________________
४८५
स्थानं -९,. इत्येवंविधप्रमाणातिक्रमेणाहारकः-अभ्यवहर्ता 'सदा' सर्वदा भवति, खाद्यस्वाद्योरुत्सर्गतो यतीनामयोग्यत्वात्पानभोजनयोर्ग्रहणमिति ६ नोपूर्वरतं'नो गृहस्थावस्थायांस्त्रीसम्भोगानुभवनं तथा 'पूर्वक्रीडितं तथैव द्यूतादिरमणलक्षणं 'स्मर्ता चिन्तयिता भवति ७ 'नो शब्दानुपाती'ति शब्द-मन्मनभाषितादिकमभिष्वङ्गहेतुमनुपतति-अनुसरतीत्येवंशीलः शब्दानुपाती एवं रूपानुपाती श्लोकं ख्यातिमनुपततीति श्लोकानुपातीति पदत्रयेणाप्येकमेव स्थानकमिति ८
'नो सातसौख्यप्रतिबद्ध' इति सातात्-पुण्यप्रकृतेः सकाशाद्यत्सौख्यं-सुखं गन्धरसस्पर्शलक्षणंविषयसम्पाद्यंतत्र प्रतिबद्धः-तत्परोब्रह्मचारी, सातग्रहणादुपशमसौख्य प्रतिबद्धतायां न निषेधः, वापीति समुच्चये, भवति ९ ।
उक्तविपरीताः अगुप्तयोऽप्येवमेवेति।
उक्तरूपं नवगुप्तिसनाथं च ब्रह्मचर्यं जिनैरभिहितमिति जिनविशेषौ प्रकृताध्ययनावतारद्वारेणाह
मू.(८०३) अभिणदणाओ नंअरहओ सुमती अरहा नवहिं सागरोवमकोडीसयसहस्सेहि विक्कतेहिं समुप्पन्ने।
वृ. 'अभिनंदणे त्यादि कण्ठ्यं अभिनन्दनसुमतिजिनाभ्यांच सद्भूताः पदार्थाः प्रपितास्ते च नवेति तान् दर्शयन्नाह- .
(८०४) नव सब्भावपयत्या पं० तं०-जीवा अजीवा पुण्णं पावो आसवो संवरो निजरा बंधो मोक्खो ९।
वृ. 'नवसमावे'त्यादि, सद्भावेन-परार्थेनानुपचारेणेत्यर्थः पदार्थावस्तूनि सद्भावपदार्थाः, तद्यथा-जीवाः सुखदुःखज्ञानोपयोगलक्षणाः, अजीचास्तद्विपरीताः, पुण्य-शुभप्रकृतिरूपं कर्म पाप-तद्विपरीतं कर्मैव आश्रूयते-गृह्यते कर्मानेनेत्याश्रवः शुभाशुभकर्मादानहेतुरितिभावः, संवरःआश्रवनिरोधो गृप्त्यादिभिः, निर्जरा विपाकात् तपसा वा कर्मणां देशतः क्षपणा, बन्धःआश्रवैरात्तस्य कर्मण आत्मना संयोगः, मोक्षः-कृत्स्नकर्मक्षयादात्मनः स्वात्मन्यवस्थानमिति, ननुजीवाजी-वव्यतिरिक्ताः पुण्यादयो नसन्ति, तथाऽयुज्यमानत्वात्, तथाहि-पुण्यपापेकर्मणी बन्धोऽपि तदात्मक एव कर्म च पुद्गलपरिणामः पुद्गलाश्चाजीवा इति, आश्रवस्तु मिथ्यादर्शनादिरूपः परिणामो जीवस्य, स चात्मनं पुद्गलांश्च विरह्य कोऽन्यः ?, संवरोऽप्याश्रवनिरोधलक्षणो देशस- भेद आत्मनः परिणामो निवृकत्तिरूपो, निर्जरा तु कर्मपरिशाटो जीवः कर्मणां यत् पाप्थक्यापमापादयति स्वशक्त्या, मोक्षोऽप्यात्मा समस्तकर्मविरहित इति ।
मू.(८०५) नवविहा संसारसमावनगाजीवा पं० तं०-पुढविकाइयाजाव वणस्सइकाइया बेइंदिया जाव पंचिंदितत्ति १ पुढविकाइया नवगइया नवआगतिता पं०- तं०-पुढवीकाइए पुढविकाइएसु उववज्जमाणे पुढविकाइएहिंतो वा जाव पंचिंदियेहिंतो वा उववजेजा, से चेवणं से पुढविकाइए पुढविकायत्तं विप्पजहमाणे पुढविकाइयत्ताए जाव पंचिंदियत्ताते वा गच्छेञ्जा २ एवमाउकाइयावि ३ जाय पंचिंदियत्ति १० नवविधा सव्वजीवा पं० तं०-एगिदिया बेइंदिया तेइंदिया चउरिदिया नेरतिता पंचेदियतिरिक्खजोणिया मणुस्सा देवा सिद्धा११ अथवा नवविहा सब्वजीवा पं० २०-पढमसमयनेरतिता अपढमसमयनेरतिता जाव अपढमसमयदेवा सिद्धा १२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org