SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ ४९४ स्थानाङ्ग सूत्रम् ९/-1८४५ मू.(८४५) भद्दे सुभद्दे सुजाते सोमनसे पितदरिसणे। सुदंसणे अमोहे य सुष्पबुद्धे जसोधरे। वृ. अनन्तरं ग्रैवेयकविमानानि उक्तानि, तद्वासिनश्चायुष्मन्तो भवन्तीत्यायुः परिमाणभेदानाह मू.(८४६) नवविहे आउपरिणामेयं० तं०-गतिपरिणामे गतिबंधणपरिणामे ठिइपरिणाम ठितिबंधणपरिणामेउड्ढंगारवपरिणामे अहेगारवपरिणामेतिरितंगारवपरिणामेदीहंगारवपरिणामे रहस्संगारवपरिणामे। वृ. 'नवविहे'त्यादि, 'आउपरिणामे'त्तिआयुषः-कर्मप्रकृतिविशेषस्यपरिणामः-स्वभावः शक्ति धर्म इत्यायुःपरिणामः, तत्र गतिर्देवादिका तां नियतां येन स्वभावेनायुर्जीवं प्रापयति स आयुषो गतिपरिणामः १, तथा येनायुःस्वभावेन प्रति नियतगतिकर्मबन्धो भवति यथा नारकायुःस्वभावेन मनुष्यतिर्यग्गतिनामकर्म बघ्नाति नदेवनरकगतिनामकर्मेति स गतिबन्धनपरिणामः २, तथा आयुषोयाअन्तर्मुहूर्तादित्रयस्त्रिंशसागरोपमान्ता स्थितिर्भवति सा स्थितिपरिणामः३, तथा येन पूर्वभवायुःपरिणामेन परभवायुषो नियतां स्थितिं बघ्नाति स स्थितिबन्धनपरिणामः, यथा तिर्यगायुःपरिणामेन देवायुष उत्कृष्टतोऽप्यष्टादश सागरोपमाणीति ४ तथा येनायुःस्वभावेन जीवस्योर्ध्वदिशिगमनशक्तिलक्षणः परिणामोभवति सऊर्ध्वगौरवपरिणामः, इह गौरवशब्दोगमनपर्यायः ५, एवमितरौ द्वाविति ६-७, तथा यतआयुःस्वभावाञ्जीवस्य दीर्घदीर्घगमनतया लोकान्तात् लोकान्तं यावद् गमनशक्तिर्भवति स दीर्घगौरवपरिणामः ८, एवं च यस्माद्धस्वंगमनंसहस्वगौरवपरिणामः, सर्वत्र प्राकृतत्वादनुस्वार इति, अन्यथाप्यूह्यमेतदिति९ मू. (८४७) नवनवमिता णं भिक्खुपडिमा एगासीते रातिदिएहिं चउहि य पंचुत्तरेहि भिक्खासतेहि अधासुत्ता जाव आराहिता तावि भवति। वृ.अनन्तरमायुःपरिणाम उक्तः, तत्रैव चायुः-परिणामविशेषे सतितपःशक्तिर्भवतीति तपोविशेषाभिधानायाह - 'नवनवमिए'त्यादि कण्ठ्यं, नवरं नव नवमानि दिनानि यस्यां सा नवनवमिका नवनवमानि च भवन्ति नवसु नवकेष्विति तत्परिमाणेयमिति, नव च नवकान्येकाशीतिरितिकृत्वा एकाशीत्या रात्रिन्दिवैः-अहोरात्रैर्भवति, तथा प्रथमनवके प्रतिदिनमेका दत्तिः पानकस्य भोजनस्य चेत्येवमेकोत्तरया वृध्या नवमे नवके नव नव दत्तयः, ततश्च सर्वसङ्कलनया चतुर्भिश्च पञ्चोत्तरैर्भिक्षाशतैर्यथासूत्रं यथाकल्पं यथामार्ग यथातत्त्वं सम्यक्कायेन स्पृष्टा पालिता शोभिता तीरिता कीर्तिता आराधिता चापि भवतीति। मू. (८४८) नवविधे पायच्छित्ते पं० - आलोयणारिहे जाव मूलारिहे अनवठप्पारिहे। वृ.इयंचजन्मान्तरकृतपापकर्मप्रायश्चित्तमिति प्रायश्चित्तनिरूपणसूत्र, तच गतार्थमिति प्रायश्चित्तं च भरतादिक्षेत्रेष्वेवेति तद्गतवस्तुविशेषप्रतिपादनाय जंबूदीवेत्यादि एरवए कूडनामाई' इत्येतदन्तं सूत्रप्रपञ्चमाह मू. (८४९) जंबूमंदरदाहिणेणं भरहे दीहवेतड्ढे नव कूडा पं० (तं०) वृ. सुगमश्चायं, नवरं भरतग्रहणं विजयादिव्यवच्छेदार्थं दीर्घग्रहणं वर्तुलवैताढ्यव्यवच्छेदार्थमिति.। For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy