SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ स्थानाङ्ग सूत्रम् ८/-/७८५ क्षेत्रमायामविष्कम्भाभ्यामिति गम्यते । ईषत्प्राग्भाराया ईषदिति वा नाम रत्नप्रभाद्यपेक्षया ह्रस्वत्वात् तस्याः १ एवं प्राग्भारस्य ह्रस्वत्वादीषव्प्राग्भारेति वा २ अत एव तनुरिति वा तन्वीत्यर्थः ३ अतितनुत्वात्तनुतनुरिति वा ४ सिद्धन्ति तस्यामिति सिद्धिरिति वा ५ सिद्धानामाश्रयत्वात् सिद्धालय इति वा ६ मुच्यन्ते सकलकर्म्मभिस्तस्यामिति मुक्तिरिति वा ७ मुक्तानामाश्रयत्वान्मुक्तालय इति वेति ८ । सिद्धिश्च शुभानुष्ठानेष्वप्रमादितया भवतीति तानि तद्विषयत आह मू. (७८६) अट्ठहिं ठाणेहिं संमं संघडितव्वं जतितत्वं परक्कमितव्वं अस्सि च णं अड्डे नो पमातेतव्वं भवति-असुयाणं धम्माणं सम्मं सुणणताते अब्भुद्वेतव्वं भवति १ सुताणं धम्माणं ओगिण्हणयाते उवधारणयाते अब्भुट्टेतव्वं भवति २ पावाणं कम्माणं संजमेणमकरणताते अब्भुद्वेयव्यं भवति ३ पोराणाणं कम्पाणं तवसा विगिंचणताते विसोहणताते अब्भुट्टेतव्वं भवइ ४ । असंगिहीतपरितणस्स संगिण्हणताते अब्भुट्टेयव्वं भवति ५ सेहं आयारगोयरगहणताते अब्भुट्टेयव्वं भवति ६ गिलाणस्स अगिलाते वेयावच्चकरणताए अब्भुट्ठेयव्वं भवति ७ साहम्मिताणमधिकरणंसि उप्पण्णंसि तत्थ अनिस्सितोवस्सितो अपक्खग्गाही मज्झत्यभावभूते कह णु साहम्मिता अप्पसद्दा अप्पझंझा अप्यतुमंतुमा उवसामणताते अब्भुड्डेयव्वं भवति १० वृ. 'अट्टही 'त्यादि, कण्ठ्यं, नवरं अष्टासु स्थानेषु वस्तुषु सम्यग्धटितव्यं- अप्राप्तेषु योगः कार्यः यतिततव्यं-प्राप्तेषु तदवियोगार्थं यत्नः कार्यः पराक्रमितव्यं-शक्तिक्षयेऽपि तत्पालने पराक्रमःउत्साहातिरेको विधेय इति, किं बहुना ? -एवं एतस्मिन् अष्टस्थानकलक्षणे वक्ष्यमाणेऽर्थे न प्रमादनीयं-न प्रमादः कार्यो भवति, अश्रुतानाम् अनाकर्णितानां धर्माणां श्रुतभेदानां सम्यक् श्रवणतायां श्रवणतायै वाऽभ्युत्थातव्यं - अभ्युपगन्तव्यं भवति १, एवं श्रुतानां श्रोत्रेन्द्रियविषयीकृतानामवग्रहणतायै-मनोविषयीकरणाय उपधारणतायै- अविच्युतिस्मृतिवासनाविषयीकरणा ४८० येत्यर्थः २, 'विकिंचणयाए 'त्ति विवेचना निर्जरेत्यर्थः, तस्यै, अत एवात्मनो विशुद्धिः - शोधना अकलङ्गत्वं तस्यै इति ३, असङ्ग्रहीतस्य- अनाश्रितस्य परिजनस्य- शिष्यवर्गस्येति ४, 'सेहं' ति विभक्तिपरिणामाच्छैक्षस्य अभिनवप्रव्रजितस्य 'आयारगोयरं' ति आचारः साधुसमाचारस्तस्य गोचरी-विषयो व्रतषट्कादिराचारगोचरः अथवा आचारश्च ज्ञानादिविषयः पञ्चधा गोचरश्चभिक्षाचर्येत्याचारगोचरं, इह विभक्तिपरिणामादाचारगोचरस्य ग्रहणतायां-शिक्षणे शैक्षमाचारगोचरं ग्राहयितुमित्यर्थः ६, अगिलाए' त्ति अग्लान्या अखेदेनेत्यर्थः, वैयावृत्यं प्रतीति शेषः ७, 'अधिगरणंसि' त्ति विरोधे, तत्र साधर्मिकेषु निश्रितं रागः उपाश्रितं द्वेषः अथवा निश्चितं आहारादिलिप्सा उपाश्रितंशिष्यकुलाद्यपेक्षा तद्वर्जितो यः सोऽनिश्रितोपाश्रितः, न पक्षं शास्त्रबाधितं गृह्णातीत्यपक्षग्राही, अत एव मध्यस्थभावं भूतः-प्राप्तो यः स तथा, स भवेदिति शेषः, तेन च तथाभूतेन कथं नु ? - केन प्रकारेण साधर्म्मिकाः- साधवोऽल्पशब्दाः - विगतराटीमहाध्वनयः अल्पझंझाविगततथाविधविप्रकीर्णवचनाः अल्पतुमन्तुमाः- विगतक्रोधकृतमनोवकारविशेषा भविष्यन्तीति भावयतोपशमनायाधिकरणस्याभ्युत्थातव्यं भवतीति । अप्रमादिनां देवलोकोऽपि भवतीति देवलोकप्रतिवद्धाष्टकमाह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy