________________
४८६
स्थानाङ्ग सूत्रम् ९/-1८०५
नवविहा सव्वजीवोगाहणा पं० तं०-पुढविकाइओगाहणा आउकाइओगाहणा जाव वणस्सइकायओगाहणा बेइंदियओगाहणा तेइंदियओगाहणा चउरिदियओगाहणा पंचिंदियओगाहणा १३ जीवाणं नवहिं ठाणेहिं संसारं वत्तिंसु वा वत्तंति वा पत्तिस्संति वा, तं०पुढविकाइयत्ताए जाव पंचिंदियत्ताए १४।
वृ. तस्माज्जीवाजीवौ सद्भावपदार्थाविति वक्तव्यं, अत एवोक्तमिहैव “जदत्थिं च णं लोए तं सव्वं दुष्पडोयारं, तंजहा-जीवच्चेअअजीवचेअ" अत्रोच्यते, सत्यमेतत्, किन्तु यावेव जीवाजीवपदार्थी सामान्येनोक्तौ तावेवेह विशेषतो नवधोक्तौ, सामान्यविशेषात्मकत्वाद्वस्तुनः, तथेह मोक्षमार्गे शिष्यः प्रवर्तनीयो न सङ्ग्रहाभिधानमात्रमेव कर्त्तव्यं, स च यदैवमाख्यायते यदुताश्रवो बन्धो बन्धद्वारायाते च पुण्यपापे मुख्यानि तत्त्वानि संसारकारणानि संवरनिर्जर च मोक्षस्य तदा संसारकारणत्यागेनेतरत्रप्रवर्तते नान्यथेत्यतः षट्कोपन्यासः मुख्यसाध्यख्यापनार्थं चमोक्षस्येति।
अत्र च पदार्थनवके प्रथमो जीवपदार्थोऽतस्तद्भेदगत्यागत्यवगाहनासंसारनिवर्तनरोगोत्पत्तिकारणप्रतिपादनाय नवविहे त्यादिसूत्रपञ्चदशकमाह, सुगमं चेदं, नवरं अवगाहन्ते यस्यांसा अवगाहना-शरीरमिति, वत्तिंसुव'त्ति संसरणंनिर्वर्तितवन्तः-अनुभूतवन्तः, एवमन्यदपि.
मू. (८०६) नवहिं ठाणेहिं रोगुप्पत्ती सियातं०-अच्चासणाते अहितासणाते अतिनिदाए अतिजागरितेण उच्चारनिरोहेणं पासवणनिरोहेणं अद्धाणगमणेणं भोयणपडिकूलताते इंदियस्थविकोवणयाते १५/
वृ. 'अचासणयाए'त्तिअत्यन्तं-सततमासनं-उपवेशनं यस्य सोऽत्यासनस्तद्भावस्तत्ता तया, अर्थोविकारादयो हि रोगा एतया उत्पद्यन्त इति अथवा अतिमात्रमशनमत्यशनं तदेवात्यशनता, दीर्घत्वं च प्राकृतत्वात् तया, सा चाजीर्णकारणत्वात् रोगोत्पत्तये इति, 'अहियासणयाए'त्ति अहितं-अननुकूलंटोलपाषाणाद्यासनंयस्य सतथा, शेषं तथैव, तया, अहिताशनतया वा, अथवा 'सोऽजीर्णे भुज्यते यत्तु, तदध्यसनमुतच्यते ।" इति वचनात् तदध्यसनं-अजीर्णे भोजनंतदेव तत्तातयेति, भोजनप्रतिकूलता-प्रकृत्युनुचितभोजनता तया, इन्द्रियार्थानां-शब्दादिविषयाणां विकोपन-विपाकः इन्द्रियार्थविकोपनं कामविकार इत्यर्थः, ततो हि स्त्र्यादिष्वभिलाषादुन्मादादिरोगोत्पत्तिः, यत उक्तम्॥१॥ “आदावभिलाषः १ स्याच्चिन्ता तदनन्तरं २ ततः स्मरणम् ३ ।
तदनु गुणानां कीर्तन ४ मुद्वेगश्च ५ प्रलापश्च ६ उन्माद ७
स्तदनु ततो व्याधि ८र्जडता ९ ततस्ततो मरणम् १०॥" इति विषयाप्राप्तौ रोगोत्पत्तिरत्यासक्तावपि राज्यक्ष्मादिरोगोत्पत्तिः स्यादिति शारीरोगोत्पत्तिकारणान्युक्तान्यथान्तररोगकारणभूतकर्मविशेषभेदाभिधानायाह
मू. (८०७) नवविधेदरिसणावरणिज्जे कम्मे पं० तं०-निदा निद्दानिद्दा पयला पयलापयला थीणगिद्धी चक्खुदंसणावरणे अचक्खुदंसणावरणे अवधिदसणावरणे केवलदसणावरणे।
वृ. 'नवे'त्यादी, सामान्यविशेषात्मके वस्तुनि सामान्यग्रहणात्मकोबोधोदर्शनंतस्यावरणस्वभावं कर्म दर्शनावरणं तत् नवविधं, तत्र निद्रापञ्चकं तावत् 'द्रा कुत्सायां गतौ' नियतं द्राति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org