________________
४९०
स्थानाङ्ग सूत्रम् ९/-/८२२ चेति, तथा शिल्पशतं कालनिधौ वर्तते, शिल्पशतं च घट १ लोह २ चित्र ३ वस्त्र ४ नापित ५ शिल्पानांप्रत्येक विंशतिभेदत्वादिति, तथा कर्माणि च कृषिवाणिज्यादीनि कालनिधाविति प्रक्रमः, एतानि च त्रीणि कालज्ञानशिल्पकर्माणि प्रजाया:-लोकस्य हितकराणि निर्वाहाभ्युदयहेतुत्वेनेति
मू. (८२३) लोहस्स य उप्पत्ती होइ महाकालि आगाराणं च ।
रुप्पस्स सुवन्नस्स य मणिमोत्तिसिलप्पवालाणं॥ वृ. 'लोह'गाहा, लोहस्य चोत्पत्तिर्महाकाले निधौ भवति-वर्तते, तथा आकराणां च लोहादिसत्कानामुत्पत्तिराकरीकरणलक्षणा, एवं रूप्यादीनामुत्पत्तिः सम बन्धनीया केवलं मणयःचन्द्रकान्तादयः मुक्तामुक्ताफलानि शिलाः-स्फटिकादिकाः प्रवालानि-विद्रुमाणीति७ । मू. (८२४) जोधाण य उप्पत्ती आवरणाणं च पहरणाणं च ।
सव्वा य जुद्धनीती माणवते दंडनीति य॥ वृ. 'जो' गाहा योधानां-शूरपुरुषाणां योत्पत्तिरावरणानां-सन्नाहानांप्रहरणानां-खगादीनां सा युद्धनीतिश्च-व्यूहरचनादिलक्षणा माणवके निधौ निधिनायके वा भवति, ततः प्रवर्तत इति भावः, दण्डेनोपलक्षिता नीतिर्दण्डनीतिश्च-सामादिश्चतुर्विधा, अत एवोक्तमावश्यके- सेसा उ दंडनीई माणवगनिहीउ होइ भरहस्स'त्ति ८। मू. (८२५) नट्टविही नाडगविही कव्वस्स चउव्विहस्स उप्पत्ती।
संखे महानिहिम्मी तुडियंगाणं च सव्वेसि ।। वृ. 'नट्ट गाहा, नाट्यं नृत्यम्, तद्विधिः-तत्करणप्रकारः, नाटकं-चरितानुसारि नाटकलक्षणोपेतं तद्विधिश्च, इह पदद्वये द्वन्द्वः तथा काव्यस्य चतुर्विधस्य धर्मार्थकाममोक्षलक्षणपुरुषार्थप्रतिबद्धग्रन्थस्य १ अथवा संस्कृतप्राकृतापभ्रंशसङ्कीर्णभाषानिबद्धस्य २ अथवा समविषमार्द्धसमवृत्तबद्धतया गद्यतयाचेति ३अथवा गद्यपद्यगेयवर्णपदभेदबद्धस्येति उत्पत्तिःप्रभवः शङ्के महानिधौ भवति, तथा तूर्याङ्गाणां च-मृदङ्गादीनां सर्वेषामिति ९। मू. (८२६) चक्कट्ठपइट्ठाणा अदुस्सेहा य नव य विक्खंभे।
बारसदीहा मंजूससंठिया जह्नवीई मुहे ।। वृ.'चक्क गाहा, चक्रेष्वष्टासुप्रतिष्ठानं प्रतिष्ठा-अवस्थानं येषांते तथा, अष्टौ योजनान्युत्सेधःउच्छ्रयो येषांतेतथा, नव योजनानीति गम्यते विष्कम्भे-विस्तरे निधय इतिशेषः, द्वादशयोजनानि दीर्घा मञ्जूषाः-प्रतीताः तत्संस्थिताः-तत्संस्थानाः, जाह्नव्याः-गङ्गाया मुखे भवन्तीति । मू. (८२७) वेरुलियमणिकवाडा कणगमया विविधरयणपडिपुना।
ससिसूरचक्कलक्खणअनुसमजगबाहृवतणात॥ वृ. 'वेरुलिय'गाहा, वैडूर्यमणिमयानि कपाटानि येषां ते तथा, मयशब्दस्य वृत्त्या उक्तार्थतेति, कनकमयाः-सौवर्णा विविधरत्नप्रतिपूरणाः प्रतीतं शशिसूरचक्राकाराणि लक्षणानिचिहानि येषां ते तथा अनुसमाः-अनुरूपा अविषमाः 'जुग'त्ति यूपः तदाकारा वृत्तत्वाद्दीर्घत्वाच्च बाहवो-द्वारशाखा वदनेषु-मुखेषु येषां ते तथा ततः पदत्रयस्य कर्मधारये शशिसूरचक्रलक्षणानुसमयुगबाहुवदना इति, चः समुच्चये।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org