________________
४८४
स्थानाङ्ग सूत्रम् ९/-/८०१
सम्यग्विधेयेतिप्रतिपादनपरं महापरिक्षेति ९।
मू. (८०२) नव बंभचेरगुत्तीतो पं० तं०-विवित्ताई सयणासणाई सेवित्तोभवति नो इस्थिसंसत्ताइं नो पसुसंसत्ताई नो पंडगसंसत्ताई १ नो इथिणं कहं कहेत्ता २ नो इस्थिठाणाई सेवित्ता भवति ३ नो इत्थीणमिंदिताई मनोहराई मनोरमाइं आलोइत्ता निज्झाइत्ता भवइ ४ नो पणीतरसमोती ५ नो पाणभोयणस्स अतिमत्तं आहारते सता भवति ६ नो पुव्वरतं पुव्वकीलियं समरेत्ता भवति ७ नो सद्दाणुवाती नो रूवाणुवाती नो सिलोगाणुवाती ८ नो सातसोक्खपडिबद्धे यावि भवति ।
__नव बंभचेरअगुत्तीओ पं० तं० विवित्ताई सयणासणाई सेवित्ता भवइ, इत्थीसंसत्ताई पसुसंसत्ताई पंडगसंसत्ताई इत्थीणं कहं कहेत्ता भवइ इत्थीणं ठाणाई सेवित्ता भवति इत्थीणं इंदियाइंजाव निज्झाइत्ताभवति पणीयरसभोई पाणभोयणस्सअइमायमाहारएसया भवइ पुव्वरयं पुव्वकीलियं सरित्ता भवइ सद्दाणुवाई रूवानुवाई सिलोगानुवाई जाव सायासुक्खपडिबद्धे यावि भवति।
वृ.ब्रह्मचर्यशब्देन मैथुनविरतिरप्यभिधीयतइतिब्रह्मचर्यगुप्तीः प्रतिपादयन्नाह-'नेवे'त्यादि, ब्रह्मचर्यस्य-मैथुनव्रतस्य गुप्तयो-रक्षाप्रकाराः ब्रह्मचर्यगुप्तयः, 'विविक्तानि' स्त्रीपशुपण्डकेभ्यः पृथग्वर्तीनि शयनासनानि-संस्तारकपीठकादीनि उपलक्षणतया स्थानादीनि च ‘सेविता'तेषां 'सेवको भवति ब्रह्मचारी, अन्यथा तद्बाधासम्भवात्, एतदेव सुखार्थी व्यतिरेकेणाह-नो स्त्रीसंसक्तानि-नो देवीनारीतिरश्चीभिः समाकीर्णानि सेविता भवतीति सम्बध्यते,
एवं पशुभिः-गवादिभिः, तत्संसक्तौ हि तत्कृतविकारदर्शनात् मनोविकारः सम्भाव्यत इति, पण्डकाः-नपुंसकानि, तत्संसक्तौ स्त्रीसमानो दोषःप्रतीत एवेत्येकम् १, नो स्त्रीणां केवलानामिति गम्यते 'कथां धर्मदेशनादिलक्षणवाक्यप्रतिबन्धरूपांयदिवा 'कर्णाटी सुरतोपचारकुशला लाटी विदग्धप्रिया' इत्यादिकांप्रागुक्तांवा जात्यादिचातूरूपांकथयिता-तत्कथको भवतिब्रह्मचारीति द्वितीयं २, नोइथिगणाईतीह सूत्रं -श्यते केवलं 'नोइस्थिठाणाइंति सम्भाव्यते उत्तराध्ययनेषु तथाऽधीतत्वात्प्रक्रमानुसारित्वाच्चास्येतीदमेवव्याख्यायते-नोस्त्रीणां तिष्ठन्ति येषुतानि स्थानानिनिषद्याः स्त्रीस्थानानि तानि सेविता भवति ब्रह्मचारी, कोऽर्थः?-स्त्रीभिः सहकासने नोपविशेद्, उत्थितास्वपि हि तासु मूहुर्त नोपविशेदिति, दृश्यमानपाठाभ्युपगमे त्वेवं व्याख्या-नो स्त्रीगणानां पर्युपासको भवेदिति ३
नोस्त्रीणामिन्द्रियाणि-नयननासिकादीनिमनोहरन्ति-दृष्टमात्राण्याक्षिपन्तीति मनोहराणि, तथा मनो रमयन्ति-दर्शनानन्तरमनुचिन्त्यमानान्याह्लादयन्तीति मनोरमानि आलोक्यालोक्य 'निद्धर्याता' दर्शनानन्तरमतिशयेन चिन्तयिता यथाऽहो सलवणत्वं लोचनयोः ऋजुत्वं नाशावंशस्येत्यादि भवति ब्रह्मचारीति४ 'नो प्रणीतरसभोगी'नो गलस्नेहबिन्दुभोक्ता भवति ५ नो पानभोजनस्य रूक्षस्याप्यतिमात्रस्य॥१॥ “अद्धमसणस्स सव्वंजणस्स कुञा दवस्स दो भाए।
वाऊपवियारणहा छब्भायं ऊणयं कुजा ।"
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org