________________
स्थानाङ्ग सूत्रम् २/१/५६
(स्थान-२) वृ.व्याख्यातमेकस्थानकाख्यंप्रथममध्ययनं, अतःसङ्ख्याक्रमसम्बद्धमेव द्विस्थानकाख्यं द्वितीयमध्ययनमारभ्यते, अस्यचायं विशेषसम्बन्धनः-इह जैनानां सामान्यविशेषात्मकं वस्तु, तत्र सामान्यमाश्रित्य प्रथमाध्ययने आत्मादिवस्त्वेकत्वेन प्ररूपितमिह तु विशेषाश्रयणात् तदेव द्विविधत्वेन प्ररूप्यत इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराण्युपक्रमादीनि भवन्ति।
स्थान-२ उद्देशक-१:तानिच प्रथणाध्ययनवत्, द्रष्टव्यानियस्तु विशेषः सस्वबुध्याऽवगन्तव्यः, केवलमस्य चतुरुद्देशकात्मकस्याध्ययनस्य सूत्रानुगमे प्रथमोद्देशकादिसूत्रमिदमुच्चारणीयम् -
मू. (५७) जदस्थिणं लोगे तं सब्वं दुपओआरं, तंजहा -जीवच्चेव अजीवघेव । तसे चैव थावरे चेव १, सजोणियच्चेवअजोणियचेव२, साउयच्चेव अणाउयचेव ३, सइंदियचेव, अणिदिए चैव ४ सवेयगा चेव अवेयगाव ५, सरूवि चेव अरूविचेव ६, सपोग्गला चेवअपोग्गला चेव ७, संसारसमावनगा चेव असंसारसमावनगा चेव ८, सासया चेव असासया चेव ९,
वृ.अस्य च पूर्वसूत्रेण सहायं सम्बन्धः-पूर्वं ह्युक्तम् ‘एकगुणरूक्षाः पुद्गलाः अनन्ताः' तत्र किमनेकगुणरूक्षा अपिपुद्गला भवन्तियेन ते एकगुणरूक्षतया विशिष्यन्तइति?, उच्यते, भवन्त्येव,यतो 'जदत्थी' त्यादि, परम्परसूत्रसम्बन्धस्तु-'श्रुतंमयाऽऽयुष्मता भगवतैवमाख्यातमेक आत्मे'त्यादि, तथेदमपरमाख्यातं 'जदत्थी'त्यादि, संहितादिचर्चः पूर्ववत्, 'यद्',जीवादिकंवस्तु 'अस्ति विद्यते, णमितिवाक्यालङ्कारे, क्वचित्पाठो जदत्थिं चणं ति, तत्रानुस्वार आगमिकश्चशब्दः पुनरर्थः एवंचास्यप्रयोगः-अस्त्यात्मादि वस्तु, पूर्वाध्ययनप्ररूपितत्वाद्, यच्चास्ति लोके पञ्चास्तिकायात्मके लोक्यते-प्रमीयत इति लोक इति व्युत्पत्त्या लोकालोकरूपे वा तत् 'सर्वं' निरवशेष द्वयोः पदयोः-स्थानयोः पक्षयोर्विवक्षितवस्तुतद्विपर्ययलक्षणयोरवतारो यस्य तद् द्विपदावतारमिति, 'दुपडोयारं'ति क्वचित् पठ्यते, तत्र द्वयोः प्रत्यवतारो यस्य तत् द्विप्रत्यवतारमिति, स्वरूपवत् प्रतिपक्षवचेत्यर्थः, 'तद्यथे'त्युदाहरणोपन्यासे,
'जीवच्चेवअजीवच्छेद'त्ति, जीवाश्चैवाजीवाश्चैव, प्राकृतत्वात्संयुक्तपरत्वेन ह्रस्वः, चकारी समुच्चयार्थी, एवकाराववधारणे, तेन च रास्यन्तरापोहमाह, नोजीवाख्यं राश्यन्तरमस्तीति चेत्, नैवम्, सर्वनिषेधकत्वे नोशब्दस्य नोजीवशब्देनाजीव एव प्रतीयते, देशनिषेधकत्वे तु जीवदेश एवप्रतीयते, नचदेशोदेशिनोऽत्यन्तव्यतिरिक्तइतिजीवएवासाविति, 'चेय' इति वा एवकारार्थः 'चियचेय एवार्थ' ति वचनात्, ततश्च जीवा एवेति विवक्षितवस्तु अजीवा एवेतिच तत्प्रतिपक्ष इति, एवं सर्वत्र, अथवा 'यदस्ति' अस्तीति यत् सन्मात्रं यदित्यर्थः तद् द्विपदावतारं-द्विविधं, जीवाजीवभेदादिति, शेषं तथैव ।
अथ त्रसेत्यादिकया नवसूत्र्या जीवतत्त्वस्यैव भेदान् सप्रतिपक्षानुपदर्शयति - 'तसे चेवे'त्यादि, तत्र त्रसनामकर्मोदयस्त्रस्यन्तीतित्रसाः-द्वीन्द्रियादयःस्थावरनाकर्मोदयात् तिष्ठन्तीत्येवंशीलाः स्थावराः-पृथिव्यादयः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org