________________
स्थानं -८,
४८१ मू. (७८७) महासुक्कसहस्सारेसु णं कप्पेसु विमाण अट्ठ जोयणसताई उद्धं उच्चत्तेणं
पन्नत्ता।
वृ. 'महासुक्के'त्यादि कण्ठ्यं ।
मू. (७८८) अरहतो णं अरिट्टनेमिस्स अट्ठसया वादीणं सदेवमणुयासुराते परिसाते वादे अपराजिताणं उक्कोसिया वादिसंपया हुत्था।
वृ.अनन्तरोक्तविमानवासिदेवैरपि वस्तुविचारेनजीयन्ते केचिद्वादिन इति तदष्टकमाह'अरहओ' इत्यादि, सुगमं । एतेषां च नेमिनाथस्य विनेयानमध्ये कश्चित्केवलीभूत्वा वेदनीयादिकर्मस्थितीनामायुष्कस्थित्या समीकरणार्थं केवलिसमुद्घातं कृतवानिति समुद्घातमाह
मू. (७८९) अहसमतिए केवलिसमुग्धाते पं० २०-पढमे समए दंडं करेति बीए समए कवाडं करेति ततिए समए मंथानं करेति चउत्थे समए लोग पूरेतिपंचमे समए लोगं पडिसाहरति छठे समए मंथं पडिसाहरति सत्तमे समए कवाडं पडिसाहरति अट्टमे समए दंडं पडिसाहरति ।
दृ. 'अट्टे' त्यादि, तत्र समुद्घातं प्रारभमाणः प्रथममेवावर्जीकरणमभ्येति, अन्तर्मोहूर्तिकं उदीरणावलिकायां कर्मप्रक्षेपव्यापाररूपमित्यर्थः, ततः समुद्घातं गच्छति, तत्र च प्रथमसमये स्वदेहविष्कम्भमूर्ध्वमधश्चायतमुभयतोऽपिलोकान्तगामिनंजीवप्रदेशसङ्गातंदण्डमिव दण्डं केवली ज्ञानाभोगतः करोति, द्वितीयेतुतमेव दण्डंपूर्वापरदिग्द्वयप्रसारणात्पार्वतो लोकान्तगामिकपाटमिव कपाटंकरोति, तृतीयेतदेवदक्षिणोत्तरदिग्द्वये प्रसारणान्मन्थानंकरोतिलोकान्तप्राणिणमेवेति, एवं च लोकस्य प्रायो बहुपूरितं भवति,
मन्थान्तराण्यपूरितानि भवन्ति अनुश्रेणिगमनाजीवप्रदेशा नामिति, चतुर्थे तु समये मन्थान्तराण्यपिसकललोकनिष्कुटैः सह पूरयति, ततश्च सकलोलोकः पूरितो भवतीति, तदनन्तरमेव पञ्चमे समये यथोक्तप्रतिलोमं मन्थान्तराणि संहरति जीवप्रदेशान् सकर्मकान् सङ्कोचयति, षष्ठेमन्थानमुपसंहरति,धनतरसंकोचात्, सप्तमे कपाटमुपसंहरति, दण्डात्मनि सङ्कोचात, अष्टमे दण्डमुपसंहृत्य शरीरस्थ एव भवति, तत्र च--
“औदारिकप्रयोक्ता प्रथमाष्टमसमययोरसाविष्टः ।
मिश्रोदारिकयोक्ता सप्तमषष्ठद्वितीयेषु ।। ॥२॥ कार्मणशरीरयोगी चतुर्थके पञ्चमे तृतीये च ।
समयत्रये च तस्मिन् भवत्यानाहारको नियमाद् ।।" इति, वाङ्मनसोस्त्वप्रयोक्तैव, प्रयोजनाभावादिति, अतोऽभिहितमष्टौ समयाः यस्मिन् सोऽष्टसमयः स एवाटसामयिकः केवलिनः समुद्घातो केवलिसमुद्घातो न शेष इति ।
अनन्तरं केवलिनां समुद्घातवक्तव्योतोक्ता, अधाकेवलिनां गुणवतां देवत्वं भवतीति देवाधिकारवत् समणस्सेत्यादि सूत्रपञ्चकं
मू. (७९०) समणस्सणंभगवतोमहावीरस्सं अट्ठ सयाअनुत्तरोववातियाणंगतिकल्लाणाणं जाव आगमेसिभद्दाणं उक्कोसिता अनुत्तरोववातितसंपया हुत्था 91
वृ.सुगमं, नवरं अनुत्तरेषु-विजयादिविमानेषूपपातो वेषामस्तितेऽनुत्तरोपपातिकास्तेषां साधूनामिति गम्यते, तथा गतिः- देवगतिलक्षणा कल्याणा येषां, एवं स्थितिरपि, तथा [ 3 131
॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org