यश्च स्वभवनस्य विवक्तदेशे पर्वदिनेष्वाहूय संविग्नगीतार्थसद्गुरूंस्तत्पर्युपासनापरायणः परमसंवेगरसप्रकर्षमनुसरन् सामायिकपौषधादिकं सुश्रमणोपासकप्रायोग्यमनुष्ठानमनुतिष्ठते एकदाच निशि देशनिर्धाटितरिपुराजपुत्रेण द्वादशवार्षिकद्रव्यसाधुनाकृतपौषधोपवासः सुखप्रसुप्तः कङ्कायःकर्तिकाकण्टकर्तनेन विनाशित इति ३,
पोट्टिलोऽनगारोऽनुत्तरोपपातिकाङ्गेऽधीतो हस्तिनागपुरनिवासी भद्राभिधानसार्थवाहीतनयो द्वात्रिंशद्भार्यात्यागी महावीरशिष्यो मासिक्या संलेखनया सर्वार्थसिद्धोपपन्नः महाविदेहात्सिद्धिगामी, अयंत्विह भरतक्षेत्रात् सिद्धिगामी गदित इति ततोऽयमन्यः सम्भाव्यत इति ४, ६ढग्युरप्रतीतः ५,
शङ्खशतकौ श्रावस्तीश्रावको, ययोरीशी वक्तव्यता-किल श्रावस्त्यां कोष्ठके चैत्ये भगवानेकदा विहरति स्म, शङ्खमादिश्रमणोपासकाश्चागतं भगवन्तं विज्ञाय वन्दितुमागताः, ततो निवर्तमानांस्तान् शङ्खः खल्वाख्यातिस्म-यथ भो देवानांप्रिया! विपुलमशनाद्युपस्कारयत ततस्तत्परिभुजानाः पाक्षिकं पर्व कुर्वाणा विहरिष्यामः, ततस्ते तप्रतिपेदिरे, पुनः शङ्खोऽचिन्तयत्-न
श्रेयो मेऽशनादि भुञानस्य पाक्षिकपौषधंप्रतिजाग्रतोविहर्तुश्रेयस्तु मे पौषधशालायांपौषधिकस्य मुक्ताभरणशस्त्रादेः शान्तवेषस्य विहर्तु, अथ स्वगृहे गत्वा उत्पलाभिधानस्वभार्याया वार्ता निवेद्य पौषधशालायां पौषधमकार्षीत, इतश्चतेऽशनाद्युपस्कारयांचक्रुः एकत्रचसमवेयुः शङ्ख प्रतीक्षमाणास्तस्थुः, ततोऽनागच्छति शर्के पुष्कलीनामा श्रमणोपासकः शतक इत्यपरनामशङ्खस्याकारणार्थं तद्गृहं जगाम, गतस्य चोत्पला श्रावकोचितप्रतिपत्तिं चकार, ततः पौषधशालायंस विवेश, ईपिथिकी प्रतिचक्राम, 13 [32]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org