________________
४८९
स्थानं-९,ततइत्यर्थः, निवेशाः-स्थापनानि अभिनवग्रामादीनामिति,अथवाचक्रवर्तिराज्योपयोगीनिद्रव्याणि सर्वाण्यपि नवसुनिधिष्ववतरन्ति, नव निधानतया व्यवहियन्त इत्यर्थः, तत्र ग्रामादीनमभिनवानां पुरातनानां च ये सन्निवेशा-निवेशनानि ते नैसर्पनिधौ वर्तन्ते, नैसर्पनिधितया व्यवड़ियन्त इति भावः, तत्र ग्रामो-जनपदप्रायलोकाधिष्ठितः आकरो-यत्र सनिवेशे लवणाधुत्पद्यते, न करोयत्रास्ति तन्नकरं पत्तनं-देशीस्थानं द्रोणमुखं-जलपथस्थलपथयुक्तं मडंब-अविद्यमानप्रत्यासन्नवसिमं स्कन्धावारः-कटकनिवेशो गृह-भवनमिति १।। मू. (८१८) गणियस्स य बीयाणं मानुम्मानुस्स जं पमाणं च ।
धन्नस्स य बीयाणं उप्पत्ती पंडुते भणिया ।। वृ. 'गणित' गाहा, गणितस्य-दीनारादिपूगफलादिलक्षणस्य, चकारस्य व्यवहितः सम्बन्धः सच दर्शयिष्यते, तथा बीजानां-तनिबन्धनभूतानांतथा मानं सेतिकादितद्विषयं यत्तदपि मानमेव धान्यादिमेयमितिभावः, तथोन्मानं तुलाकर्षादितद्विषयं यत्तदप्युन्मानंखण्डगुडादिधरिममित्वर्धः, ततो द्वन्द्वसमाहारः कार्यस्ततस्तस्यच, किमित्याह-यप्रमाणं, चकारो व्यवहितसम्बन्ध एव, तथैव दर्शयिष्यते, तत्पाण्डुके भणितमिति लिङ्गपरिणामेन सम्बन्धः, तथा धान्यस्य-व्रीह्यादे/जानां च-तद्विशेषाणामुत्पत्तिश्चयासा पाण्डुके-पाण्डुकनिधिविषया, तद्वयापारोऽयमितिभावो, भणिताउक्ता जिनादिभिरिति २। मू. (८१९) सव्वा आभरणविही पुरिसाणं जा य होइ महिलाणं।
आसाण य हत्थीण य पिंगलगनिहिमि सा भणिया ।। वृ. 'सव्वा' गाहा कण्ठ्या ३।। मू. (८२०) रयणाई सव्वरयणे चोद्दस पवराइं चक्कवट्टिस्स।
उप्पजंति एगिंदियाइं पंचिंदियाइं च ॥ वृ. 'रयण' गाहा, अक्षरघटनैवं-रत्नान्येकेन्द्रियाणि चक्रादीनि सप्त पञ्चेन्द्रियाणि सेनापत्यादीनि सप्त उत्पद्यन्ते-भवन्ति यानि चक्रवर्तितनस्तानि सर्वाणि सर्वरत्ने' सर्व्वरत्ननामनि निधौ द्रष्टवयानीति ४। मू. (८२१) वत्थाण य उप्पत्ती निप्पत्ती चेव सव्वभत्तीणं।
रंगाण य घोयाण स सव्वा एसा महापउमे ।। वृ. 'वत्थाणं गाहा, वस्त्राणांवाससांयोत्पत्तिः सामान्यतोयाच विशेषतो निष्पत्तिः-सिद्धिः सर्वभक्तीना-सर्ववस्त्रप्रकाराणां सर्वा वा भक्तयः-प्रकारा येषां तानि तथा तेषां, किंभूतानां वस्त्राणामित्याह-रङ्गाणां-रङ्गवतां रक्तानामित्यर्थः,धौतानां-शुद्धस्वरूपाणां, सर्वैवैषा महापद्धेमहापद्भनिधिविषया ५। मू. (८२२) काले कालन्नाणं भव्वपुराणं च तीसु वासेसु ।
सिप्पसतं कम्माणि य तिन्नि पयाए हियकराई।। वृ. 'काले गाहा, 'काले' कालनामनि निधौ ‘कालज्ञानं' कालस्य शुभाशुभरूपस्य ज्ञानं वर्त्तते, ततो ज्ञायत इत्यर्थः, किम्भूतमित्याह-भाविवस्तुविषयं भव्यं पुरातनवस्तुविषयं पुराणं, चशब्दावर्त्तमानवस्तुविषयं वर्तमानं, तीसुवासेसुत्ति अनागतवर्षत्रयविषयमतीतवर्षत्रयविषयं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org