SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ स्थानं १, - उद्देशक: ४५ इत्यत ऐहिकामुष्मिकफलार्थिना क्रियैव कार्येति । जिनमते तु नानयोः प्रत्येकं पुरुषार्थसाधनता, यत उक्तमू 119 11 119 It "हयं नाणं कियाहीणं, हया अन्नाणओ किया। पासंतो पंगुली दड्डी, धावमाणो य अंधओ ।" त्ति, - संयोग एव चानयोः फलसाधकत्वं यत उक्तम् - "संजोगसिद्धीइ फलं वयंति, नहु एगचक्केण रहो पयाइ । अंधीय पंगू यवणे समिच्चा, ते संपउत्ता नगरं पविट्ठा ॥” इति ॥ - भाष्यकृताऽप्युक्तम् 11911 "नाणाहीणं सव्वं नाणणओ भणति किं च किरियाए ? | किरियाए करणनओ तदुभयगाहो य सम्ममत्तं ।” त्ति, अथवा सप्तापि नैगमादयः सामान्यनये विशेषनये चान्तर्भवन्ति, तत्र सामान्यनयः प्रकान्ताध्ययनोक्तानामात्मादिपदार्थानामेकत्वमेवाभिमन्यते, सामान्यवादित्वात् तस्य, स हि ब्रूतेएकं नित्यं निरवयवं निष्क्रियं सर्वगं च सामान्यमेवास्ति, न विशेषो, निःसामान्यत्वात्, इह यन्निसामान्यं तन्त्रास्ति यथा खरविषाणं, यच्चास्ति न तन्निःसामान्यं यथाघटइति, तथा सामान्यादन्येऽनन्ये वा विशेषाः प्रतिपद्येरन् ?, यद्न्ये ननूक्तमसन्तस्ते निः सामान्यत्वात् खपुष्पवत्, अथानन्ये तदा सामान्यमात्रमेव, तत्र वा विशेषोपचारः, न चोपचारेणार्थतत्त्वं चिन्त्यत इति आआह च - “एक्कं निच्चं निरवयवमक्कियं सव्वगं च सामन्नं । निस्सामन्नत्तओ नत्थि विसेसो खपुष्पं व ॥ 11911 ॥२॥ तथा - सामन्नाओ विसेसो अन्नोऽनन्नो व होज ? जइ अन्नो । सोनत्थि खपुष्कं पिवन्नो सामन्नमेव तयं ॥" ति, तदेवं सामान्यनयाभिप्रायेणात्मादीनामेकत्वमेव । विशेषनयमतेन तु तेषामनेकत्वमेव, स हि ब्रूते-विशेषेभ्यः सामान्यं भिन्नमभिन्नं वा स्यात् ?, न भिन्नमत्यन्तानुपलम्भात् खपुष्पवत्, तथा-न सामान्यं विशेषेभ्यो भिन्नमस्ति, दाहपाकस्नानपानावगाहवाहदोहादिसर्वसंव्यवहाराभावात् खरविषाणवत्, अथाभिन्नं तदा विशेषमात्रं वस्तु न नाम सामान्यमस्ति तेषु वा सामान्यमात्रोपचार इति, न चोपचारेणार्थतत्त्वं चिन्तयत इति, आह च - 11911 "न विसेसत्थंतरभूयमत्थि सामन्नमाह ववहारो । उवलंभव्ववहाराभावाओ खरविसाणं व ।।" इति, तदेवमात्मादीनामनेकत्वमेवेति । ननु पक्षद्वयेऽपि युक्तिसम्भवात् किं तत्त्वं प्रतिपत्त व्यमिति ?, उच्यते, स्यादेकत्वं स्यादनेकत्वमिति, तथाहि समविषयरूपत्वाद्वस्तुनः समरूपापापेक्ष्या एकत्वं विषमरूपापेक्ष्या त्वनेकत्वमिति, उक्तञ्च - 11911 “वस्तुन एव समानः परिणामो यः स एव सामान्यम् । विपारीतास्तु विशेषा वस्त्वेकमनेकरूपं तद् ॥” इति ॥ स्थानं-१ - समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता अमयदेवसूरिविरचिता स्थानाङ्गसूत्रे प्रथमस्थानस्य टीका परिसमाप्ता । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy